________________ देवेन्द्रसूरिषिरचितः स्वोपाटीकोपेतः [गाथा: वरण-श्रुतज्ञानावरणा-ऽवधिज्ञामावरण-मनःपर्यायज्ञानावरण-केवलज्ञानावरण-चक्षुर्दर्शनावरणाचक्षुर्दर्शनापरणा-ऽवधिदर्शनावरण-केवलदर्शनावरणलक्षणानि नव इत्येतासां चतुर्दशप्रकृतीनां "मुहुम" चि सामान्योक्तावपि क्षपकसूक्ष्मसम्परायश्चरमसमये वर्तमानो जघन्यानुभागं बधाति / एता बशुभप्रकृतयः, अशुभप्रकृतीनां च सर्वविशुद्ध एव जघन्यानुभागं बध्नाति, प्रस्तुतप्रकृतिबन्धकेषु त्वयमेव सर्वविशुद्ध इति / तथा त्रिकशब्दस्य प्रत्येकं सम्बन्धात् सूक्ष्मत्रिक-सूक्ष्माअपर्याप्तक-साधारणाख्य, विकलत्रिकं-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियजातिलक्षणम्, “आउ" ति आयूंषि-देव-मनुष्य-तिर्यङ्-नारकायुर्भेदाच्चत्वारि, वैक्रियषट्कं-देवगति-देवानुपूर्वी-मरकगति-नरकानुपूर्वी वैक्रियशरीर-वैक्रियाङ्गोपाङ्गलक्षणम् इत्येतासां षोडशप्रकृतीनां “मणुतिरिय" ति मनुशब्देन मनुष्या उच्यन्ते, ततो मनुष्याश्च तिर्यश्चश्च मनुष्य-तिर्यञ्चो जघन्यानुभागं कुर्वन्ति / अत्र हि तिर्यङ्-मनुष्यायुयं वर्जयित्वा शेषाश्चतुर्दशप्रकृतीर्देव-नारका भवप्रत्ययादेव न बन्नन्ति / तिर्यङ्-मनुष्यायुर्द्वयमपि यदा जघन्यस्थितिकं बध्यते तदा जघन्यरसं क्रियते, देव-नारकास्तु तद् जघन्यं न बध्नन्त्येव, तस्थितिकेषु तेषामुत्पत्त्यभावात् / तस्माद् नैतत् प्रकृतिषोडशकं देव-नारका बध्नन्ति, अतस्तिर्यङ्-मनुष्याणामेव ग्रहणम् / तत्र नार- . कायुषोऽशुभप्रकृतित्वात् तद्वन्धकेषु सर्वविशुद्धा दशवर्षसहस्रलक्षणजघन्यस्थितिबन्धकाले जघन्यानुभागं तिर्यङ्-मनुष्याः कुर्वन्ति, शेषस्य त्वायुस्त्रयस्य शुभप्रकृतित्वात् तद्वन्धकेषु सर्वसंक्लिष्टा आत्मीयात्मीयसर्वजघन्यस्थितिबन्धकालेऽमी जघन्यानुभागं रचयन्ति / नरकद्विकस्याशुभप्रकृतित्वाद् जघन्यस्थितिबन्धकाले तद्वन्धकेषु सर्वविशुद्धा एते जघन्यानुभागं विदधति / देवद्विकस्य शुभप्रकृतित्वाद् आत्मीयोत्कृष्टस्थितिबन्धकाले तत्प्रायोग्यसंक्लिष्टा अमी जघन्यानुभागं वनन्ति / अतिसंक्लिष्टो नरकादियोग्यं बनीयादिति तत्प्रायोग्यसंक्लेशग्रहणम् / एवमन्यत्रापि द्रष्टव्यम् / वैक्रियद्विकस्यापि शुभप्रकृतित्वाद नरकगतिबन्धसहितां सर्वोत्कृष्टां स्थिति बनन्तो जघन्यानुमागं निर्वतयन्ति / विकलत्रिक-सूक्ष्मत्रिकयोस्त्वशुभप्रकृतित्वात् तत्प्रायोग्यविशुद्धा अमी सर्वजघन्यमनुभागं बध्नन्ति / अतिविशुद्धा मनुष्यादिप्रायोग्यं बध्नन्तीति तत्प्रायोग्यक्शुिद्विग्रहणमिति / भाविताः षोडश प्रकृतयः / तथा उद्योतम् औदारिकद्विकम्-औदारिकशरीरबौदारिकाङ्गोपाङ्गलक्षणम् इत्येतासां तिसृणां प्रकृतीनां “अमरा निरय" ति सामान्यतोऽमराःदेवाः, निरयाः-निर्गतम् अयम्-इष्टफलं दैवं कर्म येभ्यस्ते निरयाः-नारकाः सर्वोत्कृष्टसंक्लेशे वर्तमानास्तिर्यक्प्रायोग्यं बध्नन्तो जघन्यानुभागं कुर्वन्ति, केवलमौदारिकाङ्गोपाङ्गमीशानादुपरितनाः सनत्कुमारादय एव देवा जघन्यरसं विदधति नेशानान्ताः, ते हि सर्वोत्कृष्टसंक्लेशे वर्तमाना एकेन्द्रियप्रायोग्यमेव बध्नन्ति, एकेन्द्रियाणां चाङ्गोपाङ्गं न भवति, अत ईशानान्तदेवानां जघन्यरसानोपानामबन्धासम्भवेन तजघन्यरसबन्धकत्वासम्भवः / भवत्वेवम्, किन्तु तिर्यङ्मनुष्याः कस्मादिदं प्रकृतित्रयं जघन्यरसं न कुर्वन्ति ? इति अत्रोच्यते-एतत् प्रकृतित्रयं तिर्यग्गतिप्रायोग्यबन्धसहचरितं जघन्यरसं बध्यते, तिर्यङ्-मनुष्यास्त्वेतावति संक्लेशे वर्तमाना नरकगतिमायोग्यमेव रचयेयुरिति तेषामिहाग्रहणमिति // 71 // 10 सं० 110 म० जातिरूपं // -