________________ 88 देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः स्वकार्य सुख-दुःखरूपं व्यक्तीकर्तुं समर्थाः, शेषकर्मपुद्गलाः पुनः स्वल्पा अपि.स्वकार्य निष्पादयन्ति / दृश्यते च पुद्गलानां स्वकार्यजननेऽल्पबहुत्वकृतं सामर्थ्यवैचित्र्यम् / यथा हि घृष्ट्यादि कदशनं बहुतरमुपभुक्तं तृप्तिलक्षणं स्वकार्यमातनोति, मृद्वीकादिकं त्वल्पमपि भुक्तं तृप्तिमुप-- कल्पयति; यथा विषं स्वल्पमपि मारणादिकार्य साधयति, लेष्टुकादिकं तु प्रचुरमिति, एवमिहापि उपनयः कार्यः / तस्मात् प्रभूता वेदनीयपुद्गलाः सुख-दुःखे साधयन्तीति सुख-दुःखस्फुटत्व.. कारणाद् वेदनीयस्य महान् भाग इति स्थितम् / शेषकर्मणां भागस्य हीनाधिकत्वे कारणमाह-. "ठिईविसेसेण सेसाणं" ति वेदनीयात् शेषकर्मणामायुष्कादीनां भागस्य हीनत्वमाधिक्यं वा विज्ञेयम् / केन ? इत्याह-स्थितिविशेषेण हेतुभूतेन, यस्य नाम-गोत्रादेरायुष्काद्यपेक्षया महती स्थितिस्तस्य तदपेक्षया भागोऽपि महान् , यस्य त्वसौ हीना तस्य सोऽपि हीन इति भावः। ननु स्थित्यनुरोधेन भागो भवन्नायुषः सकाशाद् नाम-गोत्रयोर्भागः सङ्ख्यातगुणः प्रामोति तत् किमित्युक्तं विशेषाधिक इति ? सत्यमेतत् , किन्तु सर्वोऽपि नरकगत्यादिकर्मकलाप आयुष्कोदयमूलः, तदुदय एव तस्योदयात् , अत आयुष्कं प्रधानत्वाद् बहुपुद्गलद्रव्यं लभते / यद्येवं तदपेक्षयाप्रधानत्वाद् नाम-गोत्रयोर्भागस्य विशेषाधिकत्वमयुक्तमिति, सत्यमेतत् , किन्तु नाम-गोत्रे. सततबन्धिनी, ततस्तदपेक्षया बहुद्रव्यमाप्नुतः, आयुष्कं तु कादाचित्कबन्धत्वादल्पद्रव्यमामोति / इदमुक्तं भवति-स्थित्यनुसारेण सङ्ख्यातगुणहीनताप्राप्तावपि शेषकर्मोदयाक्षेपकत्वेन प्रधानत्वाद नाम-गोत्रापेक्षया किञ्चिदूनमेव भागमायुष्कं लभते, नाम-गोत्रे त्वप्रधानतया हीनताप्राप्तावपि सततबन्धित्वादायुष्कापेक्षया विशेषाधिकमेव भागं लभेते / ननु तथापि ज्ञानावरणाद्यपेक्षया मोहनीयस्य सङ्ख्यातगुणो भागः प्रामोति, तत्स्थितेर्ज्ञानावरणीयादिस्थित्यपेक्षया सङ्ख्यातगुणत्वात् , अतः कथं विशेषाधिक उक्तः ? सत्यम् , दर्शनमोहनीयलक्षणाया एकस्या एव मिथ्यात्वप्रकृतेः सप्ततिसागरोपमकोटीकोटीलक्षणा स्थितिरुक्ता, चारित्रमोहनीयस्य तु कषायलक्षणस्य चत्वारिंशत्सागरोपमकोटीकोटीलक्षणैव स्थितिः, अतस्तदनुसारेण विशेषाधिक एव तद्भाग उक्तो न तु सङ्ख्यातगुणः / दर्शनमोहनीयद्रव्यं तु सर्वमेव चारित्रमोहनीयदलिकात् सर्वघातित्वेनानन्तभाग एव वर्तत इति न किञ्चित् तेन वर्धत इति / युक्तिमात्रं चैतत् , निश्चयतस्तु श्रीसर्वज्ञवचनप्रामाण्यादेवातीन्द्रियार्थप्रतिपत्तिः। भवत्वेवम् तथाप्येकस्मिन् समये गृहीतद्रव्यस्य कथमष्टधा परिणामः ? कथं चैवं भागविकल्पना ? इति चेद् उच्यते-अचिन्त्यत्वाज्जीवशक्तेविचित्रत्वाच पुद्गलपरिणामस्य जीवव्यतिरिक्तानामपि झमेन्द्रधनुरादिपुद्गलानां विचित्रा परिणतिरवलोक्यते किमुत जीवपरिगृहीतानाम् ? इत्यलं विस्तरेणेति // 80 // कृता मूलप्रकृतीनां भागप्ररूपणा / साम्प्रतमुत्तरप्रकृतीनां भागप्ररूपणां चिकीर्षुराह-. नियजाइलद्धदलियाणंतंसो होइ सब्वघाईणं / / बझंतीण विभाइ, सेसं सेसाण पइसमयं // 81 // यका यकाः प्रकृतयो यस्यां यस्यां मूलप्रकृतौ पठिता विद्यन्ते तासां सैव प्रकृतिर्निजजातिर्विज्ञेया / तया तया निजनिजमूलप्रकृतिरूपया निजजात्या यद् लब्धं प्राप्तं दलिकामं तस्य योऽनन्तांश:-अनन्तभागः सर्वघातिरसयुक्तः स एव 'सर्वघातिनीनां' प्रकृतीनां केवलज्ञाना