________________ देवेन्द्रसूरिविरचितः स्वोपाटीकोपेतः [गाया पञ्चवर्णम् / पञ्च रसाः-तिक्त-कटुक-कषाया-ऽम्ल-मधुरखरूपा यस्य तत् पञ्चरसम् / कार्मणवर्गशाप्रधानाः स्कन्धाः कर्मस्कन्धाः, त एव यथाखकालं दलनाद् विशरारुभवनात् "दल त्रिफला विशरणे" (सिद्धहेमधा० पा० 222) इति वचनात् , दलं-दलिकं कर्मस्कन्धदलम् / ततोऽन्तिमचतुःस्पर्श च तद् द्विगन्धं चान्तिमचतुःस्पर्शद्विगन्धम् , अन्तिमचतुःस्पर्शद्विगन्धं च तत् पश्चवर्ण चान्तिमचतुःस्पर्शद्विगन्धपञ्चवर्णम्, अन्तिमचतुःस्पर्शद्विगन्धपञ्चवर्ण च तत् पञ्चरसं चान्तिमचतुःस्पर्शद्विगन्धपञ्चवर्णपञ्चरसम् , अन्तिमचतुःस्पर्शद्विगन्धपञ्चवर्णपश्चरसं च तत् कर्मस्कन्धदलं चान्तिमचतुःस्पर्शद्विगन्धपञ्चवर्णपञ्चरसकर्मस्कन्धदलम् / इह स्कन्धग्रहणेनैतत् सूचयतिये कर्मस्कन्धास्त एव चतुःस्पर्शवन्तो जीवेन गृह्यन्ते, औदारिक-वैक्रिया-ऽऽहारकशरीरयोग्यास्तु स्कन्धा अष्टस्पर्शा एव गृधन्ते इति, तैजसाद्याश्च ये ग्रहणप्रायोग्यास्तेऽपि सर्वे चतुःस्पर्शवन्त एव जीवेन गृह्यन्त इति मन्तव्यम् ।वर्ण-गन्ध-रसाः पुनरौदारिकादीनां सर्वेषामपि स्कन्धान यथोक्तप्रमाणा एव भवन्ति / उक्तं च पंचरसपंचवन्नेहिं परिणया अट्ठ फास दो गंधा / जीवाहारगजोगा, चउफासविसेसिया उवरिं // ( पञ्चसं० गा० 410) आहारकस्कन्धेभ्य उपरितनास्तैजसाद्याः स्कन्धा ग्रहणप्रायोग्याः सर्वे चतुःस्पर्शा भवन्तीत्यर्थः / तथा सर्वजीवेभ्योऽनन्तो गुणो येषां ते सर्वजीवानन्तगुणाः, रस्यते-विपाकानुभवनेन आस्वाबूत इति रसः-अनुभागस्तस्याणवः-अंशा रसाणवः, सर्वजीवानन्तगुणाश्च ते रसाणवश्व सर्वजीवानन्तगुणरसाणवस्तैर्युक्तं-समन्वितम् / इदमत्र हृदयम्-इह सर्वजघन्यस्यापि पुद्गलस्य रसः केवलिप्रज्ञया छिद्यमानः सर्वजीवानन्तगुणान् भागान् प्रयच्छति / ते च भागा अतिसूक्ष्मतयाऽपरभागाभावानिरंशा अंशा रसाणव इत्युच्यन्ते / रसाणवो रसविभागा रसपलिच्छेदा भावपरमाणव इति पर्यायाः / ते च रसाणवः प्रतिस्कन्धं सर्वकर्मपरमाणुषु सर्वजीवानन्तगुणा क्विन्ते, तैश्चैवंविधै रसाणुभिर्युक्तं परिगतं कर्मस्कन्धदलिकं जीवो गृहातीति / एतदुक्तं भवतिनिम्बेक्षुरसायधिश्रयणैस्तण्डुलेषु प्रत्येकं यथा रसविशेषं तत्तद्रूपं पक्ता जनयति, तथा अनुभागबन्धाध्यवसायैः सर्वस्कन्धेष्वभव्यानन्तगुणकर्मप्रदेशनिष्पन्नेषु प्रतिपरमाणु सर्वजीवेभ्योऽनन्तगुणान् रसाविभागपलिच्छेदान् जीवो जनयतीति / तथा "अणंतयपएसं" ति अनन्ता अभव्यानन्तगुणाः सिद्धेभ्योऽनन्तगुणहीनाः प्रदेशाः पुद्गला यत्र तदनन्तप्रदेशम् / इदमुक्तं भवतिअभव्येभ्योऽनन्तगुणैः सिद्धेभ्योऽनन्तगुणहीनैः परमाणुभिर्निष्पन्नमेकैकं कर्मस्कन्धं गृहाति, तानपि स्कन्धान प्रतिसमयमभव्येभ्योऽनन्तगुणान् सिद्धानामनन्तभागवर्तिन एव गृहातीति // 78 // .. एगपएसोगाढं, नियसव्वपएसओ गहेइ जिओ / थेवो आउ तदंसो, नामे गोए समो अहिओ // 79 // एकस्मिन् प्रदेशेऽवगाढमेकप्रदेशावगाढं-येष्वाकाशप्रदेशेषु जीवोऽवगाढस्तेष्वेक् यत् कर्म पुदलद्रव्यं तद् रागादिस्नेहगुणयोगाद् आत्मनि लगति / यदाह वाचकमुख्यः 1 पश्चरसपञ्चवर्णैः परिणता अष्ट स्पर्शा द्वौ गन्धौ / जीवाहरणयोग्याश्चतुःस्पर्शविशेषिता उपरि // ...