________________ 74 देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [ गाथाः परावृत्य परावृत्य बनन् परावर्तमानमध्यमपरिणामः तत्प्रायोग्यविशुद्धः प्रस्तुतप्रकृतिद्वयस्थ जघ- . न्यानुभागं बध्नाति भवत्वेवम् , तत्रापि नारकवर्जनं किमर्थम् ? इति चेद् उच्यते-नारकाणां स्वभावादेव प्रस्तुत प्रकृतिद्वयबन्धकत्वासम्भवादिति / तथा “आसुहमायव" त्ति सुधर्मा नाम सभा विद्यते यत्र स सौधर्मः, "ज्योत्स्नादिभ्योऽण्" (सिद्ध० 7-2-34) इत्यणप्रत्ययः, इह च सौधर्मग्रहणेन समश्रेणिव्यवस्थितत्वाद् ईशानोऽपि गृह्यते, ततश्च भवनपत्यादय ईशानपर्यन्ता देवास्तद्वन्धकेषु सर्वसंक्लिष्टा एकेन्द्रियप्रायोग्यं बनन्त आतपनाम जघन्यानुभागं बध्नन्ति / अस्य हि शुभप्रकृतित्वात् सर्वसंक्लिष्ट एव जघन्यानुभागं बनाति, तद्वन्धकेषु चैत एव सर्वसंक्लिष्टा लभ्यन्ते, तिर्यङ्-मनुष्या ह्येतावति संक्लेशे वर्तमाना नारकादिप्रायोग्यं रचयेयुः, नारकाः सनत्कुमारादिदेवाश्च भवप्रत्ययादेव तद् न बध्नन्तीति शेषपरिहारेण यथोक्तदेवानामेव ग्रहणम् / ____तथा सातवेदनीयं स्थिरनाम शुभनाम यशःकीर्तिनामेत्येताश्चतस्रः प्रकृतीः 'सेतराः' सप्रतिपक्षा असातवेदनीया-ऽस्थिरा-ऽशुभा-ऽयश कीर्तिनामसहिताः सर्वा अष्टौ प्रकृतीः “सम्मोव" त्ति सम्यग्दृष्टिः, वाशब्दात् मिथ्यादृष्टिा, सामान्योक्तावपि परावर्तमानमध्यमपरिणामो जघन्यानु- . . भागाः करोति / कथम् ? इति चेद् उच्यते-इह पूर्व सातस्य पञ्चदशसागरोपमकोटीकोटय उत्कृष्टा स्थितिरभिहिता, असातस्य तु त्रिंशत्सागरोपमकोटीकोटयः; तत्र प्रमत्तसंयतस्तत्प्रायोग्यविशुद्धोऽसातस्य सम्यग्दृष्टियोग्यस्थितिषु सर्वजघन्यामन्तःसागरोपमकोटीकोटीप्रमाणां स्थिति बध्नाति, ततोऽन्तर्मुहूर्तात् परावृत्य सातं बध्नाति, पुनरप्यसातमिति / एवं देशविरता-ऽविरतसम्यग्दृष्टि-सम्यग्मिथ्यादृष्टि-सास्वादन-मिथ्यादृष्टयोऽपि परावृत्य परावृत्य साता-ऽसाते बध्नन्ति / तत्र च मिथ्यादृष्टिः साता-ऽसाते परावृत्य तावद् बध्नाति यावत् सातस्य पञ्चदशसागरोपमकोटीकोटीलक्षणा ज्येष्ठा स्थितिः, ततः परतोऽपि संक्लिष्टः संक्लिष्टतरः संक्लिष्टतमोऽसातमेव केवलं तावद् बध्नाति यावत् त्रिंशत्सागरोपमकोटीकोटयः; प्रमत्तादपि परतोऽप्रमत्तादयो विशुद्धा विशुद्धतराः सातमेव केवलं बघ्नन्ति यावत् सूक्ष्मसम्पराये द्वादशमुहूर्ताः; तदेवंव्यवस्थिते सातस्य समयोनपञ्चदशसागरोपमकोटीकोटीलक्षणायाः स्थितेरारभ्य असातेन सह परावृत्य परावृत्य बनतो जघन्यानुभागबन्धोचितः परावर्तमानमध्यमपरिणामस्तावद् लभ्यते यावत् प्रमत्तगुणस्थानकेऽन्तःसागरोपमकोटाकोटीलक्षणा सर्वजघन्याऽसातस्थितिः / एतेषु हि सम्यग्दृष्टि-मिथ्याहष्टियोग्येषु स्थितिस्थानेषु प्रकृतेः प्रकृत्यन्तरसङ्कमे मन्दः परिणामो जघन्यानुभागबन्धयोग्यो लभ्यते, नान्यत्र / तथाहि-येऽप्रमत्तादयः सातमेव केवलं बध्नन्ति ते विशुद्धत्वात् तस्य प्रभूतमनुभागमुपकल्पयन्ति, योऽपि मिथ्यादृष्टिः सातस्योत्कृष्टां स्थितिमतिक्रान्तोऽसातमेव केवलमुपरचयति सोऽप्यतिसंक्लिष्टत्वात् तस्य प्रभूतरसमभिनिवर्तयति, सागरोपमसप्तभागत्रयादिरूपवेदनीयस्थितिबन्धकेष्वेकेन्द्रियादिष्वपि जघन्यानुभागबन्धो न सम्भवति, तथाविधाध्यवसायाभावात् , तस्माद् यथोक्तस्थितिबन्ध एव जघन्यानुभागबन्धसम्भवः, तथाविधपरिणामसद्भावादिति / अस्थिरा-ऽशुभा-ऽयशःकीर्तीनां विंशतिसागरोपमकोटीकोटय उत्कृष्टा स्थितिरुक्ता / स्थिर-शुभ सं०१-म० तथापि //