SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः छावट्ठी अयराणं, अच्चुयए विरयनरभवंतरिओ। तिरिनरयतिगुज्जोयाण एस कालो अबंधम्मि // ( स्थावरचतुष्कं-स्थावर-सूक्ष्मा-ऽपर्याप्त-साधारणलक्षणम् , "इग" ति एकेन्द्रियजातिः, विकलाः-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियजातयः, आतपम् एतेषां द्वन्द्वः, तेषु, एतासु नवसु प्रकृतिषु पञ्चाशीत्यधिकं शतं पञ्चाशीतिशतम् “अतर" त्ति न तीर्यन्ते बहुकालतरणीयत्वाद् 'अतराणि' सागरोपमाणि, षष्ठ्यर्थे चात्र प्रथमा, यतः प्राकृते हि विभक्तीनां व्यत्ययोऽपि भवति, यदाह पाणिनिः स्वप्राकृतलक्षणे-"व्यत्ययोऽप्यासाम्" इति, तेषामतराणां "नरभवयुतं सचतुःपल्यम्" इत्यत्रापि सम्बन्धनीयम् , ततश्चतुःपल्योपमाधिकं पञ्चाशीत्यधिकं सागरोपमशतं नरभवयुतमासामबन्धस्थितिः परमा / अयमर्थः-यथा किल कश्चिद् जन्तुस्तमोऽभिधानायां षष्ठपृथिव्यां द्वाविंशतिसागरोपमाणि भवप्रत्य यादेताः प्रकृतीरबवा पर्यन्तान्तर्मुहूर्ते सम्यक्त्वमासाद्य मनुष्येषूत्पद्य देशविरतिमासाद्य चतुःपल्योपमस्थितिषु देवेषु देवत्वमनुभूयाऽप्रतिपतितसम्यक्त्व एव मनुष्येषूत्पद्य सम्पूर्ण संयमं परिपाल्य नवमौवेयक एकत्रिंशत्सागरोपमस्थितिकः सुरसद्मजन्मा समजनि, तत्र चान्तर्मुहूर्तोज़ मिथ्यात्वं जगाम, पुनरेव तत्र च वर्तमानो मिथ्यादृष्टिरपि भवप्रत्ययादेवैताः प्रकृतीन बध्नाति; तदनु पर्यन्तान्तर्मुहूर्ते सम्यक्त्वमवाप्याऽप्रतिपतितसम्यक्त्वो मनुष्येषूत्पद्य सर्वविरतिमनुपाल्य तथैव गृहीतसम्यक्त्वो वारद्वयं विजयादिगमनेन पक्षष्टिसागरोपमाणि सम्यक्त्वकालं पूरयित्वा मनुष्येष्वन्तर्मुहूर्त सम्यग्मिथ्यात्वमनुभूय तदन्तरितं द्वितीयं षट्षष्टिप्रमाणं सम्यक्त्वकालं वारत्रयमच्युतगमनेन पूरयति / तदेवं नरजन्मसहितं चतुःपल्योपमाधिकं पञ्चाशीत्यधिकं सागरोपमशतमासां स्थावरचतुष्टय-एकेन्द्रिय-विकलेन्द्रियजाति-आतपलक्षणानां नवानां प्रकृतीनां पञ्चेन्द्रियेष्वबन्धस्थितिः परमा भवति / तथा चावाचि छैट्ठीए नेरइओ, भवपञ्चयओ उ अयर बावीसं / देसविरओ उ भविउं, पलियचउकं पढमकप्पे // पुव्वुत्तकालजोगो, पंचासीयं सयं सचउपल्लं / .. आयवथावरचउविगलतियगएगिन्दिय अबंधो ( ) // इति // 56 // अपढमसंघयणागिइखगईअणमिच्छदुभगथीणतिग। निय नपु इत्थि दुतीसं, पर्णिदिसु अबंधठिइ परमा // 57 // अप्रथमशब्दस्य प्रत्येकं सम्बन्धाद् अप्रथमसंहननानि-ऋषभनाराच-नाराचा-ऽर्धनाराचकीलिका-सेवार्तसंहननलक्षणानि पञ्च, अप्रथमा आकृतयः-संस्थानानि न्यग्रोधपरिमण्डल-सादिवामन-कुब्ज-हुण्डखरूपाणि, अप्रथमखगतिः-अप्रशस्तविहायोगतिः, “अण" ति अनन्तानुबन्धिनः-क्रोध-मान-माया-लोभलक्षणाश्चत्वारः, मिथ्यात्वम् , त्रिकशब्दस्य प्रत्येकं सम्बन्धाद् दुर्भगत्रिकं दुर्भग-दुःस्वरा-ऽनादेयस्वभावम् , स्त्यानचित्रिकं-निद्रानिद्रा-प्रचलाप्रचला-स्त्यानर्द्धि 1 षष्ठ्यां नैरयिको भवप्रत्ययात् त्वतराणि द्वाविंशतिः / देशविरतस्तु भूत्वा पल्यचतुष्कं प्रथमकल्पे // पूर्वोतकालयोगः पञ्चाशीतं शतं सचतुष्पल्यम् / आतपस्थावर चतुर्विकलत्रिकैकेन्द्रियाणामबन्धः //
SR No.004335
Book TitlePancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherJain Atmanand Sabha
Publication Year1997
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy