________________ 67-68] शतकनामा पञ्चमः कर्मग्रन्थः। उत्कृष्टानुभागं बध्नन्ति, न त्वीशानान्ताः, ते अतिसंक्लिष्टा एकेन्द्रियप्रायोग्यमेव विरचयेयुः, न च तयोग्यमिदं बध्यत इति // 66 // विउविसुराहारदुर्ग, सुखगइवन्नचउतेयजिणसायं / समचउपरघातसदसपणिदिसासुच्च खवगा उ // 67 // - द्विकशब्दस्य प्रत्येकं सम्बन्धाद्वैक्रियद्विकं वैक्रियशरीर-वैक्रियाङ्गोपामाख्यं, सुरद्विकंसुरगति-सुरानुपूर्वीस्वरूपम् , आहारकद्विकम्-आहारकशरीरा-ऽऽहारकाङ्गोपाङ्गलक्षणं, सुखगतिः-प्रशस्तविहायोगतिः, वर्णचतुष्कं-वर्ण-गन्ध-रस-स्पर्शलक्षणं, "डमरुकमणिन्याया" इहापि चतुःशब्दस्य सम्बन्धात् तैजसचतुष्कं-तैजस-कार्मणा-गुरुलघु-निर्माणाख्यं, जिननाम सातवेदनीयम् “समचउ" ति समचतुरस्र संस्थानम् “परघ" त्ति पराघातनाम त्रसदशकं त्रसबादर-पर्याप्त-प्रत्येक-स्थिर-शुभ-सुभग-सुस्वरा-ऽऽदेय-यशःकीर्तिस्वभावम् , “पणिदि" त्ति पञ्चेन्द्रियजातिः “सास" ति उच्छ्वासनाम उच्चैर्गोत्रम् इत्येतासां द्वात्रिंशतः प्रकृतीनामुत्कृष्टानुभाग यथासम्भवं 'क्षपकौ' सूक्ष्मसम्पराया-ऽपूर्वकरणलक्षणौ कुरुतः / अपूर्वकरणो मोहनीयमक्षपयअपि योग्यतया राज्यार्हकुमारराजवत् क्षपक उक्त इति द्रष्टव्यम् / तत्र सातवेदनीय-यशःकीर्ति-उच्चैर्गोत्रलक्षणप्रकृतित्रयस्य क्षपकसूक्ष्मसम्परायश्चरमसमये वर्तमान उत्कृष्टानुभागं बध्नाति, स्वगुणस्थानशेषसमयेभ्योऽन्येभ्यश्च तद्वन्धकेभ्योऽस्यानन्तगुणविशुद्धत्वादिति / शेषाणां त्वेकोनत्रिंशतः प्रकृतीनां क्षपकापूर्वकरणो देवगतिप्रायोग्यबन्धव्यवच्छेदसमये वर्तमानस्तीव्रमनुभागं बधाति, तद्वन्धकेष्वस्यैवातिविशुद्धत्वादिति // 67 // तमतमगा उज्जोयं, सम्मसुरा मणुयउरलदुगवहरं / अपमत्तो अमराउं, चउगइमिच्छा उ सेसाणं // 68 // तमस्तमा अधःसप्तमनरकपृथिवी तदाधारा नारकास्तमस्तमका उच्यन्ते, अमी उद्योतनामकर्मण उत्कृष्टानुभागं बध्नन्ति / तथाहि-कश्चित् सप्तमनरकपृथिवीनारको यथाप्रवृत्त्यादीनि त्रीणि करणानि कृत्वाऽनिवृत्तिकरणे स्थितो मिथ्यात्वस्यान्तररकणं करोति, तत्र च कृते मिथ्यात्वस्य स्थितिद्वयं भवति, अन्तरकरणाद् अधस्तनी प्रथमा स्थितिरन्तर्मुहूर्तमात्रा, तस्मादेवोपरितनी शेषा द्वितीया स्थितिः / स्थापना- तत्राधस्तनस्थितेर्मिथ्यात्ववेदनस्य चरमसमये उद्योतस्य तीव्रमनुभागं बध्नाति / इदं हि शुभप्रकृतित्वाद् विशुद्ध एवोत्कृष्टरसं करोति, तद्वन्धकेषु त्वयमेव सर्वविशुद्धः, अन्यस्थानवर्ती हि एतावत्यां विशुद्धौ वर्तमानो मनुष्यप्रायोग्यं देवप्रायोग्यं वा बन्नीयात् / इदं तु तिर्यग्गतिप्रायोग्यबन्धसहचरितमेव बध्यत इति सप्तमपृथिवीनारकस्यैवोपादानम् , तत्र हि यावत् किञ्चिदपि मिथ्यात्वमस्ति तावत् क्षेत्रानुभावत एव तिर्यक्प्रायोग्यमेव बध्यत एवेति भावः / तथा द्विकशब्दस्य प्रत्येकं सम्बन्धाद् मनुजद्विकं मनुजगति-मनुजानुपूर्वीरूपम्, औदारिकद्विकम्-औदारिकशरीर-औदारिकाङ्गोपाशाख्यम् “वइरं" ति वज्रर्षभनाराचसंहननम् इत्येतासां पञ्चानां प्रकृतीनां “सम्मसुर" ति सम्यम्दृष्टिसुरा अत्यन्तविशुद्धास्तीवानुभागमेकं द्वौ वा समयौ यावद् बध्नन्ति / मिथ्यादृष्टेहि सम्यग्दृष्टिरनन्तगुणविशुद्ध इति सम्यग्दृष्टेग्रहणम् / नारका अपि हि विशुद्धाः सन्त एताः