________________ 55 54] शतकनामा पञ्चमः कर्मग्रन्थः। -- "एव ठिइठाणा" इत्यादि / 'एवं' मकारस्य लोपः प्राकृतत्वात् पूर्वोक्तयोगप्ररूपणान्यायेन सूक्ष्मैकेन्द्रियादिजीवक्रमेणैव स्थितीनां स्थानानि स्थितिस्थानानि वाच्यानीति शेषः। तत्र जघन्यस्थितेरारभ्य एकैकसमयवृद्धया सर्वोत्कृष्टनिजस्थितिपर्यवसाना ये स्थितिभेदास्ते स्थितिस्थानान्युच्यन्ते / कथं पुनरेतानि वाच्यानि ? इत्याह-"अपजेयर संखगुण" त्ति प्रथममपर्याप्तकान् सूक्ष्मबादरैकेन्द्रियादीनुद्दिश्य वाच्यानि, ततः “इयर" त्ति पर्याप्तकान् सूक्ष्मबादरैकेन्द्रियादीनुद्दिश्य वाच्यानीति / कियद्गुणानि पुनरेतानि ? इत्याह–सङ्ख्यगुणानि, तत्र सङ्ख्यानं सङ्ख्या तामह (ती)ति सञ्जयः, दण्डादिभ्यो यः इति यप्रत्ययः, ततः सङ्ख्यः–सङ्खधेयः सङ्ख्यात इत्यर्थः गुणः-गुणकारो येषां तानि सङ्ख्यगुणानि, सङ्ख्यातगुणितानीत्यर्थः / किं सर्वपदेषु सङ्ख्यातगुणान्येव ? आहोश्चिदस्ति कस्मिंश्चित् पदे विशेषः ? इत्याह—“परमपजबिए असंखगुण" त्ति 'परं' केवलम् 'अपर्याप्तद्वीन्द्रिये' अपर्याप्तद्वीन्द्रियपदे तानि स्थितिस्थानानि 'असङ्ख्यगुणानि' असङ्ख्यातगुणितानि वाच्यानि। एतदुक्तं भवति—सूक्ष्मैकेन्द्रियस्यापर्याप्तकस्य स्थितिस्थानानि स्तोकानि 1 ततो बादरैकेन्द्रियस्यापर्याप्तकस्य स्थितिस्थानानि सङ्ख्यातगुणानि 2 ततः सूक्ष्मैकेन्द्रियस्य पर्याप्तकस्य स्थितिस्थानानि सङ्ख्यातगुणानि 3 ततो बादरैकेन्द्रियस्य पर्याप्तकस्य स्थितिस्थानानि सङ्ख्यातगुणानि, एतानि च पल्योपमासङ्ख्येयभागसमयतुल्यानि स्थितिस्थानानि भवन्ति, यत एकेन्द्रियाणां जघन्योत्कृष्टस्थित्योरन्तरालमेतावन्मात्रमेवेति 4 ततोऽपर्याप्तस्य द्वीन्द्रियस्य स्थितिस्थानान्यसङ्ख्यातगुणितानि पल्योपमसङ्ख्येयभागमात्राणीति कृत्वा 5 ततस्तस्यैव द्वीन्द्रियस्य पर्याप्तस्य स्थितिस्थानानि सङ्ख्यातगुणितानि 6 ततस्त्रीन्द्रियस्यापर्याप्तस्य स्थितिस्थानानि सङ्ख्यातगुणितानि 7 ततस्त्रीन्द्रियस्य पर्याप्तस्य स्थितिस्थानानि सङ्ख्यातगुणितानि 8 ततश्चतुरिन्द्रियस्यापर्याप्तस्य स्थितिस्थानानि सङ्ख्यातगुणितानि 9 ततः पर्याप्तचतुरिन्द्रियस्य स्थितिस्थानानि सङ्ख्यातगुणितानि 10 ततोऽसंज्ञिपञ्चेन्द्रियस्यापर्याप्तस्य स्थितिस्थानानि सङ्ख्यातगुणितानि 11 ततोऽसंज्ञिपञ्चेन्द्रियस्य पर्याप्तस्य स्थितिस्थानानि सङ्ख्यातगुणानि 12 ततः संज्ञिपञ्चेन्द्रियस्यापर्याप्तस्य स्थितिस्थानानि सङ्ख्यातगुणितानि 13 ततः संज्ञिपञ्चेन्द्रियस्य पर्याप्तस्य स्थितिस्थानानि सत्यातगुणितानि भवन्ति 14 // 54 // स्थापना सूक्ष्मैकें. अप० सूक्ष्मैके० पर्या० अप० द्वीन्द्रि० त्रीन्द्रि० अप० चरिं० अप० असंज्ञिपञ्चे० संशिपञ्चे अप० स्थिति० अप० स्थि. स्थितिस्थानानि स्थि० स्था० स्थिति. असं- स्थिति० संख्या-स्थिति संख्या संख्यातगुणानि संख्यातगुणानि स्तोकानि.१ संख्यातगुणानि३ ख्यातगुणानि 5 तगुणानि 7 | तगुणानि 9 11 / 13 बादरैकें. अप० बादरैकें. पर्याद्वीन्द्रि० पर्यात्रीन्द्रि० पर्या पर्या० चरिंअसंज्ञिपञ्चे | संज्ञिपचे.. पर्या. स्थि० पर्या० स्थि. स्थि० संख्यात-| स्थि० संख्यात- स्थिति. संख्या-स्थिति० संख्या- स्थिति संख्या संख्यातगुणानि संख्यातगुणानि गुणानि 2 | गुणानि० 4 | तगुणानि 6 | तगुणानि 8 | तगुणानि 10 12 / 14 / तदेवं निरूपितानि योगप्रसङ्गेन स्थितिस्थानानि / सम्प्रति योगप्रक्रम एवापर्याप्तावस्थायां वर्तमाना जन्तवः प्रतिसमयं यावत्या योगवृद्धया वर्धन्ते तन्निरूपणार्थमाह