________________ 72) शतकनामा पञ्चमः कर्मग्रन्थः / तिरिदुगनि तमतमा, जिणनविरय निरय विणिगथावरयं / आसुहुमायव सम्मो, व सायथिरसुभजसा सिअरा // 72 // तथा तिर्यग्द्विकं-तिर्यग्गति-तिर्यगानुपूर्वीरूपं नीच-नीचैर्गोत्रम् इत्येतासां तिसृणां प्रकृतीनां तमस्तमा-सप्तमनरकपृथिवी तस्यामुत्पन्ना नारका अपि तमस्तमाः, यद्वा तमस्तमो विद्यते येषां ते तमस्तमाः "अभ्रादिभ्यः" ( सिद्ध० 7-2-46 ) इत्यप्रत्ययः, सप्तमनरकपृथिवीनारका इत्यर्थः, जघन्यानुभागं कुर्वन्ति / तथाहि-कश्चित् सप्तमपृथितीनारकः सम्यक्त्वाभिमुखो यथाप्रवृत्तादीनि त्रीणि करणानि कृत्वाऽनिवृत्तिकरणस्य चरमसमये मिथ्यात्वस्य चरमपुद्गलान् वेदयन् प्रकृतित्रयस्य जघन्यानुभागं बध्नाति, अस्य हि प्रकृतित्रयस्याशुभत्वात् सर्वविशुद्धो जघन्यानुभागं करोति, तद्वन्धकेषु त्वयमेव सर्वविशुद्ध इति सम्यक्त्वाभिमुखादिविशेषणोपादानम् / अन्यस्थानवर्ती त्वेतावत्यां विशुद्धौ वर्तमान उच्चैर्गोत्रं मनुष्यद्विकादियुक्तं बध्नीयादिति सप्तमपृथिवीनारकस्यैव ग्रहणम् / अस्यां हि यावत् किश्चिदपि मिथ्यात्वमस्ति तावद् भवप्रत्ययादेव नीचैर्गोत्रसहचरितस्तिर्यग्गतिप्रायोग्य एव बन्धो भवतीति / तथा "जिणं" ति जिननाम तीर्थकरनामकर्मेत्यर्थः "अविरय" त्ति अविरतसम्यग्दृष्टिः सामान्योक्तावपि “व्याख्यानतो विशेषप्रतिपत्तिः" इति न्यायाद् अविरतसम्यग्दृष्टिः नरके बद्धायुष्को नरकोत्पत्त्यभिमुखोऽनन्तरमेव मिथ्यात्वं प्रतिपित्सुमनुष्यस्तीर्थकरनाम्नो जघन्यानुभागं बध्नाति, तद्वन्धकेष्वयमेव सर्वसंक्लिष्ट इति कृत्वा / इयमत्र भावना–तीर्थकरनाम्नो ह्यविरतसम्यग्दृष्ट्यादयोऽपूर्वकरणावसाना अनुभागबन्धका भवन्ति, किन्तु जघन्यानुभागः शुभप्रकृतीनां संक्लेशेन बध्यते, स च तीर्थकरनामबन्धकेष्वविरतस्यैव यथोक्तविशेषणविशिष्टस्य लभ्यत इति शेषव्युदासेनास्यैवोपादानमिति / तत्र तिर्यञ्चस्तीर्थकरनाम्नः पूर्वप्रतिपन्नाः प्रतिपद्यमानकाश्च भवप्रत्ययेनैव न भवन्तीति मनुष्यग्रहणम् / बद्धतीर्थकरनामकर्मा च पूर्वमबद्धनरकायुर्नरकं न व्रजतीति पूर्व नरके बद्धायुष्कस्य ग्रहणम् / क्षायिकसम्यग्दृष्टिश्च श्रेणिकादिवत् ससम्यक्त्वोऽपि कश्चिद् नरकं प्रयाति, किन्तु तस्य विशुद्धत्वेन जघन्यानुभागाबन्धकत्वात् तस्यैव चेह प्रकृतत्वाद् नासौ गृह्यते / अतस्तीर्थकरनामकर्मजघन्यस्थितिबन्धकत्वाद् मिथ्यात्वाभिमुखस्यैव ग्रहणमिति / तथा “निरय विणिगथावरयं" ति 'निरयान्' नारकान् ‘विना' वर्जयित्वा शेषगतित्रयवर्तिनो जीवाः "इग" ति एकेन्द्रियजातिः स्थावरनाम इत्येतत्प्रकृतिद्वयस्य सामान्योक्तावपि "व्याख्यानतो विशेषप्रतिपत्तिः” इति न्यायात् परावर्तमानमध्यमपरिणामा जघन्यानुभागं बध्नन्ति / इदं हि प्रकृतिद्वयमशुभम् , तत्रातिसंक्लिष्टो जन्तुरनयोरुत्कृष्टानुभागं बध्नाति, अतिविशुद्धस्त्विदमुल्लङ्य उत्कृष्टानुभागे पञ्चेन्द्रियजाति-त्रसनानी बन्नातीत्यालोच्य मध्यमपरिणामग्रहणम् / अयं च मध्यमपरिणामो यदैकस्मिन्नन्तर्मुहूर्ते एकेन्द्रियजाति-स्थावरनाम्नी बद्धवा पुनर्द्वितीयेऽप्यन्तर्मुहूर्ते ते एव बध्नाति तदापि भवति, केवलं तदाऽवस्थितपरिणामे तथाविधा विशुद्धिर्न लभ्यते इति मध्यमपरिणामस्यापि परावर्तमानताविशेषणम् / इदमुक्तं भवति–यदैकेन्द्रियजाति-स्थावरे बद्धा पवेन्द्रियजातित्रसनानी बन्नाति, ते अपि बद्धा पुनरेकेन्द्रियजाति-स्थावरे बध्नाति, तदैवं 10