________________ 89 81] शतकनामा पञ्चमः कर्मग्रन्थः। वरण-केवलदर्शनावरण-निद्रापञ्चक-मिथ्यात्व-संज्वलनवर्जद्वादशकषायलक्षणानां विंशतिसङ्ख्यानामपि भवति' जायते। काऽत्र युक्तिः ? इति चेद् उच्यते-इहाष्टानामपि मूलप्रकृतीनां प्रत्येक ये खिग्धतराः परमाणवस्ते स्तोकाः, ते च स्वस्वमूलप्रकृतिपरमाणूनामनन्ततमो भागः, त एव च सर्वघातिप्रकृतियोग्याः / तस्मिंश्चानन्ततमे भागे सर्वघातिरसयुक्तेऽपसारिते शेषस्य दलिकस्य देशघातिरसोपेतस्य का वार्ता ? इत्याह-"वज्झंतीण विभज्जइ" इत्यादि / बध्यमानानां न त्वबध्यमानानां 'विभज्यते' विभागीक्रियते, विभज्य विभज्य दीयत इत्यर्थः / 'शेष' सर्वघातिप्रकृत्यनन्तमागावशिष्टं प्रदेशानं कासां बध्यमानानां विभज्यते? इत्याह-शेषाणां' सर्वघातिप्रकृत्यवशिष्टानां स्वजातिप्रकृतीनाम्, कथम् ? इत्याह-'प्रतिसमयं प्रतिक्षणम्, बन्धन-विभजनक्रिययोरुभयोरपि क्रियाविशेषणमिदं योजनीयम् / .अयमत्र तात्पर्यार्थः-इह ज्ञानावरणस्य पञ्च तावदुत्तरप्रकृतयः, तासु चैका केवलज्ञानावरणलक्षणा सर्वघातिनी, शेषाश्चतस्रो देशघातिन्यः / तत्र ज्ञानावरणस्य भागे यद् दलिकमायाति तस्य यद् अनन्तभागवर्ति सर्वघातिरसोपेतं द्रव्यं तत् केवलज्ञानावरणस्यैव भागतया परिणमति / शेषं तु देशघातिरसोपेतं द्रव्यं चतुर्धा विभज्यते, तच्च मतिज्ञानावरण-श्रुतज्ञानावरणा-ऽवधिज्ञानावरण-मनःपर्यायज्ञानावरणेभ्यो दीयते। दर्शनावरणस्य च नव उत्तरप्रकृतयः, तासु च केवलदर्शनावरणं निद्रापञ्चकं चेति षट् सर्वघातिन्यः, शेषास्तिस्रो देशघातिन्यः / तत्र दर्शनावरणस्य भागे यद् द्रव्यमागच्छति तस्य मध्ये यत् सर्वघातिरसोपेतमनन्ततमभागवर्ति द्रव्यं तत् षभिर्भागैर्भूत्वा सर्वघातिप्रकृतिषट्करूपतयैव परिणमति, शेषं तु देशघातिरसयुक्तं द्रव्यं शेषप्रकृतित्रयभागरूपतयेति / वेदनीयस्य पुनः सातरूपाऽसातरूपा वैकैव प्रकृतिरेकदा बध्यते, न युगपदुमे अपि, साता-ऽसातयोः परस्परं विरोधात् , अतो वेदनीयभागलब्धं द्रव्यमेकस्या एव बध्यमानायाः प्रकृतेः सर्वं भवति / मोहनीयस्य स्थित्यनुसारेण यो मूलभाग आमजति तस्यानन्ततमो भागः सर्वघातिप्रकृतियोग्यो द्वेधा क्रियते, अर्ध दर्शनमोहनीयस्य अर्ध चारित्रमोहनीयस्य / तत्राध दर्शनमोहनीयसत्कं समग्रमपि मिथ्यात्वमोहनीयस्य ढौकते। चारिप्रमोहनीयस्य तु सत्कमधं द्वादशधा क्रियते, ते च द्वादश भागा आयेभ्यो द्वादशकषायेभ्यो दीयन्ते, स्वस्थाने तु कषायद्वादशकस्यापि तुल्यम् / शेषं तु देशघातिरससमन्वितं द्रव्यं द्विधा क्रियते, तत्रैको भागः कषायमोहनीयस्य द्वितीयो नोकषायमोहनीयस्य / तत्र कषायमोहनीयस्य भागश्चतुर्धा क्रियते, ते च चत्वारोऽपि भागाः संज्वलनक्रोध-मान-माया-लोभानां दीयन्ते। नोकषायमोहनीयस्य पुनर्भागः पञ्चधा क्रियते, ते च पश्चापि भागा यथाक्रमं त्रयाणां वेदानामन्यस्मै वेदाय बध्यमानाय, हास्य-रतियुगला-ऽरति-शोकयुगलयोरन्यतरस्मै युगलाय भय-जुगुप्साभ्यां च दीयन्ते नान्येभ्यः, बन्धाभावात् / न हि नवापि नोकषाया युगपद् बन्धमायान्ति, किन्तु यथोक्ताः पश्चैव / आयुषस्तु भागे यद् द्रव्यमागच्छति तत् सर्वमेकस्या एव बध्यमानप्रकृतेर्भवति, यत आयुष एकस्मिन् काले एकैव प्रकृतिर्बध्यत इति / नामकर्मणो भागभावना कर्मप्रकृत्यभिप्रायेण दर्श्यते / तत्रेयं गाथा____12 .