________________ 77-78 ] शतकनामा पञ्चमः कर्मग्रन्थः। खस्वोत्कृष्टवर्गणायां यावन्मात्राधिकत्वं तदाह-सवत्थ जहन्नुचिया नियणंतसाहिया जिहा" 'सर्वत्र' सर्वास्वप्यौदारिक-वैक्रिया-ऽऽहारक-तैजस-भाषा-ऽऽनापान-मनः-कार्मणवर्गणासु जघन्या चासावुचिता च-योग्या च जघन्योचिता योग्यजघन्येत्यर्थः, तस्याः सकाशात् , प्राकृतत्वात् पञ्चम्येकवचनस्य लुप्, निजेन स्वकीयेनानन्तांशेन अनन्तभागेनाधिका-समर्गला भवति। काऽसौ ? इत्याह-'ज्येष्ठा' उत्कृष्टा। किमुक्तं भवति ?-औदारिकजघन्यग्रहणवर्गणारम्भकस्कन्धस्यानन्तभागे यावन्तोऽणवस्तत्प्रमाणेन विशेषेणोत्कृष्टवर्गणारम्भक एकैकस्कन्धोऽधिको मन्तव्यः / अत एवानन्तभागलब्धपरमाणूनामनन्तत्वेनैकैकपरमाणुवृद्ध्या जायमाना जघन्योत्कृष्टान्तरालघर्तिन्य औदारिकवर्गणा अप्यनन्ताः सिद्धा भवन्ति / एवं वैक्रिया-ऽऽहारक-तैजस-भाषा-ऽऽनापान-मनः-कार्मणवर्गणास्वपि ग्रहणप्रायोग्यासु निजनिजजघन्यवर्गणारम्भकस्कन्धस्यानन्तभागे येऽनन्तपरमाणवस्तावन्मात्रेणानन्तभागेन खस्वोत्कृष्टवर्गणारम्भक एकैकः स्कन्धोऽधिको वाच्यः, तस्य चानन्तभागस्यानन्तपरमाणुमयत्वेनैकैकपरमाणुवृद्धाः सर्वग्रहणवर्गणा अप्यनन्ता अवसेयाः, केवलमुत्तरोत्तरवर्गणास्कन्धानामनन्तगुणपरमाणूपचितत्वेनानन्तभागोऽप्युत्तरोत्तरीनुप्रवृद्ध-प्रवृद्धतरप्रवृद्धतमादिभेदेन नानाविधो दृश्य इति // 77 // . अथ यादृशं कर्मस्कन्धदलिकं जीवो गृह्णाति तदाह- अंतिमचउफासद्गंधपंचवन्नरसकम्मखंधदलं / सव्वजियणंतगुणरसमणुजुत्तमणंतयपएसं // 78 // जीवः कर्मस्कन्धदलं गृह्णातीत्युत्तरगाथायां सम्बन्धः / तत्र “अंतिम" ति अन्ते भवा अन्तिमाः “पश्चादाद्यन्ताग्रादिमः” (सिद्ध० 6-3-75) इतीमप्रत्ययः, अन्त्याः-पर्यन्तवर्तिनः, अन्तिमत्वं च “फाँसा गुरुलहुमिउखरसीउण्हसिणिद्धरुक्खऽ?" ( गा० 40) इति कर्मविपाकसूत्रप्रतिपादितक्रममाश्रित्य ज्ञेयम् / चत्वारः-चतुःसङ्ख्याः स्पर्शाः-शीत-उष्ण-स्निग्ध-रूक्षलक्षणा यस्य कर्मस्कन्धदलस्य-कर्मस्कन्धद्रव्यस्येत्यर्थः, तदन्तिमचतुःस्पर्शम् / अयमत्राशयःअमीषां चतुर्णा स्पर्शानां मध्यात् कोऽपि परमाणुः केनाप्यविरुद्धेन स्पर्शद्वयेन संयुक्तस्तत्र विद्यते। तथाहि-स्निग्ध-उष्णस्पर्शद्वितयोपेतः कश्चित् परमाणुस्तत्र भवति, कश्चन रूक्ष-शीतस्पर्शद्वययुक्तः परमाणुः, कश्चिच्च स्निग्ध-शीतस्पर्शद्वयोपेतः, कश्चित्तु रूक्ष-उष्णस्पर्शद्वयसमन्वित इति / अतः स्कन्धद्रव्यमभव्यानन्तगुणपरमाणुनिर्वृत्तं सिद्धानन्तभागवर्तिपरमाणुकलितमविरुद्धस्पर्शद्वयोपेतपरमाणुसहिततया चतुःस्पर्शसम्पन्नं सङ्गच्छत एव / गुरु-लघु-मृदु-कठिनस्पर्शवन्तश्च ये परमाणवस्ते कर्मस्कन्धद्रव्ये न भवन्तीति / एतच्च प्रज्ञप्ति-कर्मप्रकृत्याद्यभिप्रायेणोक्तम् / बृहच्छतकटीकायां तु-"मृदु-लघुलक्षणं स्पर्शद्वयं तावदवस्थितं भवति, अपरौ च स्निग्ध-उष्णो स्निग्ध-शीतौ वा, रूक्ष-उष्णौ रूक्ष-शीतौ वा, द्वावविरुद्धौ भवतः" ( पत्र 104-1) इति चतुःस्पर्शोक्तिरुक्ता / तथा द्वौ सुरभि-दुरभिलक्षणौ गन्धौ यस्य तद् द्विगन्धम् / पञ्चशब्दस्य प्रत्येकं सम्बन्धात् पञ्चेति-पञ्चसङ्ख्या वर्णाः कृष्ण-नील-लोहित-हारिद्र-शुक्ललक्षणा यस्य तत् .. 1 सं० 2 त० छा० °न स्वकीयेना // 2 सं० 1-2 रासु प्र° // 3 स्पर्शा गुरुर्लधुर्मुदुः - खरः शीत उष्णः स्निग्धो रूक्ष इत्यष्टौ //