________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [ गाथा: तयो बन्ध एव नागच्छन्ति / या अपि वैक्रिय-तैजस-कार्मणाद्याः शुभा नरकप्रायोग्याः संक्छिष्टोऽपि बध्नाति तासामपि स्वभावात् सर्वसंक्लिष्टोऽपि द्विस्थानिकमेव रसं विदधाति / येषु तु मध्यमाध्यवसायस्थानेषु शुभप्रकृतयो बध्यन्ते तेषु तासां द्विस्थानिकपर्यन्त एव रसो बध्यते नैकस्थानिकः, मध्यमपरिणामत्वादेवेति न कापि शुभप्रकृतीनामेकस्थानिकरससम्भव इति // 6 // कृता चतुर्विधस्यापि रसस्य प्रत्ययप्ररूपणा / सम्प्रति शुभा-ऽशुभरसस्यैव विशेषतः किञ्चित् स्वरूपमाह निंबुच्छरसो सहजो, दुतिचउभागकढिइक्कभागंतो। इगठाणाई असुहो, असुहाण सुहो सुहाणं तु // 65 // इहैवमक्षरघटना—'अशुभानाम्' अशुभप्रकृतीनां रसोऽशुभः, अशुभाध्यवसायनिष्पन्नत्वात् / क इव ? इत्याह–'निम्बवत्' पिचुमन्दवद्, वत्शब्दस्य लुप्तस्येह प्रयोगो द्रष्टव्यः / तथा 'शुभानां' शुभप्रकृतीनां रसः शुभः, शुभाध्यवसायनिष्पन्नत्वात् / क इव ? इत्याह-'इक्षुवत्' इक्षुयष्टिवत् / तथा डमरुकमणिन्यायाद् निम्बेक्षुरसशब्द एवमप्यावय॑ते—यथा निम्बरस एव इक्षुरस एव 'सहजः' स्वभावस्थ एकस्थानिकरस उच्यते, स एवैकस्थानिकरसो द्वि-त्रि-चतुर्भागकथितैकभागान्तो द्विस्थानिकादिर्भवति / कोऽर्थः ? द्वौ च त्रयश्च चत्वारश्च द्वि-त्रि-चत्वारः, ते च ते भागाश्च द्वित्रिचतुर्भागाः, द्वित्रिचतुर्भागाश्च ते पृथग् विभिन्न-विभिन्नेष्वाश्रयेषु कथिताश्च द्वित्रि-चतुर्भागकथितास्तेषाम् एकः-एकसङ्ख्यो भागोऽन्ते-अवसाने यस्य सहजरसस्य स द्वि-त्रिचतुर्भागकथितैकभागान्तः / स किम् ? इत्याह–एकस्थानिकादिः, आदिशब्दाद् द्विस्थानिकत्रिस्थानिक-चतुःस्थानिकरसपरिग्रह इत्यक्षरार्थः / भावार्थस्त्वयम्-इह यथा निम्ब-घोषातकीप्रभृतीनां कटुकद्रव्याणां सहजः-अक्कथितः कटुको रस एकस्थानिक उच्यते, स एव भागद्वयप्रमाणः स्थाल्यां कथितोऽर्द्धावर्तितः कटुकतरो द्विस्थानिकः, स एव भाग–यप्रमाणः स्थाल्यां कथितस्त्रिभागान्तः कटुकतमस्त्रिस्थानिकः, स एव भागचतुष्टयप्रमाणो विभिन्नस्थाने क्वथितश्चतुर्थभागान्तोऽतिकटुकतमश्चतुःस्थानिकः। तथा इक्षु-क्षीरादीनां सहजो मधुररस एकस्थानिक उच्यते, स एव सहजो भागद्वयप्रमाणः पृथग्भाजने कथितोऽर्धावर्तितो मधुरतरो द्विस्थानिकः, स एव भागत्रयप्रमाणः पृथक्स्थाल्यां कथितस्त्रिभागान्तो मधुरतमस्त्रिस्थानिकः, स एव भागचतुष्कप्रमाणो विभिन्नस्थाने क्वथितश्चतुर्थभागान्तोऽतिमधुरतमश्चतुःस्थानिकः / एवमशुभानां प्रकृतीनां तादृशतादृशकषायनिष्पाद्यः कटुकः कटुकतरः कटुकतमोऽतिकटुकतमश्च, शुभप्रकृतीनां तु मधुरो मधुरतरो मधुरतमोऽतिमधुरतमश्च रसो यथासङ्ख्यमेक-द्वि-त्रि-चतुःस्थानिको भवति / एवं च रसोऽशुभप्रकृतीनामशुभः शुभप्रकृतीनां शुभ इति / तुशब्दो विशेषणे, स चैवं विशिनष्टियथा सप्तदशाशुभप्रकृतीनामेकस्थानिकरसस्पर्धकान्यसङ्घयेयव्यक्तिव्यक्तत्वाद् असङ्ख्येयानि भवन्ति / सत्र च सर्वजघन्यस्पर्धकरसस्येयं निम्बाधुपमा, तदनु चानन्तेषु रसपलिच्छेदेष्वतिक्रान्तेषु तदुतरं द्वितीयस्पर्धकं भवति, एवमुत्तरोत्तरक्रमेण प्रवृद्ध-वृद्धतररसोपेतानि शेषस्पर्धकान्यपि भवन्ति / एवं शेषाशुभप्रकृतीनामपि द्वि-त्रि-चतुःस्थानिकरसस्पर्धकान्यसङ्ख्येयव्यक्तिव्यक्तानि प्रत्येकमसधेयानि भवन्ति, तान्यपि यथोत्तरमनन्तरसपलिच्छेदनिष्पन्नत्वात् परस्परमनन्तगुणरसानि, अत