________________ शतकनामा पञ्चमः कर्मग्रन्धः / यशःकीर्तीनां तु दशसागरोपमकोटीकोट्यः / तत्र प्रमत्तसंयतस्तत्प्रायोग्यविशुद्धोऽस्थिरा-ऽशुभाऽयशःकीर्तीनां सम्यग्दृष्टियोग्यस्थितिषु सर्वजधन्यामन्तःसागरोपमकोटीकोटीलक्षणां स्थिति बघ्नाति / ततोऽन्तर्मुहूर्ताद् विशुद्धः पुनरपि स्थिरादिकाः प्रतिपक्षभूता बघ्नाति, ततः पुनरप्यस्थिरादिका इति / एवं देशविरता-ऽविरत-मिश्र-सास्वादन-मिथ्याद्दष्टयोऽपि परावृत्य परावृत्याऽस्थिराशुभा-ऽयशकीर्ति-स्थिर-शुभ-यशःकीर्तीर्बघ्नन्ति / तत्र च मिथ्याद्दष्टिः स्थिर-शुभ-यशःकीर्तीरस्थिराऽशुभा-ऽशुयशःकीर्तीश्च परावृत्य तावद् बघ्नाति यावद् मिथ्याद्दष्टिगुणस्थाने स्थिरादीनामुत्कृष्टा स्थितिः एतेषु च सम्यग्दृष्टि-मिथ्याद्दष्टियोग्येषु स्थितिस्थानेषु जघन्यानुभागबन्धो लभ्यते, नान्यत्र दशसागरोपमकोटीकोटीपरतो. ह्यस्थिरादय एवाशुभाः प्रकृतयो बहुरसा बध्यन्ते / अप्रमत्तादयस्तु विशुद्धाः स्थिरादिकाः शुभप्रकृतीरेव बहुरसा निवर्तयन्तीति नान्यत्र जघन्यानुभाग आसां लभ्यत इति शेषः / भावना तु सातवद् बोद्धव्येति // 72 // . तसवन्नतेयचउमणुखगइदुगपणिदिसासपरघुचं। संघयणागिइनपुथीसुभगियरति मिच्छ चउगइया // 73 // चतुःशब्दस्य प्रत्येकं सम्बन्धात् त्रसचतुष्कं-त्रस-बादर-पर्याप्त प्रत्येकाख्यं, वर्णचतुष्कंवर्ण-गन्ध-रस-स्पर्शाभिधं तैजसचतुष्कं तैजस-कार्मणा-ऽगुरुलघु-निर्माणलक्षणं, द्विकशब्दस्य प्रत्येकं सम्बन्धाद् मनुजद्विकं मनुजगति-मनुजानुपूर्वीस्वरूपं खगतिद्विकं-प्रशस्तविहायोगतिअशुभविहायोगतिरूपं, पञ्चेन्द्रियजातिः उच्छ्वासनाम पराघातनाम उच्चम्-उच्चैर्गोत्रं संहननानिवज्रर्षभनाराच-ऋषभनाराच-नाराचा-ऽर्धनाराच-कीलिका-सेवार्तलक्षणानि षट्, आकृतयःआकाराः संस्थानानि समचतुरस्र-न्यग्रोधपरिमण्डल-सादि-वामन-कुब्ज-हुण्डलक्षणानि षद्, "नपु" ति नपुंसकवेदः "थी" ति स्त्रीवेदः, त्रिकशब्दस्य प्रत्येकं सम्बन्धात् सुभगत्रिकंसुभग सुस्वरा-ऽऽदेयलक्षणम् , 'इतरत्रिकं' दुर्भगत्रिकं-दुर्भग-दुःस्वरा-ऽनादेयलक्षणम् , इत्येतासां चत्वारिंशत्प्रकृतीनां "मिच्छ” त्ति मिथ्यादृष्टयश्चतुर्गतिका जघन्यानुभागं कुर्वन्ति / ___ इह सामान्योक्तावपि "व्याख्यानतो विशेषप्रतिपत्तिः" इति न्यायात् पञ्चेन्द्रियजातितैजस-कार्मण-प्रशस्तवर्ण-गन्ध-रस-स्पर्शा-ऽगुरुलघु-पराघात -उच्छ्वास-त्रस-बादर-पर्याप्त प्रत्येकनिर्माणलक्षणानां पञ्चदशप्रकृतीनां चतुर्गतिका अपि जीवा मिथ्यादृष्टयः सर्वोत्कृष्टसंक्लेशा जघन्यानुभागं कुर्वन्ति / एता हि शुभप्रकृतित्वात् सर्वोत्कृष्टसंक्लेशैर्जघन्यरसाः क्रियन्ते / तत्र च तिर्यङ्-मनुष्याः सर्वोत्कृष्टसंक्लेशे वर्तमाना नरकगतिसहचरिता एता बघ्नन्तो जघन्यरसाः कुर्वन्ति / भारका देवाश्वेशानादुपरिवर्तिनः सनत्कुमारादयः सर्वसंक्लिष्टाः पञ्चेन्द्रियतिर्यक्प्रायोग्या एता घनन्तो जघन्यरसाः कुर्वन्ति, ईशानान्तास्तु देवाः सर्वसंक्लिष्टाः पञ्चेन्द्रियजाति-त्रसवर्जाः शेषास्त्रयोदश प्रकृतीरेकेन्द्रियप्रायोग्या बघ्नन्तो जघन्यरसा विदधतीति। पञ्चेन्द्रियजाति-त्रसनानी तु विशुद्धा अमी बघ्नन्तीति जघन्यरसो न लभ्यत इति तद्वर्जनम् / स्त्रीवेदनपुंसकवेदलक्षणप्रकृतिद्वपस्य चतुर्गतिका अपि मिथ्यादृष्टयो जीवा अशुभत्वाद् एतत्प्रकृतिद्विकस्य तत्प्रायोग्यविशुद्धा मधन्यानुभागं रचयन्ति / अतिविशुद्धः पुरुषवेदबन्धकः स्यादिति तत्प्रायोग्यविशुद्धग्रहणमिति / मनुष्यद्विक-संहननषद्क-संस्थानषट्क-विहायोगतिद्विक-सुभग-सुस्वरा-ऽऽदेय-दुर्भग-दुःस्व