________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गावाः चेशानान्तो देव एकेन्द्रियजाति-स्थावरयोरुत्कृष्टानुभागं सर्वसंक्लिष्टो बध्नाति, आतपस्य तु तत्रामोग्यविशुद्ध इति द्रष्टव्यम् / इदं हि शुभंप्रकृतित्वाद् विशुद्ध्या उत्कृष्टरसं जन्यते / साऽपि विशुद्धिर्यघधिकतरा गृह्यते तदा पञ्चेन्द्रियतिर्यक्प्रायोग्यं मनुष्यप्रायोग्यं वा बनीयात् , न चातपं तत्मायोग्यबन्धे बध्यते, एकेन्द्रियप्रायोग्यत्वादेवेत्यालोच्य तत्प्रायोग्यविशुद्धत्वविशेषणोपादानम् / आह परः-ननु भवत्वेवं, किन्तु मिथ्यादृष्टिदेव एवैतास्तिस्र उत्कृष्टरसाः करोति नान्य इत्यत्र किं निबन्धनम् ! अत्रोच्यते-नारकाणां तावदेता एकेन्द्रियप्रायोग्यत्वात् तत्रोत्पत्त्यभावाद् बन्ध एव नागच्छन्ति, तिर्यङ्-मनुष्यास्तु यावत्यां विशुद्धौ वर्तमानः अयमातपमुत्कृष्टरसं करोति तावत्यां विशुद्धौ वर्तमानाः पञ्चेन्द्रियतिर्यगादिप्रायोग्यमन्यत् किञ्चित् शुभतरमुपरचयेयुः, यावति च संक्लेशे वर्तमानोऽसावेकेन्द्रियजाति-स्थावरयोरुत्कृष्टानुभागं बध्नाति तावति संक्लेशे स्थिता अमी नरकगतिप्रायोग्यं निर्वतयेयुः, देवास्तूत्कृष्टसंक्लेशेऽपि भवप्रत्ययाद् एकेन्द्रियप्रायोग्यमेव बघ्नन्ति, न तु नरकयोग्यमिति तिर्यङ्-मनुष्याणामपि प्रकृतकर्मत्रयोत्कृष्टानुभागबन्धकत्वासम्भवः, सुरा अपि सम्यग्दृष्टयो मनुष्ययोग्यमेव बभ्रन्तीति मिथ्यादृष्टिग्रहणम् / तस्मादीशानान्ता मिथ्यादृष्टिदेवा यदा आतपस्य सर्वलघ्वी स्थितिमुपकल्पयन्ति तदा तद्वन्धकेष्वतिविशुद्धा अस्योत्कृष्टानुभाग विदधति, यदा तूत्कृष्टसंक्लेशे वर्तमाना एकेन्द्रियजाति-स्थावरयोः सर्वोत्कृष्टां स्थितिमुपरचयन्ति तदा तयोरुत्कृष्टानुभागं कुर्वत इति स्थितम् / तथा त्रिकशब्दस्य प्रत्येकं सम्बन्धाद् विकलत्रिकं-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियलक्षणं सूक्ष्मत्रिकं-सूक्ष्मा-ऽपर्याप्त-साधारणाख्यं नरकत्रिकनरकमति-नरकानुपूर्वी नरकायुःस्वरूपम् , आयुःशब्दस्य प्रत्येकं सम्बन्धात् तिर्यगायुर्मनुजायुः इत्येतासामेकादशप्रकृतीनां कोलिकनलकन्यायेन मिथ्यादृष्टिशब्दस्येहाप्यनुकर्षणाद् मिथ्यादृष्टयः तिर्यश्चश्च नराश्च तिर्यग्-नरास्त एवोत्कृष्टानुभागं बध्नन्ति, न देवनारका इत्यर्थः / तथाहितियङ्-मनुष्यायुर्वर्जा नवप्रकृतीर्भवप्रत्ययादेव नारका न बध्नन्ति, तिर्यङ्-मनुष्यायुषी अप्यत्र भोगभूमियोग्ये उत्कृष्टरसे प्रकृते अतस्ते अमी न बध्नन्ति, कुतस्तेषां तदनुभागबन्धसम्भवः ? तस्मात् संज्ञिनो मिथ्यादृष्टयस्तिर्यङ्-मनुष्या एतत्प्रायोग्यविशुद्धा एते आयुषी बध्नन्ति, नारकायुषस्तु तत्प्रायोग्यसंक्लिष्टा उत्कृष्टरसं बध्नन्ति, अतिसंक्लिष्टस्यायुर्बन्धनिषेधात् , नरकद्विकं त्वेत एव सर्वसंक्विष्टा बध्नन्ति एकं द्वौ वा समयौ यावद्, उत्कृष्टसंक्लेशस्यैतावन्मात्रकालत्वादेव / शेषाणां तु विकलत्रिक-सूक्ष्मत्रिकलक्षणानां षण्णां प्रकृतीनामेत एव तत्प्रायोग्यसंक्लिष्टा उत्कृष्टानुभागं बध्नन्ति, सर्वसंक्लिष्टा घमी प्रस्तुतप्रकृतिबन्धमुल्लङ्घय नरकप्रायोग्यं निर्वर्तयेयुरिति तत्प्रायोग्यसंक्लेशग्रहणमिति / तथा तिर्यग्द्विकं-तिर्यग्गति-तिर्यगानुपूर्वीस्वरूपं छेदपृष्ठसंहननमित्येतत्प्रकृतित्रयस्य सुरा नारका वा अत्यन्तसंक्लिष्टा उत्कृष्टानुभागं बध्नन्ति / तिर्यङ्-मनुष्या घेतावति संक्लेशे वर्तमाना नरकगतिप्रायोग्यमेव निर्वतयेयुः, न च तद्योग्या एताः प्रकृतयो बध्यन्त इति तद्व्युदासेन देव-नारकाणां ग्रहणम् , ते हि सर्वसंक्लिष्टा अपि तिर्यग्गतिप्रायोग्यमेव बनन्तीति / इह च "व्याख्यानतो विशेषप्रतिपत्तेः" सेवार्तस्येशानादुपरि सनत्कुमारादयो देवा 1 सं० 1-2 छा० दानयोरु //