________________ -09-80] शतकनामा पञ्चमः कर्मग्रन्थः / मेहाम्यक्तशरीरस्य, रेणुना श्लिष्यते यथा गात्रम् / रागद्वेषाक्लिन्नस्य कर्मबन्धो भवत्येवम् // (प्रशम० का० 55) न लनन्तरपरम्परप्रदेशावगाढम् , भिन्नदेशस्थस्य कर्मपुद्गलद्रव्यस्य ग्राह्यत्वपरिणामाभावात् / यया हि दहनः स्वप्रदेशस्थितान् योग्यपुद्गलानात्मभावेन परिणमयति इत्येवं जीवोऽपि स्वक्षेत्रसमेव द्रव्यमादत्ते न त्वनन्तरपरम्परप्रदेशस्थम् / एतच्च द्रव्यं गृह्यमाणं जीवेन नैकेन प्रदेशेन न यादिभिर्वा प्रदेशैः किन्तु सर्वैरप्यात्मीयप्रदेशैरित्येतदेवाह-निजाः-आत्मीयाः सर्वे-समखाः प्रदेशा निजसर्वप्रदेशास्तैर्निजसर्वप्रदेशतः, आद्यादेराकृतिगणत्वात् तस्प्रत्ययः, निजसर्वप्रदेशैः कर्मस्कन्धदलिकं गृहातीत्यर्थः, जीवप्रदेशानां सर्वेषामपि शृङ्खलावयवानामिव परस्पर सबन्धविशेषमावात् / तथाहि-एकस्य जीवस्य समस्तलोकाकाशप्रदेशराशिप्रमाणाः प्रदेशा वर्तन्ते, मिथ्यात्वादिबन्धकारणोदये च सति एकस्मिन् जीवप्रदेशे स्वक्षेत्रावगाढग्रहणप्रायोग्यव्यग्रहणाय व्याप्रियमाणे सर्वेऽप्यात्मप्रदेशा अनन्तरपरम्परतया तद्रव्यग्रहणाय व्याप्रियन्ते यथा हस्ताग्रेण कस्मिंश्चिद् बाह्ये घटादिके गृह्यमाणे मणिबन्ध-कूर्परांऽसादयोऽपि तद्वहणायाऽनन्तस्परम्परतया व्याप्रियन्त इति / अथैवमेकाध्यवसायगृहीतकर्मपुद्गलद्रव्यस्य यस्मिन् कर्मणि बावन्मात्रो भागो भवति इत्येतदभिधित्सुराह-"थेवो आउ तदंसो" ति इहाष्टविधबन्धकेन अन्तुना यदेकेनाध्यवसायेनं विचित्रतागर्भेण गृहीतं दलिकं तस्याष्टौ भागा भवन्ति, सप्तविधमन्धकस्य सप्त भागाः, षड्विधबन्धकस्य षड् भागाः, एकविधवन्धकस्यैको भागः / तत्र यदाऽऽयुन्धकालेऽष्टविधबन्धको जन्तुर्भवति तदा शेषकर्मस्थित्यपेक्षयाऽऽयुषोऽल्पस्थितित्वेन गृहीतस्य सस्यानन्तस्कन्धात्मककर्मद्रव्यस्यांशः भागः सर्वस्तोकः आयुष्करूपतया परिणमति, ततो नाग्नि गोत्रे च तुल्यस्थितित्वेन स्वस्थाने द्वयोरपि भागः समः, तत आयुष्कभागात्तु 'अधिकः' . विशेषाधिक इति // 79 // विग्घावरणे मोहे, सव्वोवरि वेयणीये जेणप्पे / तस्स फुडत्तं न हवइ, ठिईविसेसेण सेसाणं // 8 // विनस्य–अन्तरायस्य आवरणयोः-ज्ञानावरण-दर्शनावरणयोर्भागः समः, स्वस्थाने त्रयागामपि तुल्यस्थितिकत्वात् , नाम-गोत्रापेक्षया त्वधिकः, विशेषाधिक इत्यर्थः / ततोऽन्तरायहीनावरण-दर्शनावरणभागाद् 'मोहे' मोहनीये भागः 'अधिकः' विशेषाधिकः। ननु तर्हि वेदनीअस्य किरूपो भागो भवति ! इत्याह–'सर्वोपरि' वेदनीये सर्वकर्मभागोपरिष्टाद् विशेषाधिको भागो भवति / इदमुक्तं भवति-शेषकर्मापेक्षया तावद् मोहनीयस्योपरि भाग उक्तः, वेदनीयस्य पुनर्मोहनीयभागादपि सकाशाद् उपर्येव भागः। अत्र विनेयः पृच्छति—किं पुनरिह कारणं येनोतक्रमण कर्मणां भागाधिक्यं भवति? इति, अत्र वेदनीयस्य तावद् भागाधिक्ये कारणमाह"तस्स फुडत्तं न हवइ" ति 'येन' कारणेन 'अल्पे' स्तोके दलिके सति 'तस्य' वेदनीयस्य '-कर्मणः 'स्फुटत्वं' सुख-दुःखानुभवनव्यक्तिरिति यावत् 'न' नैव 'भवति' जायते। एतदुक्तं भवतिसुख-दुःखजननस्वभावं वेदनीयं कर्म, तद्भावपरिणताश्च पुद्गलाः स्वभावात् प्रचुरा एव सन्तः 10 1-2-10 म० छान चित्र° // 2 सं० 1-2 त०म० 0 "मणीद जे //