________________ 57-58] शतकनामा पञ्चमः कर्मग्रन्थः। रूपम् , “निय" ति नीचैर्गोत्रं "नपु" ति नपुंसकवेदः स्त्रीवेद इति, एतासां पञ्चविंशतिप्रकृतीनां नरभवसहितं "दुतीसं" ति द्वात्रिंशं शतमतराणां भवतीति शेषः / एतदुक्तं भवति–कश्चिद जन्तुः सर्वविरतिमनुपाल्य गृहीतसम्यक्त्वो वारद्वयं विजयादिगमनेन षट्षष्टिसागरोपमाणि सम्यग्दर्शनकालं प्रपूर्य मनुष्येष्वन्तर्मुहूर्त सम्यग्मिथ्यात्वमनुभूय तदन्तरितं द्वितीयं षट्षष्टिप्रमाणं सम्यग्दर्शनकालं वारत्रयमच्युतगमनेन पूरयति / तदेघमेतासां पञ्चविंशतिप्रकृतीनां सम्यक्त्वादियुक्तस्य विजयादिगमनक्रमेण द्वात्रिंशं शतं ज्ञेयम् / तदुक्तम् .. पणवीसाइ अबन्धो, उक्कोसो होइ सम्मगुणजुत्ते / बत्तीसं सयमयराण हुंति अहिया मणुस्सभवा // ( एवमेकचत्वारिंशतः प्रकृतीनां विचित्रोऽबन्धकालः प्रतिपादितः / सम्प्रति स एव यथाभूतो येषु जीवेषु भवतीत्येतदाह-"पणिदिसु" इत्यादि / 'पञ्चेन्द्रियेषु' प्रदर्शितेष्वेव नर-नारकादिषु 'अबन्धस्थितिः' अबन्धनाद्धा ‘परमा' प्रकृष्टोत्कृष्टा, न तु सर्वजीवेषु / उक्तं च___ऐयासिं पयडीणं, अबन्धकालो उ होइ सन्निस्स। उक्कोसो विन्नेओ, न उ सबजियाण एस विही ( ) // इति // 57 // . साम्प्रतं पूर्वोदितद्वात्रिंशदधिक-त्रिषष्ट्यधिक-पञ्चाशीत्यधिकाऽतरशतसङ्ख्यापूरणोपायमाह विजयाइसु गेविजे, तमाइ दहिसय दुतीस तेसहूं। पणसीइ सययबंधो, पल्लतिगं सुरविउविदुगे // 58 // "दहिसय" ति उकारलोपाद् उदधिशतं-सागरोपमशतम् , ततः प्रत्येकमुदधिशतशब्दस्य सम्बन्धः कार्यः / ततश्चायमर्थः-विजयादिषु गतस्य जीवस्येति शेषः, द्वात्रिंशमुदधिशतं भवति / तथा अवेयके विजयादिषु च गतस्य जीवस्य त्रिषष्यधिकमुदधिशतं भवति / तथा "तमाई" ति तमःप्रभायां षष्ठपथिव्यां अवेयके विजयादिषु च गतस्य जीवस्य पञ्चाशीत्यधिकमुदधिशतं भवतीत्यक्षरार्थः / भावार्थः पुनरयम्-विजय-वैजयन्त-जयन्ता-ऽपराजितसंज्ञितेषु चतुर्वपि विमानेषु मध्येऽन्यतरस्मिन् कस्मिंश्चिद् विमाने वारद्वयगमनेन एका षट्षष्टिः, ततः सम्यग्मिथ्यात्वान्तर्मुहूर्तेनान्तरिता पुनरच्युतदेवलोके वारत्रयगमनेनान्या षषष्टिः, यदाह भाष्यसुधाम्भोधिः 'दो वारे विजयाइसु, गयस्स तिन्नऽच्चुए अहव ताई। अइरेगं नरभवियं, नाणाजीवाण संबद्धा // (विशेषा० भा० गा० 436) एवं च षक्षष्टिद्वयमीलने द्वात्रिंशं शतं सागरोपमाणां विजयादिषु पर्यटतो जन्तोः सम्पघत इति / तथा लोकपुरुषस्य ग्रीवायां भवानि विमानानि ग्रैवेयकाणि तेषु अवेयकेषु, जातावेकवचनम् / कोऽर्थः ? यदा नवमप्रैवेयके एकत्रिंशत्सागरोपमरूपां स्थितिमनुभूय ततश्युतः पुनः 1 पंचविंशत्या अबन्ध उत्कृष्टो भवति सम्यक्त्वगुणयुक्त / द्वात्रिंशं शतमतराणां भवन्त्यधिका मनुष्यभवाः // 2 एतासां प्रकृतीनामबन्धकालस्तु भवति संज्ञिनः / उत्कृष्टो विज्ञेयो न तु सर्वजीवानामेष विधिः॥ 2 द्वौ वारौ विजयादिषु गतस्य प्रयोऽच्युतेऽथवा तानि। अतिरिक्तं नरभविकं नानाजीवानां सर्वादा। 3 भाग्ये तु-“सव्वदं"॥