________________ 66-63] शत्तफनामा पञ्चसः कर्मग्रन्थः / __ आयूंषि चत्वार्यपि यावदन्तर्मुहूर्त तावद् जघन्यतोऽपि बध्यन्ते, ततस्तत्प्रति सुप्रतीत एव यथोक्तकाल इति // 62 // . प्ररूपितः प्रसक्तानुप्रसक्तसहितः स्थितिबन्धः / इदानीमनुभागबन्धस्यावसरः-अनुभागो रसोऽनुमाव इति पर्यायाः। तत्रानुभागस्य किञ्चित् तावत् स्वरूपमुच्यते-इह गम्मीरापारसंसारसरित्पतिमध्यविपरिवर्ती रागादिसचिवो जन्तुः पृथक् सिद्धानामनन्तभागवर्तिभिरभव्येभ्योऽनन्तगुणैः परमाणुभिर्निष्पन्नान् कर्मस्कन्धान प्रतिसमयं गृह्णाति, तत्र च प्रतिपरमाणु कषायविशेषात् सर्वजीवानन्तगुणाननुभागस्याविभागपलिच्छेदान् करोति / केवलिप्रज्ञया छिद्यमानो यः परमनिकृष्टोऽनुभागांऽशोऽतिसूक्ष्मतयाऽधं न ददाति सोऽविभागपलिच्छेद उच्यते / उक्तं च - बुद्धीइ छिज्जमाणो, अणुभागंसो न देइ जो अद्धं / / ___ अविभागपलिच्छेओ, सो इह अणुभागबंधम्मि // (शत० वृ० भा० गा० 459) तत्र चैकैककर्मस्कन्धे यः सर्वजघन्यरसः परमाणुः सोऽपि केवलिप्रज्ञया छिद्यमानः किल सर्वजीवेभ्यो अनन्तगुणान् रसभागान् प्रयच्छति / अन्यस्तु परमाणुस्तानविभागपलिच्छेदानेकाधिकान् प्रयच्छति, अपरस्तु तानपि द्वथधिकान्, अन्यस्तु तानपि त्र्यधिकान् , अन्यस्तु तानपि चतुरधिकानित्यादिवृद्धया तावन्नेयं यावदन्त्य उत्कृष्टरसः परमाणुमौलराशेरनन्तगुणानपि रसभागान् प्रयच्छति / अत्र च सर्वजघन्यरसा ये केचन परमाणवस्तेषु सर्वजीवानन्तगुणरसभागयुक्तेष्वप्यसत्कल्पनया शतं रसांशानां परिकल्प्यते, एतेषां च समुदायः समानजातीयत्वादेका वर्गणेत्यभिधीयते, अन्येषां त्वेकोत्तरशतरसभागयुक्तानामणूनां समुदायो द्वितीया वर्गणा, अपरेषां तु व्युत्तरशतरसांशयुक्तानामणूनां समुदायस्तृतीया वर्गणा, अन्येषां तु व्युत्तरशतरसभागयुक्तानामणूनां समुदायश्चतुर्थी वर्गणा, एवमनया दिशा एकैकरसभागवृद्धानामणूनां समुदायरूपा वर्गणाः सिद्धानामनन्तभागेऽभव्येभ्योऽनन्तगुणा वाच्याः। एतासां चैतावतीनां वर्गणानां समुदायः स्पर्धकमित्यभिधीयते, स्पर्धन्त इवोत्तरोत्तररसवृद्धया परमाणुवर्गणा अत्रेति कृत्वा / एताश्चानन्तरोक्तानन्तकप्रमाणा अप्यसत्कल्पनया षट् स्थाप्यन्ते 305/ इदमेकं स्पर्धकम् / इत ऊर्ध्वमेकोत्तरया निरन्तरवृद्ध्या वृद्धो रसो न लभ्यते, किं तर्हि ? सर्व-०३| जीवानन्तगुणैरेव रसभागैर्वृद्धो लभ्यत इति तेनैव क्रमेण द्वितीयं रसस्पर्धकमार-३० भ्यते, ततस्तेनैव क्रमेण तृतीयमित्यादि यावदनन्तानि रसस्पर्धकानि उत्तिष्ठन्ते / अयं चानुभागः शुभा-ऽशुभभेदेन द्विविधानामपि प्रकृतीनां तीव्र-मन्दरूपतया द्विविधो भवत्यतोऽशुभ-शुभप्रकृतीनां येन प्रत्ययेनासौ तीव्रो बध्यते येन च मन्दस्तन्निरूपणार्थमाह.. तिव्वो असुहसुहाणं, संकेसविसोहिओ विवजयओ। मंदरसो गिरिमहिरयजलरेहासरिकसाएहिं // 63 // तत्र प्रथमं तावत् तीव्र-मन्दस्वरूपमुच्यते पश्चादक्षरार्थः / इह घोषातकी-पिचुमन्दाघशुभवनस्पतीनां सम्बन्धी सहजोऽर्धावतों द्विभागावर्ती भागत्रयावर्तश्च यथाक्रमं कटुकः कटुकतरः कटकतमोऽतिशयकटुकतमश्व, तथेक्षु-क्षीरादिद्रव्याणां सम्बन्धी सहजोऽर्धावर्तो द्विभागावर्ती भाग 1 बुद्धया छिद्यमानोऽनुभागांशो न ददाति योऽर्धम् / अविभागपरिच्छेदोऽसाविहानुभागबन्धे //