________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः एवमेता औदारिकाद्याः कार्मणवर्गणावसाना वर्गणाः प्ररूपिताः। इत ऊर्ध्वमन्यत्र कर्मप्रकृत्यादिण्वन्या अपि ध्रुवा-ऽचित्ताद्या वर्गणा निरूपिताः, ताश्चेहानुपयोगित्वेन नोक्ताः, तत एवावसेयाः, संक्षेपरुचिसत्त्वानुग्रहार्थत्वात् प्रस्तुतप्रारम्भस्येति / उक्ता वर्गणाः, एताश्च बहुतरपरमाणुनिचयरूपा अभिहिताः, अतः कियन्मानं क्षेत्रं ता व्याप्नुवन्ति ! इत्याह-"सुहुमा कमा" इत्यादि / एता औदारिकाद्या वर्गणाः 'क्रमात्' क्रमेणउत्तरोत्तरपरिपाट्या सूक्ष्मा ज्ञातव्याः। अयमर्थः-प्रथममग्रहणवर्गणा औदारिकस्य सूक्ष्माः, ततस्तस्यैव ग्रहणवर्गणाः सूक्ष्माः, ततस्तस्यैवाग्रहणवर्गणाः सूक्ष्माः। ततो वैक्रियस्य ग्रहणवर्गणाः सूक्ष्माः, ततस्तस्यैवाग्रहणवर्गणाः सूक्ष्माः / तत आहारकग्रहणवर्गणाः सूक्ष्माः, ततस्तदग्रहणवर्गणाः सूक्ष्माः / ततस्तैजसग्रहणवर्गणाः सूक्ष्माः, ततस्तदग्रहणवर्गणाः सूक्ष्माः / ततो भाषाग्रहणवर्गणाः सूक्ष्माः, ततस्तदग्रहणवर्गणाः सूक्ष्माः। तत आनापानग्रहणवर्गणाः सूक्ष्माः, ततस्तदग्रहणवर्गणाः सूक्ष्माः। ततो मनोग्रहणवर्गणाः सूक्ष्माः, ततस्तदग्रहणवर्गणाः सूक्ष्माः / ततः कार्मणग्रहणवर्गणाः सूक्ष्मा इति। "अवगाहो ऊणूणंगुलअसंखंसु" त्ति अवगाहन्ते'अवस्थानं कुर्वन्ति वर्गणा यस्मिन् असावगाहः-अवस्थानक्षेत्रम् , सच कियन्मात्रः ! इत्याह--- * 'ऊनोनामुलासङ्ख्येयांशः' न्यूनः न्यूनतरोऽङ्गुलस्यासङ्ख्येयांशः-अङ्गुलासङ्ख्येयभागो यत्र स तथा। एतदुक्तं भवति-पुद्गलद्रव्याणां हि यथा यथा प्रभूतपरमाणुनिचयः सम्पद्यते तथा तथा सूक्ष्मः सूक्ष्मतरः परिणामः सञ्जायते, तत औदारिकवर्गणास्कन्धानामवगाहनाऽङ्गुलासख्यभागः, स एव तदग्रहणवर्गणानां न्यूनः; स एव वैक्रियग्रहणवर्गणानां न्यूनः, तदग्रहणवर्गणानां स एव न्यूनः; आहारकग्रहणवर्गणानां स एव न्यूनः, तदग्रहणवर्गणानां स एव न्यूनः; तैजसग्रहणवर्गणानां स एव न्यूनः, तदग्रहणवर्गणानां स एव न्यूनः; भाषाग्रहणवर्गणानां स एव न्यूनः, तदग्रहणवर्गणानां स एव न्यूनः; आनापानग्रहणवर्गणानां स एव न्यूनः, तदग्रहणवर्गणानां स एव न्यूनः; मनोग्रहणवर्गणानां स एव न्यूनः, तदग्रहणवर्गणानां स एव न्यूनः; कार्मणग्रहणवर्गणानां स एवाङ्गुलासङ्ग्येयभागो न्यूनतर इति // 76 // - उक्तं वर्गणानां खरूपमवगाहक्षेत्रमानं च / अधुनैकादिवृद्ध्या वर्धमानानामग्रहणवर्गणानां परिमाणनिरूपणायाह इक्किकहिया सिद्धाणंतंसा अंतरेसु अग्गहणा। - सव्वत्थ जहन्नुचिया, नियणंतसाहिया जिट्ठा // 77 // एकैकः परमाणुः प्रतिस्कन्धमधिकः-उत्तरप्रवृद्धो यासु ता एकैकाधिका एकैकपरमाणुवृद्धा इत्यर्थः, अग्रहणवर्गणा भवन्तीति योगः / कियत्यः ? इत्याह—'सिद्धानन्तांशाः' सिद्धानामनन्तोऽशः-भागो यासां ताः सिद्धानन्तांशाः-सिद्धानन्तभागवर्तिन्यः, उपलक्षणत्वाद् अभव्यानन्तगुणाः। आसामाधारनिरूपणायाह---'अन्तरेषु अन्तरालेष्वौदारिक-वैक्रियादिवर्गणामध्येष्वित्यर्थः, 'अग्रहणाः' अग्रहणवर्गणाः / एतदुक्तं भवति–निजनिजजघन्याग्रहणवर्गणैकस्कन्धे ये परमागवस्तेऽभव्यराशिप्रमाणेनानन्तकेन गुणिता यावन्तो भवन्ति तावत्योऽग्रहणवर्गणा एकैकपरमाणुवृद्धा अन्तरेषु मन्तव्याः / अधुना ग्रहणयोग्यवर्गणासु निजनिजजघन्यवर्गणायाः सकाशात्