________________ 69-71] शतकनामा पञ्चमः कर्मग्रन्थः। थीणतिगं अण मिच्छं, मंदरसं संजमुम्मुहो मिच्छो। बियतियकसाय अविरय, देस पमत्तो अरइसोए // 69 // स्त्याना उपलक्षितं त्रिकं स्त्यानचित्रिकं-निद्रानिद्रा-प्रचलप्रचला-स्त्यानर्द्धिलक्षणम् "अण" ति अनन्तानुबन्धिनः-क्रोध-मान-माया-लोभाख्याश्चत्वारः मिथ्यात्वम् इत्येतासामष्टानां प्रकृतीनां स्वगुणस्थानचरमसमये वर्तमानो मिथ्यादृष्टिः “संजमुम्मुहु" ति सम्यक्त्वसंयमाभिमुखः-सम्यक्त्वसामायिकं प्रतिपित्सुः 'मन्दरसं' जघन्यानुभागं बध्नाति, प्रस्तुतप्रकृतिबन्धकेष्वयमेव सर्वविशुद्ध इति / तथा कषायशब्दस्य प्रत्येकं योगाद् द्वितीयकषायचतुष्टयस्य-अप्रत्याख्यानावरणलक्षणस्य "अविरय" ति अविरतसम्यग्दृष्टिः स्वगुणस्थानचरमसमये वर्तमानः संयमोन्मुख इत्यत्रापि योज्यम् , संयमाभिमुखः-देशविरतिसामायिकं प्रतिपित्सुमन्दरसं बध्नाति, प्रस्तुतप्रकृतिबन्धकेष्वस्यैव विशुद्धत्वात् / तथा तृतीयकषायचतुष्टयस्य-प्रत्याख्यानावरणकषायलक्षणस्य "देस" ति देशविरतः स्वगुणस्थानचरमसमये वर्तमानः संयमोन्मुखःसर्वविरतिसामायिकं प्रतिपित्सुर्मन्दरसं करोति, तत्प्रकृतिबन्धकेष्वस्यैव विशुद्धतरत्वात् / तथा 'प्रमत्तः' प्रमत्तयतिः संयमोन्मुखः-अप्रमत्तसंयमं प्रतिपित्सुः, अरतिश्च शोकश्चाऽरति-शोकं तस्मिनरति-शोके अरति-शोकयोर्मन्दरसं विदधाति, इदं हि प्रकृतिद्वयमशुभत्वात् सर्वविशुद्ध एव जघन्यरसं करोति, तद्वन्धकेषु त्वयमेव सर्वविशुद्ध इति // 69 // अपमाइ हारगदुगं, दुनिद्दअसुवन्नहासरइकुच्छा। भयमुवघायमपुवो, अनियट्टी पुरिससंजलणे // 7 // _ 'आहारकद्विकं' आहारकशरीरा-ऽऽहारकाङ्गोपाङ्गलक्षणं न प्रमाद्यति इत्येवंशीलोप्रमादीअप्रमत्तयतिः अनन्तरमेव प्रमत्तभावं प्रतिपित्सुर्मन्दरसं-जघन्यरसं करोतीति यावत् / इदं हि प्रकृतिद्वयं शुभस्वरूपत्वात् संक्लिष्ट एव जघन्यरसं करोति, तद्वन्धकेषु त्वयमेवातिसंक्लिष्ट इति भावः / तथा 'दुनिद्द' ति द्वयोनिद्रयोः समाहारो द्विनिद्रं-निद्रा-प्रचलालक्षणं "सु" शोभनं "वनं" ति वर्णचतुष्कं न सुवर्णम् असुवर्णम् अप्रशस्तवर्णचतुष्कम् अप्रशस्तवर्णगन्ध-रस-स्पर्शा इत्यर्थः, हास्यं रतिः “कुच्छ” त्ति जुगुप्सा भयम् उपघातम् इत्येतासामेकादशप्रकृतीनां “अपुष" ति सामान्योक्तावपि क्षपकापूर्वकरण एकैकस्मिन्नात्मीयात्मीयबन्धव्यवच्छेदसमये जघन्यानुभाग बध्नाति / एता ह्यशुभप्रकृतयः, अशुभप्रकृतीनां च सर्वविशुद्ध एव जघन्यानुभागं बध्नाति, प्रस्तुतप्रकृतिबन्धकेषु त्वयमेव सर्वविशुद्ध इति / तथा “पुरिस" ति पुरुषवेदः संज्वलनाःक्रोध-मान-माया-लोभाश्चत्वार इत्येतस्य प्रकृतिपञ्चकस्यैकैकस्मिन्नात्मीयात्मीयबन्धव्यवच्छेदसमये “अनियट्टि" त्ति सामान्योक्तावपि क्षपकाऽनिवृत्तिबादरो जघन्यानुभागं निवर्तयति / एता अशुभप्रकृतयः, अशुभप्रकृतीनां च सर्वविशुद्ध एव जघन्यानुभागं बध्नाति, प्रस्तुतप्रकृतिबन्धकेषु त्वयमेव सर्वविशुद्ध इति // 70 // विग्यावरणे सुहुमो, मणुतिरिया सुहुमविगलतिगआऊ / वेउव्विछक्कममरा, निरया उज्जोयउरलदुगं // 71 // . - विनानि-दान-लाभ-भोग-उपभोग-वीर्यान्तरायलक्षणानि पञ्च, आवरणानि-मतिज्ञानाव