________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः रा-ऽनादेय-उच्चैगोत्रलक्षणानां त्रयोविंशतिप्रकृतीनां चतुर्गतिका अपि मिथ्यादृष्टयो मध्यमपरिणामा जघन्यानुभागं कुर्वन्ति; सम्यग्दृष्टीनां ह्येतासां परावृत्ति स्ति; तथाहि-तिर्यामनुष्याः सम्यग्दृष्टयो देवद्विकमेव बध्नन्ति, न मनुष्यादिद्विकानि, संस्थानेषु तु समचतुरस्रमेव रचयन्ति, संहननं तु किञ्चिदपि न बध्नन्ति, तथा शुभविहायोगति-सुभग-सुस्वरा-ऽऽदेय-उच्चैगोत्राण्येव बध्नन्ति न प्रतिपक्षान् / देवा नारका अपि सम्यग्दृष्टयो मनुष्यद्विकमेव बध्नन्ति, न तिर्यग्द्विकादिकम् , संस्थानेषु तु समचतुरस्रसंस्थानमेव, संहननेषु पुनर्ववर्षभनाराचसंहननमेव, विहायोगत्यादिका अपि शुभा एव बध्नन्ति न प्रतिपक्षा इति, तेषां परावृत्त्यभावाद् मिथ्यादृष्टिग्रहणम् / तत्र मनुष्यगतिद्विकस्य पञ्चदशसागरोपमकोटीकोटय उत्कृष्टा स्थितिः, प्रशस्तविहायोगति-सुभग-सुस्वराऽऽदेय-उच्चैर्गोत्र-वज्रर्षभनाराचसंहनन-समचतुरस्रसंस्थानानां तु दशसागरोपमकोटीकोट्य उत्कृष्टा स्थितिः / एताः शुभप्रकृतय आत्मीयाऽऽत्मीयोत्कृष्टस्थितेरारभ्य प्रतिपक्षप्रकृतिभिः सह तावत् परावृत्य परावृत्य बध्यन्ते, यावत् तासामेव प्रतिपक्षप्रकृतीनां सर्वजघन्याऽन्तःसागरोपमकोटीकोटीलक्षणा स्थितिः। एतेषु स्थितिस्थानेषु परावर्तमानमध्यमपरिणाम एतासां जघन्यानुभागं बध्नाति। हुण्ड-सेवार्तयोरपि वामन-कीलिकयोरुत्कृष्टस्थितेरारभ्य तावत् परावृत्तिर्लभ्यते यावदात्मीयाऽऽत्मीयजघन्यस्थितिः। शेषसंस्थान-संहननानामप्यात्मीयात्मीयोत्कृष्टस्थितेरारभ्य सम्भवदितरसंस्थान-संहननैः सह परावृत्तिस्तावद् लभ्यते यावदात्मीयाऽऽत्मीयजघन्यस्थितिः / एतेषु स्थितिस्थानेषु मिथ्यादृष्टिः परावर्तमानमध्यमपरिणामो जघन्यानुभाग बध्नातीति // 73 // - प्ररूपिताः सप्रपञ्चं जघन्यानुभागबन्धस्वामिनः / साम्प्रतमनुभागबन्धमेव मूलोत्तरप्रकृतीरुद्दिश्य भङ्गकैर्विचारयन्नाह चउतेयवन्न वेयणियनामणुकोसु सेसधुवबंधी / घाईणं अजहन्नो, गोए दुविहो इमो चउहा // 74 // इह ग्रन्थलाघवार्थ यथातथा प्रकृतयो भगकैर्विचार्यन्ते / तत्र चतुःशब्दस्य प्रत्येकं सम्बन्धात् तैजसचतुष्कं तैजस-कार्मणा-गुरुलघु-निर्माणलक्षणं, वर्णचतुष्कम् अग्रेऽप्रशस्तस्य वक्ष्यमाणत्वादिह प्रशस्तं वर्ण-गन्ध-रस-स्पर्शाख्यं गृह्यते इति, एतासामुत्तरप्रकृतीनामष्टानामनुत्कृष्टः, "इमो चउह" ति पदं सर्वत्र योजनीयम् , अयमनुत्कृष्टो बन्धश्चतुर्धा-सादिरनादिभ्रुवोऽध्रुवश्व भवति / तथा वेदनीय नाम्नोर्मूलप्रकृत्योरनुत्कृष्टो बन्धश्चतुर्धा-सादिरनादिर्बुवोऽध्रुवश्च भवति। तथा "सेसधुवबंधि" ति षष्ठ्यर्थे प्रथमा, ततो भणितशेषाणां ध्रुवबन्धिनीनां ज्ञानावरणपञ्चकदर्शनावरणनवक-मिथ्यात्व-कषायषोडशक-भय-जुगुप्सा-प्रशस्तवर्णादिचतुष्क-उपघाता-ऽन्तरायपञ्चकलक्षणानां त्रिचत्वारिंशतः प्रकृतीनामजघन्यानुभागबन्धश्चतुर्धा सादिरनादिर्बुवोऽध्रुवश्व भवति / तथा ज्ञान-दर्शन-चारित्रलाभादिगुणान् नन्तीत्येवंशीलानि घातीनि ज्ञानावरण-दर्शनावरण-मोहनीया-ऽन्तरायाणि तेषामजघन्यानुभागबन्धश्चतुर्धा सादिरनादिर्बुवोऽध्रुवश्च भवति / तथा 'गोत्रे' गोत्रकर्मणि द्विविधोऽनुत्कृष्टा-ऽजघन्यलक्षणो बन्धश्चतुर्धा सादिरनादिभ्रुवोऽध्रुवश्च भवतीत्यक्षरार्थः /