________________ 7.] शतकनामा पञ्चमः कर्मग्रन्थः / भावार्थस्त्वयम्-तत्र तैजस-कार्मणा-ऽगुरुलघु-निर्माण-प्रशस्तवर्ण-गन्ध-रस-स्पर्शलक्षणानामष्टानामुत्तरप्रकृतीनामनुत्कृष्टाऽनुभागबन्धः साद्यादिचतुर्विकल्पोऽपि भवति / तथाहिकर्मणां हि रसो यस्मादन्यो हीनो नास्ति स सर्वजघन्यः, तत ऊर्ध्वमेकं रसांशमादौ कृत्वा यावत् सर्वोत्कृष्टस्तावदजघन्य इत्यनन्तभेदभिन्नोऽप्यसौ जघन्याऽजघन्यप्रकारद्वयेन क्रोडीकृतः; तथा यस्माद् अन्योऽधिको रसो न बध्यते स उत्कृष्टः, तत एकरसांशहानिमादौ कृत्वा यावत् सर्वजघन्यस्तावत् सर्वोऽप्यनुत्कृष्ट इति; अनेन वा प्रकारद्वयेनानन्ता अपि रसविशेषाः संगृहीताः / तत एतासां प्रस्तुताष्टप्रकृतीनामुत्कृष्टमनुभागबन्धं क्षपकापूर्वकरणो देवगतिप्रायोग्याणां त्रिंशतः प्रकृतीनां बन्धव्यवच्छेदसमये करोति / एता हि शुभप्रकृतयः, अत एतदुत्कृष्टानुभागं सर्वविशुद्ध एव रचयति, तद्वन्धकेषु त्वयमेव सर्वविशुद्धः / एतस्मात् पुनरन्यत्रोपशमश्रेणावप्यनुत्कृष्टोअनुभागबन्धो लभ्यते, स चोपशान्तमोहाद्यवस्थायां सर्वथा न भवतीति ततः प्रतिपतितैर्जन्तुभिर्बध्यमानः सादिः, तच्च स्थानमप्राप्तपूर्वाणां सदाबध्यमानत्वाद् अनादिः, ध्रुवोऽभव्यानाम् , अध्रुवो भव्यानामिति / प्रतिपादितस्तैजसचतुष्क-वर्णचतुष्कलक्षणप्रकृत्यष्टकस्यानुत्कृष्टो बन्धः / शेषबन्धत्रिकस्य तु का वार्ता ? इत्याह-"सेसम्मि दुह" त्ति 'शेषे' भणितोद्धरिते उत्कृष्टजघन्या-ऽजघन्यानुभागत्रिके द्विप्रकारः-सादि-अध्रुवलक्षणो बन्धो भवतीत्यर्थः / तथाहि-अस्य प्रकृत्यष्टकस्योत्कृष्टानुभागबन्धोऽनन्तरमेव क्षपकापूर्वकरणे प्रोक्तः, स च तत्प्रथमतया बध्यमानत्वात् सादिः, एकं च समयं भूत्वाऽग्रेऽवश्यं न भवतीत्यध्रुवः। जघन्यानुभागं त्वेतासां शुभप्रकृतित्वात् सर्वोत्कृष्टसंक्लेशे वर्तमानो मिथ्यादृष्टिः पर्याप्तः संज्ञिपञ्चेन्द्रियो बध्नाति / पुनरपि जघन्यतः समयादुत्कृष्टतः समयद्वयादवश्यं स एवाजघन्यं बध्नाति, पुनः कालान्तरे से एवोत्कृष्टसंक्लेशंप्राप्य जघन्यं बनातीत्येवं जघन्या-ऽजघन्येषु परावर्तमानानां जन्तूनामुभयत्र साद्यध्रुवतैवेति। तथा "वेयणियनामणुकोसु" ति वेदनीय-नानोरनुत्कृष्टोऽनुभागबन्धः साद्यादिचतुर्विकल्पोऽपिभवति / तथाहि--अनयोः कर्मणोः सात-यशःकीर्तिलक्षणं तदन्तर्गतं प्रकृतिद्वयमाश्रित्य सर्वोत्कृष्टो रसः क्षपक-सूक्ष्मसम्परायचरमसमये प्राप्यते, ततोऽन्यः सर्वोऽप्युपशमश्रेणावपि अनुस्कृष्टोऽनुभागबन्धो लभ्यते, ततश्चोपशान्तमोहाद्यवस्थायां सर्वथा न भवतीति ततः प्रतिपतितैर्जन्तुभिर्बध्यमानोऽनुभागः सादिः, उपशान्तमोहाद्यवस्थां त्वप्राप्तपूर्वस्यानादिः, अनादिकालाद् बध्यमानत्वाद् , ध्रुवोऽभव्यानामपर्यन्तत्वात् , अध्रुवो भव्यानां सपर्यन्तत्वादिति / भावितो वेदनीयनानोरनुत्कृष्टो बन्धः / शेषे तु का वार्ता ? इत्याह-"सेसम्मि दुह" ति एतत् पदं पूर्वसम्बन्धितमप्यावृत्त्याऽत्रापि सम्बध्यते / ततः शेषे-भणितोद्धरिते उत्कृष्ट-जघन्या-ऽजघन्यलक्षणानुभागत्रिके द्विप्रकारःसाद्यध्रुवलक्षणो बन्धो भवति / तथाहि-उत्कृष्टमनुभागबन्धं वेदनीयनानोरनन्तरमेव प्रस्तुतकर्मबन्धकेष्वतिविशुद्धत्वात् क्षपकसूक्ष्मसम्परायो बनातीत्युक्तम् / स च तत्प्रथमतया बध्यमानत्वात् सादिः, क्षीणमोहावस्थायां तु नियमाद् न भविष्यतीत्यध्रुवः / जघन्यानुभागं त्वनयोः कर्मणोः सम्यग्दृष्टिमिथ्यादृष्टिर्वा मध्यमपरिणामो बध्नाति, सर्वविशुद्धो तत्कर्मद्वयग्रहणगृहीतानां सात-यशःकीर्त्यादिलक्षणशुभप्रकृतीनामुत्कृष्टस्वरूपं शुभरसं कुर्यात् , 1 छा० सर्वोत्कृष्टसं०॥