________________ 59-60] शतकनामा पञ्चमः कर्मग्रन्थः / वेदनीयस्य स्थितिः-स्थितिबन्धः सततबन्धकालः परमः पूर्वकोटिरूना-न्यूना भवति / इहापि जघन्यतः सातस्य समयमेकं बन्धः सविपक्षत्वात् , उत्कृष्टतस्तु देशोना पूर्वकोटिः सततबन्धः, यतो यः कश्चिन्मानवः पूर्वकोट्यायुरष्टवार्षिकः सर्वविरतिमादाय नवमवर्षे केवलज्ञानमासादयेत् सोऽष्टाभिर्वर्षैरूनां पूर्वकोटिं सातवेदनीयं सततं बध्नाति, केवलिनः सातस्यैव बन्धात् / उक्तं च विसंतखीणमोहा, केवलिणो एगविहबन्धा॥ (पञ्चाश० 16 गा० 41) इति // 59 // जलहिसयं पणसीयं, परघुस्सासे पणिंदि तसचउगे। बत्तीसं सुहविहंगइपुमसुभगतिगुच्चचउरंसे // 60 // पराघातं चोच्छ्वासं च पराघातोच्छ्वासं तस्मिन् पराघातोच्छासे, “पणिदि" त्ति सूचनात् सूत्रम् , इति कृत्वा पञ्चेन्द्रियजातो, त्रसेनोपलक्षितं चतुष्कं त्रसचतुष्कं तस्मिन् सचतुष्के-त्रसबादर-पर्याप्तप्रत्येक-लक्षणे प्रभूतकालनिस्तरणीयत्वाद् जलधय इव जलधयः-सागरोपमाणि तेषां शतं जलधिशतं “पणसीयं" ति पञ्चाशीत्यधिकं परमः सततबन्धकालो भवति / इह च सचतुःपल्यमित्यनिर्देशेऽपि सचतुःपल्यमिति व्याख्यानं कार्यम् , यतो यावानेतद्विपक्षस्याबन्धकालस्तावानेवासां बन्धकाल इति / पञ्चसङ्ग्रहादौ चोपलक्षणादिना केनचित्कारणेन यन्नोक्तं तदभिप्राय न विद्म इति / तथा जघन्यत एता अपि समयमेकं बध्यन्ते, सविपक्षत्वादध्रुवबन्धित्वाच्च / उत्कृष्टतस्तु सचतुःपल्यं पञ्चाशीत्यधिकं जलधिशतं बन्धकालः / कथम् ? षष्ठपृथिव्यामुत्कृष्टस्थितिको द्वाविंशतिसागरोपमाण्यनुभवन्नासां विपक्षबन्धासम्भवादेता एव प्रस्तुतसप्तप्रकृतीबद्धवान् , ततः पर्यन्तान्तर्मुहूर्ते सम्यक्त्वमासाद्य मनुष्यजन्म सम्प्राप्य देशविरतिरत्नं लब्ध्वा चतुःपल्योपमस्थितिकेषु देवेषु सुपर्वत्वमनुभूय अप्रतिपतितसम्यक्त्व एव मनुष्येषु समुत्पद्य सम्पूर्णसंयमं च परिपाल्य नवमवेयकविमाने एकत्रिंशत्सागरोपमस्थितिको महर्द्धिरमरो भूत्वा उत्पादोत्तरकालं मिथ्यात्वोदयवान् भवति, च्यवनकाले च सम्यक्त्वं प्रतिपद्य षट्षष्टिसागरोपमाण्यच्युतदेवलोके वारत्रयेणानुभवति, पुनरन्तर्मुहूर्त सम्यग्मिथ्यात्वमनुभूय भूयोऽपि सम्यग्दर्शनमवाप्य विजयादिषु वारद्वयेन पुनः षट्षष्टिसागरोपमाणि समनुभवति / तस्मादेतेषु तमःप्रभापृथिवीप्रभृतिस्थानेषु पर्यटन् जीवः क्वचिद् भवप्रत्ययात् कचिच्च सम्यक्त्वप्रत्ययादेतावन्तं कालमेताः सप्तापि प्रकृतीः सततं बध्नातीति / “बत्तीसं" ति द्वात्रिंशदधिकं जलधिशतमिति गम्यते, परमः सततबन्धकाल इति सम्बन्धः / क ? इत्याह-"सुहविहगइ" त्ति शुभविहायोगतिः “पुम" ति पुंवेदः 'सुभगत्रिकं' सुभग-सुस्वरा-ऽऽदेयलक्षणम् उच्चैर्गोत्रं "चउरंस" त्ति 'चतुरस्र' समचतुरस्र प्रथमसंस्थानम् , तत एतेषां समाहारद्वन्द्वः, तत्र इहापि जघन्यतः समयमेकमासां सप्तानां प्रकृतीनां बन्धः सविपक्षत्वात् , उत्कृष्टतस्तु द्वात्रिंशं जलधिशतं सततबन्धकालो भवति / तथाहि—किल यदा कश्चिद् जन्तुः सर्वविरतिमनुपाल्य गृहीतसम्यक्त्वो वारद्वयं विजयादिगमनेन षट्षष्टिसागरोपमाणि सम्यक्त्वकालं प्रपूर्य मनुष्येष्वन्तर्मुहूर्त सम्यग्मिथ्यात्वमनुभूय तदन्तरितं द्वितीयं षट्षष्टिप्रमाणं सम्यग्दर्शनकालं वारत्रयमच्युतदेवलोकगमनेन परिपूरयति तदा सम्यग्दृष्टिर्जन्तुरेता एव बध्नाति, न पुनरेतत्प्रतिपक्षाः, तासां मिथ्यादृष्टि-सास्वादनगुणस्थानकयोर्बन्धव्यवच्छेदादिति // 60 // 1 उपशान्तक्षीणमोहाः केवलिन एकविधबन्धाः / /