________________ 7] . शतकनामा पञ्चमः कर्मग्रन्थः। भागोऽपि सूक्ष्मसम्परायादिगुणस्थानकेषु स्थानतो निर्दिष्टः / स च तत्र तत्र तत्प्रथमतका बध्यमानत्वात् सादिः, क्षीणमोहाद्युपरितनावस्थासु चावश्यं न भवतीत्यध्रुवः / उत्कृष्टं त्वनुभागमेतासां त्रिचत्वारिंशतः प्रकृतीनां मिथ्यादृष्टिः सर्वोत्कृष्टसंक्लेशः पर्याप्तसंज्ञिपञ्चेन्द्रियो वनाति एक द्वौ वा समयौ यावत् , ततः परं पुनरनुत्कृष्टं बध्नाति, कालान्तरे च पुनरुत्कृष्टसंक्लेशमासाद्य उत्कृष्टानुभागं रचयतीत्येवमुत्कृष्टा-ऽनुत्कृष्टानुभागेषु संसरतां जन्तूनामुभयत्रापि साद्यवतैव सम्भवति, नेतरद् विकल्पद्वितयमपि / . ... तदेवं जघन्यादिषु चतुलपि मेदेषु साद्यादिभङ्ग काश्चिन्तिताः / सम्प्रत्यध्रुवबन्धिनीनां तेषु सानाह-"सेसम्मि दुह" त्ति शेषे' भणितोद्धरितोत्तरप्रकृतिवृन्देऽध्रुवबन्धिनीप्रकृतिकदम्बके त्रिसप्ततिसमये उत्कृष्टोऽनुत्कृष्टो जघन्योऽजघन्यश्चानुभागबन्धः 'द्विधा' द्विप्रकारः सादिरध्रुव एव भवति / प्रकृतय एव घेता अध्रुवबन्धित्वात् साद्यध्रुवाः, ततस्तत्सत्तानुविधायी जघन्यादिरूपः, सदनुभागोऽपि यथोक्त एव भवति, न त्वनादिवि॒वो वेति / तथा 'घातिनां' घातिकर्मणां ज्ञानावरण-दर्शनावरण-मोहनीया-ऽन्तरायलक्षणानां चतुर्णामजघन्योऽनुभागः साद्यादिचतुर्विकल्पो भवति / तथाहि-अशुभप्रकृतीनां सर्वजघन्यं शुभप्रकृतीनां तु सर्वोत्कृष्टमनुभागं यः कश्चित् तद्वन्धकेषु सर्वविशुद्धः स एव निर्वर्तयति / तत्र ज्ञानावरण-दर्शनावरणा-ऽन्तरायलक्षणकर्मत्रयस्याशुभत्वात् क्षपकसूक्ष्मसम्परायश्चरमसमये जघन्यरसं निवर्तयति, तद्वन्धकेष्वयमेवातिविशुद्ध इति कृत्वा / मोहनीयस्य त्वनिवृत्तिबादस्मेव यावद् बन्धो भवतीति स एव क्षपकश्चरमसमयेऽस्य जघन्यरसमुपकल्पयति, तद्वन्धकेष्वस्यैवातिविशुद्धत्वात् / इतः स्थानादन्यत्र सर्वत्रोपशमश्रेणावपि प्रकृतकर्मचतुष्टयस्यानुभागोऽजघन्य एव बध्यते, उपशमकानामपि क्षपकेभ्यो विशुद्ध्याऽनन्तगुणहीनत्वात् / ततश्चोपशान्तमोहः सूक्ष्मसम्परायश्च यथानिर्दिष्टप्रकृतकर्मच तुष्टयसम्बन्धिनोऽजघन्यानुभागस्याबन्धको भूत्वा प्रतिपत्य यदा पुनस्तं बध्नाति तदाऽयमजघन्यानुभागः सादिर्भवति, बन्धव्यवच्छेदे कृते तत्प्रथमतया बध्यमानत्वात् / यैस्तूपशान्तमोहाद्यवस्था नाद्यापि प्राप्ता तेषामनादिकालादारभ्याविच्छिन्नं बध्यमानत्वाद् अनादिः, ध्रुवोऽभळ्यानाम्, अध्रुवो भव्यानाम् / / तदेवं घातिकर्मणामजघन्योऽनुभागो भावितः / शेषत्रिके तु किस् ? इत्याह- "सेसम्मि दुह" ति शेषे' जघन्य-उत्कृष्टा-ऽनुत्कृष्टलक्षणेऽनुभागत्रिके 'द्विधा' द्विविकल्पः सादि-अध्रुवलक्षणो बन्धो भवति / तथाहि-प्रकृतकर्मचतुष्टयमध्ये मोहनीयस्य तावद् जघन्यानुभागः क्षपकानिवृत्तिबादरचरमसमयेऽनन्तरमेवोक्तः, शेषकर्मत्रयस्य तु क्षपकसूक्ष्मसम्परायचरमसमयेऽसाधुक्तः / स चानादिकालेऽपि पर्यटता जीवेन पूर्वं न बद्ध इति तत्प्रथमतया तत्रैव बध्यमानखात् सादिः, क्षीणमोहाद्यवस्थां च प्राप्तस्य नियमान्न भविष्यतीति अध्रुवः / अनादिस्तु न भवति, पूर्व कदाचिदपि तद्वन्धासम्भवात् / ध्रुवोऽप्यसौ न भवति, अभव्यानां तद्वन्धस्य दूरोत्सारितत्वादिति / उत्कृष्टानुभागं तु प्रस्तुतकर्मणामशुभत्वात् सर्वसंक्लिष्टो मिथ्यादृष्टिः पर्याप्तसंक्षिपञ्चेन्द्रिय एकं द्वौ का समयौ यावद् बध्नाति, न परतः / स चानुत्कृष्टादवतीर्य बध्यत इति साविः / जघन्यतः समयादुत्कृष्टतस्तु समयद्वयात् पुनरप्यनुत्कृष्टानुभागबन्ध मतस्मोकृष्टोऽध्रुवो