________________ शतकनामा पञ्चमः कर्मग्रन्थः। ततश्चायं प्रस्तुतार्थः—सर्वासामपि प्रकृतीनां ज्येष्ठा स्थितिरशुभा, यस्मात् साऽतिसंक्लेशेनात्यन्ततीव्रकषायोदयेन बध्यते / एतदुक्तं भवति–सर्वासां शुभानामशुभानां च प्रकृतीनां स्थितयः संक्लेशवृद्धौ वर्धन्ते तदपचये तु हीयन्त इत्यन्वय-व्यतिरेकाभ्यां संक्लेशमेव स्थितयोऽनुवर्तन्ते इत्यशुभाः, अशुभकारणनिष्पन्नत्वात् , अशुभवृक्षाशुभफलवत् / नन्वेवं तर्हि "ठिइ अणुभागं कसायओ कुणइ” (शत० गा० 99) इति वचनाद् अनुभागोऽपि कषायप्रत्यय एव, ततोऽयमप्यशुभकारणत्वाद् अशुभ एव प्रामोति, अथ च शुभप्रकृतीनामसौ शुभ एवेष्यत इति, नैवम् , अभिप्रायापरिज्ञानात् , यतः सत्यपि हि कषायजन्यत्वे कषायवृद्धावनुभागोऽशुभप्रकृतीनामेव वर्धते शुभानां तु परिहीयत एव, कषायमन्दतया तु शुभप्रकृतीनामेवानुभागो वर्धतेऽशुभप्रकृतीनां तु हीयत इति न कषायमनुवर्तते / स्थितयस्तु शुभानामशुभानां च प्रकृतीनां कषायवृद्धौ नियमाद् वर्धन्ते तदपचये त्वपचीयन्त इत्येकान्तेन कषायान्वय-व्यतिरेकानुविधायित्वाद् अशुभा एवेति। यदि वा यथा यथा शुभप्रकृतीनां स्थितिवर्द्धते तथा तथा शुभानुभागस्तत्सम्बन्धी हीयते, परिगालितरसेक्षुयष्टिकल्पानि शुभकमाणि भवन्तीत्यर्थः, अशुभप्रकृतीनां तु स्थितिवृद्धावशुभरसोऽपि तत्सम्बन्धी वर्धत एवेत्यतोऽपि कारणात् स्थितीनामेवाशुभत्वम् , तद्वृद्धेः शुभानुभागक्षयहेतुत्वाद् अशुभानुभागवृद्धिहेतुत्वाच्चेति / ननु ज्येष्ठा स्थितिः संक्लेशेन बध्यते, जघन्या तु किंप्रत्यया ? इत्याह-"इयरा विसोहिओं पुण" त्ति 'इतरा' जघन्या पुनः 'विशोधितः' विशुद्धया कषायापचयरूपया बध्यते / इदमुक्तं भवति–इह ये ये विवक्षितमूलोत्तरप्रकृतीनां बन्धकास्तेषां मध्ये यो यः सर्वोत्कृष्टविशुद्धियुक्तः स तत्तद्विवक्षितकर्मस्थिति जघन्यां बनातीति भावः / किं सर्वप्रकृतीनामयमेव न्यायः ? यदुतोत्कृष्टा स्थितिः संक्लेशेनैव बध्यते अशुभा च भवति, जघन्या पुनर्विशुद्धयैव !, न,इत्याह---"मुत्तुं नरअमरतिरियाउं" ति आयुःशब्दस्य प्रत्येकं सम्बन्धात् 'मुक्त्वा' त्यक्त्वा नरायुरमरायुस्तिर्यगायुः / अयमर्थः—नरा-ऽमर-तिर्यगायुषां स्थिति मुक्त्वा शेषस्थितीनामेवाऽशुभत्वं द्रष्टव्यम् , एतस्थितिः पुनः शुभैव भवतीत्यर्थः, विशुद्धिलक्षणस्य तत्कारणस्य शुभत्वात् / मनुष्य-तिर्यगायुषोर्हि वृद्धिस्त्रिपल्योपमावसाना, देवायुषस्तु वृद्धिस्त्रयस्त्रिंशत्सागरोपमावसानाऽपि शुभा, विशुद्धिलक्षणस्य तत्कारणस्य शुभत्वात् , विशुद्धितारतम्यादेव च भवति; अतो मनुष्यतिर्यग्-देवायुःस्थितिः शुभा, शुभकारणप्रभवत्वात् , शुभद्रव्यनिष्पन्नघृतपूर्णादिद्रव्यवदिति। अथवा प्रस्तुतायुष्कत्रयस्थितिवृद्धौ रसोऽपि वर्धते, स च शुभः, सुखजनकत्वाद् इत्यतोऽपि प्रस्तुतायुष्कस्थितेः शुभत्वम् , तद्वृद्धेः शुभरसवृद्धिहेतुत्वात् / किञ्च नरा-ऽमर-तिर्यगाऽऽयुर्लक्षणं प्रकृतित्रयं मुक्त्वा शेषप्रकृतीनां प्रकृष्टसंक्लेशविशुद्धिभ्यां स्थित्युपचया-ऽपचयौ द्रष्टव्यौ, प्रस्तुतायुस्त्रयस्य तु तद्वन्धकेषु सर्वोत्कृष्टविशुद्धिरुत्कृष्टस्थितिबन्धं करोति, सर्वजसंक्लिष्टस्तु सर्वजघन्यमिति विपरीतं तद् द्रष्टव्यमिति // 52 // सर्वप्रकृतीनामुत्कृष्टा स्थितिरुत्कृष्टसंक्लेशेन कषायरूपेण बध्यत इत्युक्तम् , न च केवलकषायेण स्थितिबध्यते, किं तर्हि ? योगसहचरितेन, अतस्तं योगं सर्वजीवेष्वल्पबहुत्वद्वारेण चिन्तयन्नाह१सं० 1-2 त० °परीतं द्रष्ट° //