________________ 64] शतकनामा पञ्चमः कर्मग्रन्थः / वति, न शेषाणां शुभप्रकृतीनामशुभप्रकृतीनामितिहि वक्ष्यामः / उक्तोऽशुभानां रसस्य बन्धप्रत्ययः, इदानीं शुभानां रसप्रत्ययविभागमाह-- "सुहऽन्नह" त्ति शुभप्रकृतीनाम् ‘अन्यथा' उक्तवैपरीत्येन हेतुविपर्ययाचतुःस्थानिकादिरसस्य बन्धो भवति / तत्र वालुका-जलरेखासद्दशैः कषायैश्चतुःस्थानिको रसबन्धो भवति / महीरेखासद्दशैः कषायस्त्रिस्थानिको रसबन्धो भवति / गिरिरेखासद्दशैः कषायैर्दिस्थानिको सबन्धः शुभप्रकृतीनां भवति / शुभप्रकृतीनां त्वेकस्थानिको रस एव नास्तीति पूर्वमेवोक्तम् / अथ यासां प्रकृतीनामेक-द्वि-त्रि-चतुःस्थानिकभेदाच्चतुर्विधोऽपि रसबन्धः सम्भवति, यासां चैकस्थानिकबर्जस्त्रिविध एवेत्येतश्चिन्तयन्नाह–“विग्घदेसघाइआवरणा" इत्यादि / विनानि-दाम-लाम-भोग-उपभोग-वीर्यान्तरायभेदादन्तरायाणि पञ्च, 'देशघात्यावरणाः' देशघास्यावारिकाः सप्त प्रकृतयः, तद्यथा-मतिज्ञान-श्रुतज्ञाना-ऽवधिज्ञान-मनःपर्यायज्ञानावरणाश्चतस्रः, चक्षुर्दर्शना-ऽचक्षुर्दर्शना-ऽवधिदर्शनावरणास्तिस्र इत्येताः, “पुम" त्ति पुंवेदः, संज्वलनाश्चत्वारःक्रोध-मान-माया-लोभा इत्येताः सप्तदशप्रकृतयः / किम् ? इत्याह-"इगदुतिचउठाणरस" ति स्थानशब्दस्य प्रत्येकं सम्बन्धाद् एकस्थान-द्विस्थान-त्रिस्थान-चतुःस्थाना रसा यासां ता एकद्वि-त्रि-चतुःस्थानरसाः, एताः सप्तदशापि प्रकृतय एक-द्वि-त्रि-चतुःस्थानिकरूपेण चतुर्विधेनापि रसेन संयुक्ता मध्यन्त इति तात्पर्यम् / तत्रानिवृत्तिबादरे गुणस्थाने सङ्ख्येयेषु भागेषु गतेष्वासां सप्तदशानामपि प्रकृतीनामेकस्थानिको रसः प्राप्यते, शेषस्थानिकास्तु रसास्त्रयोऽप्यासां संसारखान् जीवानाश्रित्य प्राप्यन्त इति / शेषाः प्रकृतयस्तर्हि किंरूपा भवन्ति ? इत्याह—"सेस दुयमाई" इति / 'शेषाः' भणितसप्तदशप्रकृतिभ्य उद्धरिताः सर्वाः शुभा अशुभाश्च प्रकृतयो बध्यन्ते "दुयमाइ" ति "सूचनात् सूत्रम्" इति न्यायाद् द्विस्थानादिरसाः, आदिशब्दात् त्रिस्थानरसाश्चतुःस्थानरसाश्च, शेषाः प्रकृतयो द्विस्थानिक-त्रिस्थानिक-चतुःस्थानिकरसयुक्ता भवन्ति, न स्वेकस्थानिकरसयुक्ता इति भावः / अयमत्राशयः-सप्तदशप्रकृतिष्वेवैकस्थानिको रसो बध्यते, न तु शेषासु, यतोऽशुभप्रकृतीनामेकस्थानिको रसो यदि लभ्यते तदोऽनिवृत्तिबादरसोयभागेभ्यः परत एव, तत्र च सप्तदशप्रकृतीवर्जयित्वा शेषाणामशुभप्रकृतीनां बन्ध एव नास्ति, अतः शेषाणामशुभानामेकस्थानिको रसो न भवति / ये अपि केवलज्ञान-केवलदर्शनावरणलक्षणे द्वे अपि प्रकृती तत्र बध्येते, तयोरपि सर्वघातित्वाद् द्विस्थानिक एव रसो निर्वय॑ते नकस्थानिक इति / शुभानां तु सर्वासामप्येकस्थानिको रसो न भवति, यत इहासइयेयलोकाकाशप्रदेशप्रमाणानि संक्लेशस्थानानि भवन्ति, विशुद्धिस्थानान्यपि तावन्त्येव, यथा यान्येव संक्लिश्यमानः संक्लेशस्थानान्यारोहति तेष्वेव विशुध्यमानोऽवतरति, ततश्च यथा प्रासादमारोहतां यावन्ति सोपानस्थानानि अवतरतामपि तावन्त्येव, तथाऽत्रापीति भावः, केवलं विशुद्धिस्थानानि विशेषाधिकानि / कथम् ? इति चेद् उच्यते-क्षपको येष्वध्यवसायस्थानकेषु क्षपकश्रेणिकामारोहति न तेषु पुनरपि निवर्तते, तस्य संक्लेशाभावात् , अतस्तानि विशुद्धिस्थानान्येव भवन्ति, म संक्लेशस्थानानीति तैरध्यवसायस्थानैर्विशुद्धिस्थानान्यधिकानि / एवं च स्थितेऽत्यन्तविशुद्धौ वर्तमानः शुभप्रकृतीनां चतुःस्थानिक रसमभिनिर्वर्तयति, अत्यन्तसंक्लेशे तु वर्तमानस्य शुभप्रकृ