________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गीथाः असुखगहजाइागिइसंघयणाहारनरयजोयदुर्ग। थिरसुभजसथावरदसनपुइत्थीदुजुयलमसायं // 61 // सुशब्दः प्रशंसायाम् , न सुः असुः-अप्रशस्त इत्यर्थः / ततोऽसुशब्दः प्रत्येकं सम्बध्यते, ततश्चासुखगतिः-अप्रशस्तविहायोगतिः, असुजातयः-एक-द्वि-त्रि-चतुरिन्द्रियजातिलक्षणाश्चतस्रः, असुसंहननानि-ऋषभनाराचादीनि पञ्च, अस्वाकृतयः-आकाराः संस्थानानि न्यग्रोधपरिमण्डलादयः पञ्च, द्विकशब्दस्य प्रत्येकं सम्बन्धाद् आहारकद्विकम्-आहारकशरीरा-ऽऽहारकाङ्गोपागलक्षणं नरकद्विकं-नरकगति-नरकानुपूर्वीलक्षणं “जोयदुगं" ति उद्योतद्विकम्-उद्योता-ऽऽतपलक्षणम् “उज्जोयायवपरघा" ( गा० 3) इति संज्ञागाथायां पठनात्, स्थिरनाम शुभनाम "जस" ति यशःकीर्तिनाम स्थावरदशकं प्रतीतमेव “नपु" त्ति नपुंसकवेदः स्त्रीवेदःद्वयोर्युगलयोः समाहारो द्वियुगलं-हास्य-रति-अरति-शोकलक्षणम् 'असातम्' असातवेदनीयमिति // 61 // समयादंतमुहुत्तं, मणुदुगजिणवहरउरलवंगेसु / . तित्तीसयरा परमो, अंतमुहु लहू वि आउजिणे // 62 // एतासां पूर्वोक्तानामसुखगतिप्रभृत्येकचत्वारिंशत्प्रकृतीनां किम् ? इत्याह–'समयात्' सूक्ष्मकालांशादारभ्य अन्तर्मुहूर्त यावदुत्कृष्टतोऽपि सततबन्धो न परतोऽपि / किमुक्तं भवति ? - समयप्रमाणो जघन्यो बन्धकाल उत्कृष्टश्चान्तर्मुहूर्तप्रमाणः, यतः समयादन्तर्मुहूर्ताद् वा उत्तरकालमासामध्रुवबन्धित्वेनावश्यं परावृत्तेः सद्भावात् सङ्गच्छत एव यथोक्तकाल इति / तथा "मणुदुर्ग" ति मनुजद्विकं मनुजगति-मनुजानुपूर्वीरूपं जिननाम “वन" ति वज्रऋषभनाराचसंहननम् औदारिकाङ्गोपाङ्गम् ततो मनुजद्विकादीनां द्वन्द्वस्तेषु, एतासु प्रकृतिषु विषये त्रयस्त्रिंशदतराणि 'परमः' प्रकृष्टः सततबन्धो निरन्तरं बन्धकाल इति योगः। अत्रापि जिननामवर्जानां चतसृणां प्रकृतीनां जघन्यतः समयमेकं बन्धः सविपक्षत्वात् , उत्कृष्टतस्त्रयस्त्रिंशदतराणि, यतो बद्धजिननामकर्माऽनुत्तरसुरेषु स्थित एतावन्तं कालमेतदेव प्रस्तुतप्रकृतिपञ्चकं सततं बध्नातीति / ननु किमध्रुवबन्धिनीनां प्रकृतीनां सर्वासामपि जघन्यबन्धकाल: समयमात्र एव ? किमुत कासाश्चिदन्यथाऽपि ? अत आह—"अंतमुहु लहू वि आउजिणे" त्ति 'लघुरपि' जघन्यबन्धोऽपि ह्रस्वबन्धकालोऽपि न केवलमसुखगतिप्रभृतीनामुत्कृष्टोऽन्तर्मुहूर्तलक्षणो बन्धकाल इत्यपिशब्दार्थः, आयुःषु चतुर्पु जिननामकर्मणि चेत्यर्थः, "अंतमुहु"त्ति एकदेशे समुदायोपचाराद् अन्तर्मुहूर्तलक्षणो न तु समयरूप इति / अयमत्र भावार्थः-इह कश्चिजन्तुस्तीर्थकरनामबन्धक उपशमश्रेणिमारूढः, तत्र चानिवृत्तिबादर-सूक्ष्मसम्पराय-उपशान्तमोहलक्षणगुणस्थानकत्रये वर्तमानोऽबन्धकः सम्पेदे, ततः श्रेणिं समाप्य प्रतिपतितः पुनरप्यन्तर्मुहूर्तं यावत् तदेव बद्धा तदूर्ध्वं द्वितीयवारं श्रेण्यारोहणेऽबन्धको यदा भवति तदाऽसौ कालो लभ्यते / न च वाच्यं कथमेकस्मिन्नेव भवे वारद्वयश्रेणिकरणम् ? यतः शास्त्रे तस्याभिहितत्वात् / उक्तं च ऐगभवे दुक्खुत्तो, चरित्तमोहं उपसमिजा // ( कर्मप्र० 376 ) इति / 1 मुद्रितशतके तु-द्वयं श्रेणिक° इत्येवंरूपः पाठः // 2 एकस्मिन् भवे द्विकृत्वः चारित्रमोहमुपशमयेत् // 3 कर्मप्रकृतौ तु–समेइ // इत्येवंरूपः पाठः //