________________ 78 देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गोथाः सर्वसंक्लिष्टस्त्वसात-नरकगत्यादिप्रकृतीनामुत्कृष्टस्वरूपमशुभरसं कुर्यादिति मध्यमपरिणामग्रहणम् / अयं च जघन्यानुभागोऽजघन्याद् अवतीर्य बध्यत इति सादिः, पुनर्जघन्यतः समयादुत्कृष्टतस्तु समयचतुष्टयादजघन्यानुभागं बनतो जघन्योऽध्रुवोऽजघन्यस्तु सादिः, पुनस्तत्रैव भवे भवान्तरे वा जघन्यं बनतोऽजघन्योऽध्रुव इत्येवं जघन्या-ऽजघन्यानुभागबन्धयोः परिभ्रमतामसुमतामुभयत्र साद्यध्रुवतैव भवतीति / ___तथा “सेसधुवबंधि" त्ति शेषध्रुवबन्धिनीनां ज्ञानावरणपञ्चक-दर्शनावरणनवक-मिथ्यात्व-कषायषोडशक-भय-जुगुप्सा-प्रशस्तवर्णादिचतुष्का-ऽन्तरायपश्चक-उपघातलक्षणानां त्रिचत्वारिंशतः प्रकृतीनामजघन्योऽनुभागः साद्यादिचतुर्विकल्पो भवति / तथाहि-मति-श्रुता-ऽबधिमनःपर्याय-केवलावरणपञ्चक-चक्षुः-अचक्षुः-अवधि-केवलदर्शनावरणचतुष्का-ऽन्तरायपञ्चकरक्षणानां चतुर्दशप्रकृतीनां तावद् अशुभत्वात् क्षपकसूक्ष्मसम्परायश्चरमसमये जघन्यानुभागं बध्नाति, तद्वन्धकेष्वयमेव सर्वोत्कृष्टविशुद्धिमानिति कृत्वा / ततोऽन्यः सर्वोऽपि उपशमश्रेणावप्यजघन्यः प्राप्यते, स चोपशान्तावस्थायां सर्वथा न भवति, तस्मादितः प्रतिपत्य बध्यमानः सादितां भजते, उपशान्तावस्थां चाप्ताप्तपूर्वाणामनादिः, ध्रुवोऽभव्यानाम् , अध्रुवो भव्यानामिति / संज्वलनचतुष्कस्य त्वशुभत्वात् क्षपकानिवृत्तिबादरो यथास्वबन्धव्यवच्छेदसमये एकैकं समयं जघन्यानुभागं बध्नाति / ततोऽन्यः सर्वोऽप्यजघन्यः, तस्य चोपशमश्रेणौ बन्धव्यवच्छेदे कृते प्रतिपत्य पुनस्तमेव बध्नतः सादित्वम् , उपशान्तावस्थां चाप्राप्तपूर्वस्यानादित्वम् , ध्रुवोऽभव्यानाम् , अध्रुवो भव्यानामिति / निद्रा-प्रचला-प्रशस्तवर्णादिचतुष्क-उपघात-भय-जुगुप्सालक्षणानां नवप्रकृतीनां क्षपकापूप्रकरणो यथास्वबन्धव्यवच्छेदकाले एकैकं समयं जघन्यमनुभागं बध्नाति / ततोऽन्यः सर्वोsप्यजघन्यः, तस्य चोपशमश्रेणौ बन्धव्यवच्छेदं कृत्वा प्रतिपत्य पुनस्तमेव बध्नतः सादित्वम् , बन्धाभावस्थानं चाप्राप्तपूर्वस्यानादिः, ध्रुवोऽभव्यानाम् अध्रुवो भव्यानामिति / चतुर्णा प्रत्याख्यानावरणानां देशविरतः संयमप्रतिपत्त्यभिमुखोऽत्यन्तविशुद्धः स्वगुणस्थानस्य चरमसमये वर्तमानो जघन्यमनुभागं बध्नाति / तस्मात् पुनः स्थानात् पूर्व सर्वोऽप्यजघन्यः / चतुर्णामप्रत्याख्यानावरणानामविरतसम्यग्दृष्टिः क्षायिकसम्यक्त्वं संयमं च युगपत् प्रतिपित्सुरत्यन्तविशुद्धः स्वगुणस्थानचरमसमये वर्तमानो जघन्यमनुभागं बध्नातीति / ततोऽन्यः सर्वोऽप्यजघन्यः / स्त्यानचित्रिक-मिथ्यात्वा-ऽनन्तानुबन्धिचतुष्टयलक्षणानामष्टानां प्रकृतीनां मिथ्यादृष्टिः सम्यक्त्वं संयम च युगपत् प्रतिपित्सुः सर्वविशुद्धो मिथ्यात्ववेदनस्य चरमसमये वर्तमानो जघन्यमनुभागं बध्नाति, एतस्माच्चान्यत्र सर्वोऽप्यजघन्यः। एते हि देशविरतादयस्तत्तद्वन्धकेष्वतिविशुद्धत्वाद् यथानिर्दिष्टकर्मणां जघन्यमनु(ग्रन्थानम्-२५००)भागं बध्नन्ति / ततश्च संयमादीन् गुणान् प्राप्यं पुनरपि प्रतिपत्य यदाऽजघन्यानुभागं बध्नन्ति तदाऽयमजघन्यानुभागः सादिः, एतानि च स्थानान्यप्राप्तपूर्वाणामनादिः, ध्रुवोऽभव्यानामपर्यन्तत्वात् , अध्रुवो भव्यानां सपर्यन्तत्वादिति / तदेवं त्रिचत्वारिंशत्प्रकृतीनामजघन्यानुभागो भावितः / शेषत्रिके तु किम् ? इत्याह"सेसम्मि दुह" ति शेषे' भणितोद्धरिते जघन्य-उत्कृष्टा-ऽनुत्कृष्टानुभागत्रिके 'द्विधा' द्विप्रकारः सादि-अध्रुवलक्षणो बन्धो भवति / तत्राजघन्यानुभागभणनप्रसङ्गेन सर्वासां जघन्या