________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः भवति, अनुत्कृष्टस्तु सादिः / पुनरपि जघन्यतोऽन्तर्मुहूर्तेनोत्कृष्टतस्त्वनन्तानन्ताभिरुत्सर्पिणीअवसर्पिणीभिरुत्कृष्टसंक्लेशं प्राप्य उत्कृष्टानुभागं बनतोऽनुत्कृष्टोऽत्रुवतां व्रजतीत्येवमुत्कृष्टानुस्कृष्टेषु जन्तवो भ्राम्यन्तीत्युभयत्र साद्यध्रुवतैव सम्भवति, नेतरविकल्पद्वयमिति / तथा 'गोत्रे' गोत्रकर्मणि 'द्विविधः' अजघन्योऽनुत्कृष्टश्च तद्वन्धः साद्यादिचतुर्विकल्पो भवति / तथा “सेसम्मि दुह" ति शेषे' भणितोद्धरिते जघन्योत्कृष्टभेदद्वये 'द्विधा' द्विविकल्पः साबध्रुवरूपो भवति / तत्रोत्कृष्टा-ऽनुत्कृष्टावनुभागबन्धौ यथाक्रमं द्वि-चतुर्विकल्पौ यथा वेदनीय-नाम्नोस्तथा निर्विशेष भावनीयौ / इदानीं जघन्या-ऽजघन्यौ भाव्यते-तत्र कश्चित् सप्तमनरकपृथिवीनारकः सम्यक्त्वाभिमुखो यथाप्रवृत्तादीनि त्रीणि करणानि कृत्वा मिथ्यात्वस्यान्तरकरणं करोति, तस्मिंश्च कृते मिथ्यात्वस्य स्थितिद्वयं भवति-अन्तर्मुहूर्तप्रमाणाऽधस्तनी शेषा तूपरितनी, स्थापना BI तत्र चाधस्तनी स्थिति प्रतिसमयं वेदयन् यस्मादनन्तरसमये सम्यक्त्वं प्राप्स्यति, तत्र चरमसमये वर्तमानो नीचैर्गोत्रमाश्रित्य गोत्रकर्मणो जघन्यानुभागं बध्नाति / अन्यस्थानवर्ती घेतावत्यां विशुद्धौ वर्तमान उच्चैर्गोत्रमजघन्यानुभागान्वितं बनीयादिति शेषपरिहारेण सप्तमपृ. थिवीनारकस्य ग्रहणम् / अयं हि यावत् किश्चिदपि मिथ्यात्वमस्ति तावद् भवप्रत्ययेनैव तिर्यक्प्रायोग्यं नीचैर्गोत्रं च बध्नाति / तच्चान्यदा बहुमिथ्यात्वावस्थायामजघन्यरसं निवर्तयति, प्राप्तसम्यक्त्वोऽप्युच्चैर्गोत्रस्याजघन्यानुभागं बध्नातीति तद्वन्धकेष्वतिविशुद्धत्वाद् यथोक्तविशेषणविशिष्टस्य सम्यक्त्वाभिमुखस्य ग्रहणम् / अयं च जघन्यानुभागस्तत्प्रथमतया बध्यमानत्वात् सादिः, लब्धसम्यक्त्वस्तु स एवोच्चैर्गोत्रमाश्रित्य अजघन्यानुभागं रचयतीति जघन्योऽध्रुवः, अजघन्यानुभागस्तु सादिः, तच्च स्थानमप्राप्तपूर्वस्यानादिः, अभव्यानां ध्रुवः, भव्यानामध्रुव इति जघन्या-ऽजघन्यानुभागौ गोत्रकर्मणो,यथोक्तद्वि-चतुर्विकल्पाविति / . "सेसम्मि दुह" ति शेषे' भणितमूलप्रकृत्युत्तरप्रकृतिभ्योऽवशिष्टे आयुर्षि नारक-तिर्यङ्मनुष्य-देवायुर्मेदाच्चतुर्विधे जघन्या-ऽजघन्य-उत्कृष्टा-ऽनुत्कृष्टानुभागबन्धचतुष्केऽपि 'द्विधा' द्विप्रकारः सादि-अध्रुवबन्धलक्षणो बन्धो भवति / तथाहि-अनुभूयमानायुत्रिभागादौ प्रतिनियतकाल एवायुषो बध्यमानत्वात् सादित्वात् तदनुभागस्यापि जघन्यादिरूपस्य सादित्वम् , अन्तर्मुहूर्ताच परत आयुर्बन्धोऽवश्यमुपरमत इति तस्याध्रुवत्वात् तदनुभागबन्धस्याप्यध्रुवत्वमिति / भाविता अनुभागबन्धमाश्रित्य मूलोत्तरप्रकृतीराश्रित्य भङ्गका इति। अनुभागबन्धः समाप्तः // 74 // ___ सम्प्रति प्रदेशबन्धस्यावसरः, ते च प्रदेशाः कर्मवर्गणास्कन्धानां सम्बन्धिनोजीवेन आत्मसात् क्रियन्ते, अतः कर्मवर्गणास्वरूपं वक्तव्यम् / तञ्च प्राचीनवर्गणास्वरूपे निगदिते सति ज्ञातुं शक्यम् , अतः प्रसङ्गतः शेषवर्गणास्वरूपमपि निगदनीयम् / शेषाः पुनरौदारिकाद्याः, ताश्च ग्रहणप्रायोग्या-ऽग्रहणप्रायोग्यभेदाद् द्विधा, अत एकाणुक-द्वयणुकादिस्कन्धनिष्पन्ना अग्रहणवर्गणाद्याः कर्मवर्गणावसाना वर्गणाः सजातीयद्रव्यसमुदायरूपा निरूपयन्नाहसेसम्मि दुहा (अनुभागबन्धः) इगदुगणुगाइ जा अभवणंतगुणियाणू। खंधा उरलोचियवग्गणा उ तह अगहणंतरिया // 7 // .. "सेसम्मि दुह" ति पदं अनुभागबन्धाधिकारे बहुभिः प्रकारैर्व्याख्यातमित्यनुभागबन्धः