________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथा: मकृतीरुपरचयन्ति, केवलं वेदनानिवहविहलीकृतत्वाद् अमरवत् प्रकृष्टभावनिबन्धनतीर्थकरादिसमृद्धिसमुदायसन्दर्शन-तद्वचःश्रवण-नन्दीश्वरादिचैत्यदर्शनाद्यसम्भवाच्च तथाविधविशुद्ध्यसम्भवात् तेषामिहाग्रहणम् / तिर्यङ्-मनुष्याणां पुनरतिविशुद्धानां देवगतिप्रायोग्यबन्धकत्वात् तदयोग्यप्रस्तुतप्रकृतिबन्धासम्भव इति सर्वव्युदासेन सुरस्यैवोपादानम् / तथा 'अप्रमत्तः' - अप्रमत्तयतिरमरागुरुत्कृष्टानुभागं बध्नाति, अपरेभ्यो देवायुर्वन्धकमिथ्यादृष्टि-अविरतसम्यग्दृष्टि-देशविरतादिभ्योऽस्यानन्तगुणविशुद्धत्वादिति / .. तदेवं द्विचत्वारिंशतः पुण्यप्रकृतीनां चतुर्दशानां त्वशुभप्रकृतीनां तीव्रानुभागबन्धस्वामिन उक्ताः / साम्प्रतं शेषाणामष्टषष्ट्यशुभप्रकृतीनां बन्धस्वामिनो निरूपयन्नाह-"चउगइमिच्छा उ सेसाणं" ति चतुर्गतिका अपि मिथ्यादृष्टयः तुशब्दात् तीव्रोत्कटकषाया जीवाः 'शेषाणां' भणितोद्धरितानां ज्ञानावरणपञ्चक-दर्शनावरणनवका-ऽसातवेदनीय-मिथ्यात्व-कषायषोडशक-नोकपायनवक-प्रथमवर्जसंस्थानपञ्चक-प्रथमान्तिमवर्जसंहननचतुष्का-प्रशस्तवर्ण-गन्ध-रस-स्पर्श-उपघाता-प्रशस्तविहायोगति-अस्थिरा-ऽशुभ-दुर्भग-दुःस्वरा-ऽनादेया-ऽयशःकीर्ति-नीचैर्गोत्रा-ऽन्तरायपञ्चकलक्षणानामष्टषष्ट्यशुभप्रकृतीनां तीवमुत्कृष्टानुभागं बध्नन्ति। तत्र हास्य-रति-स्त्रीवेद-पुंवेदप्रथमान्तिमवर्जसंस्थान-संहननलक्षणा द्वादश प्रकृतीवर्जयित्वा शेषाः षट्पञ्चाशत्प्रकृतीरुस्कृष्टतत्प्रायोग्यसंक्लेशयुक्तास्तीत्रानुभागाः कुर्वन्ति / सर्वोत्कृष्टसंक्लेशो हि तावद् हास्य-रतियुगलमतिक्रम्य अरति-शोकयुगलमेव रचयति, स्त्रीवेद-पुंवेदौ त्वतिक्रम्य नपुंसकवेदं निवर्तयति / संस्थानसंहननेष्वपि सर्वसंक्लिष्टो विंशतिसागरोपमकोटीकोटीस्थितिके हुण्ड-सेवार्ते निवर्तयति। ततो विशुद्धोऽष्टादशसागरोपमकोटीकोटीस्थितिके वामन-कीलिके रचयति, ततो विशुद्धतरः षोडशसागरोपमकोटीकोटीस्थितिके कुब्जा-अर्धनाराचे बध्नाति, ततोऽपि विशुद्धश्चतुर्दशसागरोपमकोटीकोटीस्थितिके सादि-नाराचे निर्वर्तयति, नतोऽपि विशुद्धो द्वादशसागरोपमकोटीकोटीस्थितिके न्यग्रोधपरिमण्डल-ऋषभनाराचे उपकल्पयति, ततोऽपि विशुद्धो दशसागरोपमकोटीकोटीस्थितिके समचतुरस्र-वज्रर्षभनाराचे बध्नाति / तस्मात् प्रथमा-ऽन्तिमवर्जसंस्थानचतुष्टयस्य तथा प्रथमा-- न्तिमवर्जसंहननचतुष्टयस्य चात्मीयात्मीयोत्कृष्टस्थितिबन्धकाले तत्प्रायोग्यसंक्लेशयुक्ता अमी उत्कृष्टानुभागं बन्नन्ति, हीनाधिकसंक्लेशेऽन्यान्यबन्धसम्भवात् तत्प्रायोग्यसंक्लेशग्रहणमिति भावः / प्रथमा-ऽन्तिमसंस्थान-संहननवर्जनं किमर्थम् ? इति चेद् उच्यते-हुण्डसंस्थानं तावत् "चउगइमिच्छा उ सेसाणं" ति गाथावयवे एवाभिहितम् , समचतुरस्रसंस्थानं तु “विउविसुराहारदुर्ग' (गा० 67 ) इत्याद्यनन्तरगाथायां भावितम् , वज्रर्षभनाराचसंहननं तु “सम्मसुरा मणुयउरलदुगवइरं" इत्यत्र निरूपितम् , सेवार्तसंहननं पुनः “तिरिदुगछेक्ट्ठसुरनिरया". (गा. 66 ) इत्यत्र भावितमिति पारिशेष्याद् मध्यमसंस्थानचतुष्टयं मध्यमसंहननचतुष्टयं च तत्प्रायोग्यसंक्लेशे वर्तमानाश्चतुर्गतिका मिथ्यादृष्टयो जीवा उत्कृष्टरसं कुर्वन्तीत्युक्तमिति // 68 // अभिहिताः सर्वप्रकृतीः प्रतीत्योत्कृष्टानुभागबन्धस्वामिनः। इदानीं सर्वप्रकृतीरुद्दिश्य जघन्यानुभागबन्धस्वामिनश्चिन्तयन्नाह