________________ 56 देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः पइखणमसंखगुणविरिय अपज पइठिइमंसखलोगसमा। अज्मवसाया अहिया, सत्तसु आउसु असंखगुणा // 55 // "अपज" त्ति 'अपर्याप्ताः' असमर्थितचतुर्थ्यादिपर्याप्तयो जीवा भवन्ति / किंभूताः? इत्याह'प्रतिक्षणं' प्रतिसमयं 'असङ्ख्यगुणवीर्याः' असङ्ख्यगुणयोगाः / यथोक्तम्-. संबो वि अपज्जत्तो पइखणं असंखगुणाए जोगवुड्डीए वड्डइ / ( अपर्याप्तानां योगवृद्धिमभिधाय साम्प्रतं प्राग्दर्शितानि स्थितिस्थानानि पैरध्यवसायैर्जन्यन्ते, ते एकैकस्मिन् स्थितिबन्धे जनकतया यावन्तो भवन्ति तदेतद् निरूपयन्नाह-"पइठिइमसंखलोगसमा" इत्यादि / स्थिति स्थिति प्रति प्रतिस्थिति, वीप्सायां “योग्यतावीप्सार्थानतिवृत्तिसादृश्ये" ( सिद्ध० 3-1-40 ) इत्यव्ययीभावः। ततः स्थितिबन्धे स्थितिबन्धेऽध्यवसायास्तीव-तीव्रतर-तीव्रतम-मन्द-मन्दतर-मन्दतमकषायोदयविशेषा भवन्ति / कियन्तो भवन्ति ? इत्याह—'असङ्ख्यलोकसमाः' असङ्ख्येयलोकाकाशप्रदेशप्रमाणाः / ननु किमेतेऽध्यवसायाः सर्वप्रकृतीनां सर्वस्थितिबन्धेष्वपि तुल्याः ? आहोश्चिदस्ति कश्चित् प्रतिनियतो विभागः ? इत्याह-"अहिया सत्तसु" ति 'अधिकाः' विशेषाधिकाः 'सप्तसु' आयुर्वर्जसप्तकर्मसु / इयमत्र . भावना-ज्ञानावरणस्य जघन्यस्थितावसङ्ख्येयलोकाकाशप्रदेशतुल्याः स्थितिबन्धाध्यवसायाः सर्वस्तोकाः, ततो ज्ञानावरणस्यैव द्वितीयस्थितौ विशेषाधिकाः, ततो ज्ञानावरणस्य तृतीयस्थितौ विशेषाधिकाः, ततो ज्ञानावरणस्य चतुर्थस्थितौ विशेषाधिकाः, एवं यावदुत्कृष्टस्थितौ विशेषाधिकाः / एवमायुष्कवर्जानां दर्शनावरण-वेदनीय-मोहनीय-नाम-गोत्रा-ऽन्तरायकर्मणामपि द्वितीयादिस्थितिबन्धादारभ्य विशेषाधिकत्वमध्यवसायस्थानानां तावद् नेयं यावदुत्कृष्टः स्वकीयः स्वकीयः स्थितिबन्ध इति / तायुष्केषु स्थितिबन्धे स्थितिबन्धेऽध्यवसायाः कियद्वृद्धया भवन्ति ? इत्याह--"आउसु असंखगुण" ति आयुःषु चतुर्ध्वप्यसङ्ख्यातगुणिता अध्यवसाया भवन्ति / तद्यथा-आयुष्काणां चतुर्णामपि जघन्यस्थितावसङ्ख्येयलोकाकाशप्रदेशप्रमाणा अध्यवसायाः सर्वस्तोकाः, तेषामेव द्वितीयस्थितौ अध्यवसाया असङ्ख्यातगुणाः, तेषामेव तृतीयस्थितावध्यवसाया असङ्ख्यातगुणाः, तेषामेव चतुर्थस्थितावध्यवसाया असङ्ख्यातगुणाः, एवमसङ्ख्यातगुणत्वं तावद् नेयं यावदायुषश्चरमस्थितिरिति // 55 // प्ररूपिताः स्थितिबन्धमाश्रित्य सर्वकर्मणामध्यवसायाः / सम्प्रति यासां प्रकृतीनामेकचत्वारिंशत्सङ्ख्यानां पञ्चेन्द्रियेषु यावन्तं कालमुत्कृष्टतो बन्धो न भवति तास्तत्कालमानप्रदर्शनद्वारेण गाथाद्वयेन प्रतिपादयन्नाह तिरिनरयतिजोयाणं, नरभवजुय सचउपल्ल तेसहूं। __थावरचउइगविगलायवेसु पणसीइसयमयरा // 56 // तिर्यञ्चश्च नरकाश्च तेषां “ति" ति त्रिकं तच्च “जोय" ति उद्योतं च तिर्यङ्-नरकत्रिक-उद्योतानि तेषां तिर्यङ्-नरकत्रिक-उद्योतानाम् / इह त्रिकशब्दः प्रत्येकमभिसम्बध्यते, ततस्तिर्यत्रिकं-तिर्यग्गति-तिर्यगानुपूर्वी-तिर्यगायुर्लक्षणम् , नरकत्रिकं-नरकगति-नरकानुपूर्वी 1 सर्वोऽपि अपर्याप्तः प्रतिक्षणमसंख्यगुणया योगवृद्धया वर्धते //