________________ 52 देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [ गाथाः सुहुमनिगोयाइखणऽप्पजोग वायरयविगलअमणमणा। अपन लहु पढमदुगुरु, पज हस्सियरो असंखगुणो॥५३ // इह योगो वीर्य स्थाम इत्यादि पर्यायाः / तथा चाह जोगो विरियं थामो, उच्छाह परक्कमो तहा चिट्ठा / सत्ती सामत्थं चिय, जोगस्स हवंति पज्जाया // ( पञ्चसं० गा० 396) स च योगस्त्रिधामनोयोगो वाग्योगः काययोगश्चेति / उक्तं च कर्मप्रकृती परिणामा-ऽऽलंबण-गहणसाहणं तेण लद्धनामतिगं / कज्जब्भासा-ऽन्नुन्नप्पवेसविसमीकयपएसं // ( गा० 4) अस्या अक्षरगमनिका—परिणमनं परिणामः, अन्तर्भूतणिगर्थाद् घञ्प्रत्ययः, परिणामापादनमित्यर्थः, आलम्ब्यत इत्यालम्बनं भावेऽनट्प्रत्ययः, गृहीतिम्रहणम् , तेषां साधनं साध्यतेऽनेनेति साधनं योगसंज्ञं वीर्य “करणाधारे" (सिद्ध० 5-3-129) इत्यनट्प्रत्ययः / तथाहि—'तेन' वीर्यविशेषेण योगसंज्ञितेनौदारिकादिशरीरप्रायोग्यान् पुद्गलान् प्रथमतो गृहाति, गृहीत्वा च प्राणा-ऽपानादिरूपतया परिणमयति, परिणमय्य च तन्निसर्गहेतुसामर्थ्यविशेषसिद्धये तानेव पुद्गलानवलम्बते, यथा मन्दशक्तिः कश्चिन्नगरे परिभ्रमणाय यष्टिमवलम्बते, ततस्तदवष्टम्भतो जातसामर्थ्यविशेषः सन् तान् प्राणा-पानादिपुद्गलान् विसृजतीति परिणामा-ऽऽलम्बन-ग्रहणसाधनं वीर्यम् / तेन च वीर्येण योगसंज्ञकेन मनोवाक्कायावष्टम्भतो जायमानेन “लद्धनामतिगं" ति लब्धं नामत्रिक मनोयोगो वाग्योगः काययोग इति / तत्र मनसा करणभूतेन योगो मनोयोगः, वाचा योगो वाग्योगः, कायेन योगः काययोगः / स्यादेतत् सर्वेषु जीवप्रदेशेषु तुल्यक्षायोपशमिक्यादिलब्धिमावेऽपि किमिति क्वचित् स्तोकं क्वचित् प्रभूतं क्वचित् स्तोकतरमित्येवंवैषम्येण वीर्यमुपलभ्यते? इत्यत आह-“कज्ज" इत्यादि। यदर्थ चेष्टते तत् कार्यं तस्याभ्याशः-अभ्यशनमभ्याशः “अशूट व्याप्तो" इत्यस्याभिपूर्वस्य घअन्तस्य प्रयोगः, कार्याभ्याशः-कार्यास्यासन्नता निकटीभवनमित्यर्थः, तथा जीवप्रदेशानामन्योऽन्यं-परस्परं प्रवेशः-शृङ्खलावयवानामिव परस्परं सम्बन्धविशेषः, ताभ्यां कृत्वा विषमीकृताः-सुप्रभूता-ऽल्पा-ऽल्पतरसद्भावतो विसंस्थुलीकृताः प्रदेशा येन वीर्येण तत् कार्याभ्याशा-ऽन्योन्यप्रवेशविषमीकृतप्रदेशम् / तथाहि—येषामात्मप्रदेशानां हस्तादिगतानामुत्पाट्यमानघटादिलक्षणकार्यनैकट्यं तेषां प्रभूततरा चेष्टा, दूरस्थानामसादिगतानां स्वल्पा, दूरतरस्थानां तु पादादिगतानां स्वल्पतरा, अनुभवसिद्धं चैतत्, अपि च लोष्टादिना निर्घाते सति यद्यपि सर्वप्रदेशेषु युगपद वेदनोपजायते तथापि येषामात्मप्रदेशानामभिघातकलोष्टादिद्रव्यनैकट्यं तेषां तीव्रतरा वेदना, शेषाणां तु मन्दा मदन्तरा; तथेहापि जीवप्रदेशेषु परिस्पन्दात्मकं वीर्यमुपजायमानं कार्यद्रव्याभ्याशवशतः केषुचित् प्रभूतमन्येषु मन्दमपरेषु मन्दतमं 1 योगो वीर्य स्थाम उत्साहः पराक्रमस्तथा चेष्टा / शक्तिः सामर्थ्य चैव योगस्य भवन्ति पर्यायाः / / 2 कर्मप्रकृतिवृत्ती तु-हाति गृहीत्वा चौदारिकादिरूपतया परिणमयति. तथा प्राणा-ऽपान-भाषा-मनोयोम्यान् पुगलान् प्रथमतो गृह्णाति गृ' इत्येवंरूपः पाठः // 3 °कं / तद्यथा-मनो° इति कर्मप्रकृतिवृत्तौ // 4 कर्मप्रकृतिवृत्तौ तु-शाः जीवप्रदेशा यने जीववी इत्येवंरूपः पाठः //