________________ / देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः मनुष्येषूत्पद्य इत्यादिप्रागुक्तन्यायेन पुनर्विजयादिगमनेन षट्षष्टिद्वयं पूरयति तदा त्रिषष्ट्यधिकमुदधिशतं भवतीति / तथा तमःप्रभायां द्वाविंशतिसागरोपमाणि स्थितिमनुभूय ततो नवमौवेयके एकत्रिंशत्सागरोपमाणि तदनु विजयादिषु षट्षष्टिद्वयमिति मिलितं पञ्चाशीत्यधिकमुदधिशतमिति / सर्वत्र चान्तरालभाविनरभवाधिकत्वं स्वत एव वाच्यमिति / एवं यासां प्रकृतीनां येषु जन्तुषु सर्वथैव वन्धो न भवति तास्तद्वारेण प्रदर्शिताः / सम्प्रति त्रिसप्ततिसङ्ख्यानामप्यध्रुवबन्धिनीनां जघन्यमुत्कृष्टं च सततबन्धकालप्रमाणं प्रतिपादयन्नाह--"सययबन्धो" इत्यादि / द्विकशब्दस्य प्रत्येकं सम्बन्धाद् सुरद्विके-सुरगति-सुरानुपूर्वीलक्षणे वैक्रियद्विके वैक्रियशरीर-वैक्रियाङ्गोपाङ्गखरूपे 'पल्यत्रिकं' पल्योपमत्रयं सततं बन्धः सततबन्धः “नाम नाम्नैकार्ये समासो बहुलम्" ( सिद्ध० 3-1-18 ) इति समासः, यथा विस्पष्टं पटुः विस्पष्टपटुरित्यादी इत्यक्षरार्थः / भावार्थस्त्वयम्-सुरद्विक वैक्रियद्विकलक्षणप्रकृतिचतुष्टयस्य पल्योपमत्रिकं सततबन्धकाल: "तित्तीसयरा परमो” (गा० 62 ) इति पदात् परमशब्दस्येहाकर्षणात् 'परमः' उत्कृष्टो भवति, यतो युगलधार्मिकेषु वर्तमानो जन्मत आरभ्य देवप्रायोग्यमिदं प्रकृतिचतुष्टयं पल्योपमत्रयं यावत् सततमेव-निरन्तरमेव बध्नातीति भावः, जघन्यतस्तु समयः / परावर्तमानत्वादासामपीति // 58 // समयादसंखकालं, तिरिदुगनीएसु आउ अंतमुहू / उरलि असंखपरहा, सायठिई पुव्वकोडूणा // 59 // समयः-अत्यन्तसूक्ष्मः कालांशः, स च समयप्रसिद्धात् पट्टशाटिकापाटनदृष्टान्ताद् उत्पलपत्रशतवेधोदाहरणाद्वाऽवसेयः, तस्मात् समयादारभ्य समयमादौ कृत्वा एकोत्तरसमयवृद्ध्या तावत्सततं बन्धकालो नेयो यावदसङ्घयेयकाल इति / तत्रासङ्ग्यः–सङ्ख्यातिकान्तः समयपरिभाषितः स चासौ कालश्वासङ्ख्यकालः तम्, सङ्ख्येयलोकाकाशप्रदेशप्रमाणसमयराशिरूपं यावदित्यर्थः / इह च समयशब्देन जघन्यो बन्धकाल उक्तः, स च सर्वत्र मन्तव्यः, क ? इत्याह-तिर्यग्द्विके-तिर्यग्गति-तिर्यगानुपूर्वीरूपे नीचैर्गोत्रे च द्वन्द्वे च तिर्यग्द्विकनीचैर्गोत्रयोः। अयमाशयः-तिर्यग्गति-तिर्यगानुपूर्वी नीचे!त्रलक्षणप्रकृतित्रमिदं जघन्यतः समयमेकं बध्यते, द्वितीयसमये परावृत्त्या तद्विपक्षस्य बन्धसम्भवात् / यदा तु तेजः-वायुषु जन्तुरुत्पद्यते तदा भवखभावादेवातिसंक्लिष्टे नीचैर्गोत्र-तिर्यग्द्विके एव बध्नाति, न तद्विपक्षमुच्चैगोत्रं मनुजद्विकं वा, अतस्तेजः-वायूनां कायस्थितिरूपमसङ्ख्येयकालं यावदासां तिसृणामपि प्रकृतीनां परमः सततबन्धकालः प्राप्यत इति / “आउ अन्तमुहु" ति आयुःषु चतुर्वपि अन्तमुहूर्तमेव कालं यावत् परमः सततबन्धकालः, जघन्योऽपि चैतावानेवेति वक्ष्याम इति / तथैकदेशे समुदायोपचाराद् 'औदारिके' औदारिकशरीरविषयेऽसङ्ख्याः-सङ्ख्यातिक्रान्ताः “परट्ट" त्ति परावर्ताः-पुद्गलपरावर्ता वक्ष्यमाणस्वरूपाः परमः सततबन्धकाल इति / इहापि जघन्यतः समयेकं सततबन्धः सविपक्षत्वात् , उत्कृष्टतस्त्वसङ्ख्येयपुद्गलपरावर्ताः। कथम् ? यतो व्यावहारिकसत्त्वा अपि स्थावरकायमुपगताः कायस्थित्या इयन्तं कालं तिष्ठन्ति, न च तत्र वैक्रिया-55हारकयोस्तद्विपक्षयोर्बन्धोऽस्तीति तात्पर्यम् / तथा "सायठिई पुवकोडूण" ति सातस्य-सात