________________ 55-56] शतकनामा पञ्चमः कर्मग्रन्थः / नरकायुःस्वरूपम् , उद्योतम् इत्येतासां सप्तप्रकृतीनाम् / किम् ? इत्याह-"नरभवजुय सचउपल्ल तेसटुं" ति नराणां-मनुष्याणां भवाः-जन्मानि नरभवास्तैर्युतं सहितं नरभवयुतं, विभक्तिलोपश्च प्राकृतत्वात् , सह चतुर्भिः पल्योपमैवर्तत इति सचतुःपल्यं “तेसटुं" ति त्रिषष्ट्यधिकं शतमतराणाम् कोऽर्थः ? नरभवयुतं चतुःपल्योपमाधिकं त्रिषष्ट्यधिकं सागरोपमशतं पञ्चेन्द्रियेषु परमाऽबन्धस्थितिरासां प्रस्तुतसप्तप्रकृतीनां भवतीति द्वितीयगाथोत्तरार्धेन सम्बन्धः कार्यः / अयमभिप्रायः—यदा किल कश्चिद् जन्तुस्विपल्योपमायुष्केषु देवकुर्वादिषु युगलधार्मिकेषु समुत्पन्नस्तत्र चैताः सप्त प्रकृतीन बध्नाति, एता हि नारक-तिर्यक्प्रायोग्या एव बध्यन्ते, युगलधार्मिकाश्च देवप्रायोग्या एव बध्नन्ति, ततः पर्यन्तान्तर्मुहूर्ते सम्यक्त्वमासाद्य पल्योपमस्थितिषु देवेषूत्पन्नस्तत्रापि सम्यक्त्वप्रत्ययादेता न बद्धवान् , ततोऽपरिपतितसम्यक्त्वो मनुष्येषूत्पद्य दीक्षामनुपाल्य नवमौवेयके त्रिदश एकत्रिंशत्सागरोपमस्थितिकः समुत्पन्नः, ततोऽन्तर्मुहूर्तावं मिथ्यात्वं जगाम, अग्रे षट्षष्टिद्वयं सम्यक्त्वकालो वक्तव्यः, स चात्र सम्यक्त्वावस्थाने सति न सङ्गच्छत इति मिथ्यात्वगमनमभिधीयते, तत्र च वर्तमानो मिथ्यादृष्टिरपि भवप्रत्ययादेवैताः प्रकृतीन बध्नाति, तदनु पर्यन्तान्तर्मुहूर्ते सम्यग्दर्शनमवाप्याप्रतिपतितसम्यक्त्वो मनुष्येषूत्पद्य सर्वविरतिं परिपाल्य तथैव गृहीतसम्यक्त्वो वारद्वयं विजयादिगमनेन षट्षष्टिसागरोपमाणि पूरयित्वा मनुष्येष्वन्तर्मुहूर्त सम्यग्मिथ्यात्वमनुभूय तदन्तरितं द्वितीयषट्षष्टिप्रमाणं सम्यग्दर्शनकालं वारत्रयमच्युतगमनेन पूरयति / इह च सम्यक्त्वात् प्रच्युतस्य मिश्रगमनं यद् उच्यते तत् कार्मग्रन्थिकाभिप्रायेण सम्मतमेवेति, सैद्धान्तिकानां तु न सम्मतमिति / उक्तं च मिच्छत्ता संकंती, अविरुद्धा होइ सम्ममीसेसु / मीसाओ वा दोसु, सम्मा मिच्छं न उण मीसं // (बृहत्क० भा० गा० 114) इति / सर्वत्र च सम्यग्दर्शन-मिश्रयोर्वर्तमान एताः प्रकृतीन बध्नातीत्यनेन क्रमेणासां तिर्यक्त्रिक-नरकत्रिक-उद्योतलक्षणसप्तप्रकृतीनां नरभवयुतं चतुःपल्योपमाधिकं त्रिषष्ट्यधिकसागरोपमशतं परमा-प्रकृष्टा पञ्चेन्द्रियेष्वबन्धस्थितिः-अबन्धकाल इति / उक्तं च पलियाई तिन्नि भोगावणिम्मि भवपच्चयं पलियमेगं / सोहम्मे सम्मत्तेण नरभवे सबविरईण // मिच्छी भवपञ्चयओ, गेविज्जे सागराइँ इगतीसं / अंतमुहुत्तूणाई, सम्मत्तं तम्मि लहिऊणं // विरयनरभवंतरिओ, अणुत्तरसुरो उ अयर छावट्ठी / मिस्सं मुहुत्तमेगं, फासिय मणुओ पुणो विरओ // 1 मिथ्यात्वात् सकान्तिरविरुद्धा भवति सम्यक्त्वमिश्रयोः / मिश्राद्वा द्वयोः सम्यक्त्वाद् मिथ्यात्वं न पुनमिश्रम् // 2 पल्यानि त्रीणि भोगावनौ भवप्रत्ययं पल्यमेकम् / सौधर्म सम्यक्त्वेन नरभवे सर्वविरत्या // मिथ्यात्वी भवप्रत्ययाद् ग्रैबेयके सागराणि एकत्रिंशत् / अन्तर्मुहुर्तोनानि सम्यक्त्वं तस्मिल्लब्ध्वा // विरतिमन्नरभवान्तरितोऽनुत्तरसुरस्त्वतराणि षट्षष्टिम् / मिश्रं मुहर्तमेकं स्पृष्ट्रा मनुष्यः पुनर्विरतः // षट्षष्टिः अतराणां अच्युते विरतिमन्नरभवान्तरितः / तिर्या-नरत्रिक-उद्योतानां एष कालोऽबन्धे / /