________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः त्रयावर्तश्च यथासङ्ख्यं मधुरो मधुरतरो मधुरतमोऽतिमधुरतमश्च रसो जलाद्यसम्बन्धाद् यथा तीव्रो भवति; तथैतेषामेव पिचुमन्दादीनां क्षीरादीनां च द्रव्याणां सम्बन्धी सहजो रसो जललवबिन्दुअर्धचुलुक-चुलुक-प्रसृति-अञ्जलि-करक-कुम्भ-द्रोणादिसम्बन्धाद् यथा बहुभेदं मन्द-मन्दतरादित्वं प्रतिपद्यते; तथाऽर्धावर्तादयोऽपि रसा यथा जललवादिसम्बन्धाद् मन्द-मन्दतर-मन्दतमादित्वं प्रतिपद्यन्ते तथैवाशुभप्रकृतीनां शुभप्रकृतीनां च रसास्तादृशतादृशकषायवशात् तीव्रत्वं मन्दत्वं चानुविदधतीति। अक्षरार्थोऽधुना वित्रियते-तीवो रसो भवति / कासाम् ? इत्याह- "असुहसुहाणं" ति अशुभाश्च शुभाश्चाशुभ-शुभास्तासामशुभशुभानाम् , अशुभप्रकृतीनां शुभप्रकृतीनां चेत्यर्थः / कथम् ? इत्याह-"संकेसविसोहिओ" ति संक्लेशश्च विशुद्धिश्च संक्लेश-विशुद्धी ताभ्यां संक्लेशविशुद्धितः, आद्यादेराकृतिगणत्वात् तस्प्रत्ययः, यथासङ्ख्यमशुभप्रकृतीनां संक्लेशेन शुभप्रकृतीनां विशुद्धयेत्यर्थः / इदमत्र हृदयम्-अशुभप्रकृतीनां द्वयशीतिसङ्ख्यानां संक्लेशेन-तीनकषायोदयेन तीव्रः-उत्कटो रसो भवति, सर्वाशुभप्रकृतीनां तद्बन्धविधायिनां जन्तूनां मध्ये यो य उत्कृष्टसंक्लेशो जन्तुः स स तीव्ररसं बनातीत्यर्थः; शुभप्रकृतीनां तु विशुद्धया कषायविशुद्ध्या तीब्रोऽनुभागो भवति, शुभप्रकृतिबन्धकानां मध्ये यो यो विशुध्यमानपरिणामः स स तासां तीनमनुभागं बनातीत्यर्थः / उक्तस्तीवरसस्य बन्धप्रत्ययः / सम्प्रति स एव मन्दरसस्याभिधीयते"विवज्जयओ मन्दरसो" ति 'विपर्ययेण' विपर्ययत उक्तवैपरीत्येन मन्दः-अनुत्कटरसो भवति / अयमर्थः—सर्वप्रकृतीनामशुभानां विशुद्धथा मन्दो रसो जायते, शुभानां तु मन्दः संक्लेशेनेति / उक्तः संक्लेश-विशुद्धिवशादशुभ-शुभप्रकृतीनां तीव्रो मन्दश्चानुभागः, अयं त्वेक-द्वि-त्रिचतुःस्थानिकभेदाचतुर्धा भवति, अत एकस्थानिकादिरसो यैः प्रत्ययैर्यासां प्रकृतीनां भवति तदाह-"गिरिमहिरय" इत्यादि / गिरिश्च-पर्वतः मही च-पृथिवी रजश्च वालुका जलं चपानीयं गिरि-मही-रजः-जलानि तेषु रेखाः-राजयस्ताभिः सदृशाः-तुल्या गिरि मही-रजः-जलरेखासदृशास्ते च ते कषायाश्च-सम्परायास्तैरसौ भवतीति प्रक्रमः // 63 // कीडग् ? इत्याह चउठाणाई असुहा, सुहऽनहा विग्घदेसआवरणा। पुमसंजलणिगतिचउठाणरसा सेस दुगमाई // 64 // ___ चतुःस्थान आदिर्यस्य रसस्य त्रिस्थानिक-द्विस्थानिक-एकस्थानिकपरिग्रहः स चतुःस्थानादिः, कासाम् ? इत्याह-"असुह" ति इह षष्ठ्यर्थे प्रथमा ततः 'अशुभानाम्' अशुभप्रकृतीनाम् / इयमत्र भावना-इह रेखाशब्दस्य प्रत्येकं सम्बन्धाद् गिरिरेखाशब्देन प्रभूतकालव्यपदेशादतितीव्रत्वं कषायाणां प्रतिपाद्यते, ततश्च गिरिरेखासदृशैः कषायैरनन्तानुबन्धिभिरित्यर्थः, सर्वासामशुभप्रकृतीनां चतुःस्थानिकरसबन्धो भवति। आतपशोषिततडागमहीरेखासदृशैः कषायैरप्रत्याख्यानावरणैर्मनाग्मन्दोदयैरशुभप्रकृतीनां त्रिस्थानिकरसबन्धो भवति / वालुकारेखासदृशैः कषायैः प्रत्याख्यानावरणैरशुभप्रकृतीनां द्विस्थानिकरसबन्धः / जलरेखासदृशैः कषायैरतिमन्दोदयैः संज्वलनाभिधैर्विघ्नपञ्चकादिवक्ष्यमाणसप्तदशाऽशुभप्रकृतीनामेवैकस्थानिकरसबन्धो भ 1 केचिदादशेषु “सघाइआवरणा" इत्येवंरूपः पाठः //