________________ 65-66] शतकनामा पञ्चमः कर्मग्रन्थः / उत्तरोत्तरस्पर्धकान्यप्यनन्तगुणरसानि, किं पुनरशुभानां द्वि-त्रि-चतुःस्थानिका रसा इति / तथाहि-अशुभानां निम्बोपमवीर्यो य एकस्थानिको रसस्तस्माद् अनन्तगुणवीर्यों द्विस्थानिकः, ततोऽप्यनन्तगुणवीर्यस्त्रिस्थानिकः, तस्मादप्यनन्तगुणवीर्यश्चतुःस्थानिक इति परस्परं सुप्रतीतमेवानन्तगुणरसत्वमिति / शुभप्रकृतीनां पुनरेकस्थानिको रस एव नास्ति / यश्च शुभानामिक्षूपमो रसोऽभिहितः स द्विस्थानिकरसस्य सर्वजघन्यस्पर्धक एव दृश्यः, तदुत्तरस्पर्धकेषु चानन्तगुणा रसा भवन्ति, एतत् सर्वं पञ्चसङ्ग्रहाभिप्रायतो व्याख्यातम् / किञ्च केवलज्ञानावरणादिरूपाणां सर्वघातिनीनां विंशतिसङ्ख्यानां प्रकृतीनां सर्वाण्यपि रसस्पर्धकानि सर्वघातीन्येव / देशघातिनीनां पुनर्मतिज्ञानावरणप्रभृतिपञ्चविंशतिप्रकृतीनां रसस्पर्धकानि कानिचित् सर्वघातीनि, कानिचिद् देशघातीनि। तत्र यानि चतुःस्थानिकरसानि त्रिस्थानिकरसानि वा रसस्पर्धकानि तानि नियमतः सर्वघातीनि, द्विस्थानिकरसानि पुनः कानिचिद् देशघातीनि कानिचित् सर्वघातीनि, एकस्थानिकानि तु सर्वाण्यपि देशघातीन्येव / उक्तं च - यानि [सर्वघातीनि] रसस्पर्धकानि सकलमपि स्वघात्यं ज्ञानादिगुणं घ्नन्ति, तानि च स्वरूपेण ताम्रभाजनवद् निश्छिद्राणि, घृतमिवातिशयेन स्निग्धानि, द्राक्षावत् तनुप्रदेशोपचितानि, स्फटिकाभ्रगृहवच्चातीवनिर्मलानि / ( ) उक्तं चजो घाएई नियगुणं, सयलं सो होइ सघाइरसो / सो निच्छिद्दो निद्धो, तणुओ फलिहब्भहरविमलो // (पञ्चसं० गा० 158) यानि च देशघातीनि रसस्पर्धकानि तानि स्वघात्यं ज्ञानादिगुणं देशतो घ्नन्ति, तदुदयेऽवश्यं क्षयोपशमसम्भवात् , तानि च स्वरूपेणानेकविधविवरसङ्घलानि। तथाहि—कानिचित् कट इवातिस्थूरच्छिद्रशतसङ्कलानि, कानिचित् कम्बल इव मध्यमविवरशतसङ्खलानि, कानिचित् पुनर'तिसूक्ष्मविवरनिकरसङ्घलानि यथा वासांसि, तथा तानि देशघातीनि रसस्पर्धकानि स्तोकस्नेहानि भवन्ति वैमल्यरहितानि च / उक्तं च देसैविघाइत्तणओ, इयरो कडकंबलंसुसंकासो / विविहबहुछिद्दभरिओ, अप्पसिणेहो अविमलो य // (पञ्चसं० गा० 159) इति // 65 // प्ररूपितः सप्रपञ्चमनुभागबन्धः / इदानीमुत्कृष्टानुभागबन्धस्य स्वामिनो निरूपयन्नाह तिव्वमिगथावरायव, सुरमिच्छा विगलसुहुमनरयतिगं / तिरिमणुयाउ तिरिनरा, तिरिदुगछेवट्ठ सुरनिरया // 66 // "इग" ति एकेन्द्रियजातिः स्थावरनाम आतपनाम इत्येतस्य प्रकृतित्रयस्य "सुरमिच्छ" ति सुराः-देवाः मिथ्यादृष्टयः तीव्रमनुभागमुत्कृष्टानुभागं कुर्वन्तीति शेषः / अत्र चाविशेषोक्तावपि "व्याख्यानतो विशेषप्रतिपत्तिः" इति न्यायात् सुरा ईशानान्ता एव द्रष्टव्याः नोपरि· तनाः, तेषामेकेन्द्रियेषूत्पत्त्यभावाद एकेन्द्रियप्रायोग्यप्रकृतप्रकृतित्रयबन्धासम्भवात् / अयमपि 1 यो घातयति निजगुणं सकलं स भवति सर्वघातिरसः / स निश्छिद्रः स्निग्धः तनुकः स्फटिकाभ्र. * गृहविमलः // 2 पञ्चसंग्रहे तु °इ सविसयं, सय° इति पाठः // देशविघातित्वादितर: कटकम्बलांशुकसङ्काशः / विविधबहुच्छिद्रभृतोऽल्पस्नेहोऽविमलश्च //