________________ 53-54] शतकनामा पञ्चमः कर्मग्रन्थः। भवति / एतच्चैवं जीवप्रदेशानां परस्परं सम्बन्धविशेषे भवति नान्यथा, यथा शृङ्खलावयवानाम् / तथाहि तेषां शृङ्खलावयवानां परस्परं सम्बन्धविशेषे सति एकस्मिन्नवयवे परिस्पन्दमानेऽपरेऽध्यवयवाः परिस्पन्दन्ते, केवलं केचित् स्तोकमपरे तु स्तोकतरमिति; सम्बन्धविशेषाभावे त्वेकस्मिंश्चलति नापरस्यावश्यम्भावि चलनम् , यथा गो-पुरुषयोः / तस्मात् कार्यद्रव्याभ्याशवशतो जीवप्रदेशानां परस्परं सम्बन्धविशेषतश्च वीर्य जीवप्रदेशेषु केषुचित् प्रभूतमन्येषु स्तोकमपरेषु तु स्तोकतरमित्येवं वैषम्येणोपजायमानं न विरुध्यत इत्यलं विस्तरेण // . प्रकृतं प्रस्तुमः-तत्र सूक्ष्मनिगोदस्य-सूक्ष्मसाधारणस्य लब्ध्यपर्याप्तकस्य सर्वजघन्यवीर्यस्येति च सामर्थ्याद् दृश्यम् , तस्यैव सर्वजघन्ययोगस्य प्राप्यमाणत्वाद, आदिक्षणः-प्रथमोत्पत्तिसमयः सूक्ष्मनिगोदादिक्षणस्तत्र, सप्तम्येकवचनलोपश्च प्राकृतत्वात् / किम् ? इत्याह-"अप्पजोग" ति अल्पः-सर्वस्तोको योगः-वीर्य व्यापार इति यावत् / ततो बादरस्य “विगल" त्ति विकलत्रिकस्य "अमण" त्ति असंज्ञिनः “मण" त्ति संज्ञिनः “अपज्ज" त्ति प्रत्येकं सम्बन्धात् सूक्ष्मादीनां सप्तानामप्यपर्याप्तानां “लहु" त्ति जघन्यो योगोऽसङ्घयेयगुणो वाच्यः, आदिक्षण इत्यपि सर्वत्र वाच्यम्, ततः प्रथमद्विकस्य-अपर्याप्तसूक्ष्मनिगोद-बादरलक्षणस्य 'गुरुः' उत्कृष्टो योगोऽसज्यगुणो वाच्यः / ततः प्रथमद्विकस्य “पज हस्सियरो असंखगुणो" त्ति पर्याप्तस्य ह्रस्वःजघन्य इतरः-उत्कृष्टयोगो यथाक्रममसङ्ख्येयगुणो वाच्य इति गाथाक्षरार्थः / भावार्थस्त्वयम्सूक्ष्मनिगोदस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगः सर्वस्तोकः 1 ततो बादरैकेन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसङ्ख्येयगुणः 2 ततो द्वीन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसङ्ख्येयगुणः 3 ततस्त्रीन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसङ्ख्येयगुणः 4 ततश्चतुरिन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसङ्ख्येयगुणः 5 ततोऽसंज्ञिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसङ्ख्येयगुणः 6 ततः संज्ञिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसङ्ख्येयगुणः 7 ततः सूक्ष्मनिगोदस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसङ्ख्येयगुणः 8 ततो बादरैकेन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसङ्ख्येयगुणः 9 ततः सूक्ष्मनिगोदस्य पर्याप्तकस्य जघन्यो योगोऽसङ्ख्येयगुणः 10 ततो बादरैकेन्द्रियस्य पर्याप्तकस्य जघन्यो योगोऽसङ्ख्येयगुणः 11 ततः सूक्ष्मनिगोदस्य पर्याप्तकस्योत्कृष्टो योगोऽसङ्ख्येयगुणः 12 ततो बादरैकेन्द्रियस्य पर्याप्तकस्योत्कृष्टो योगोऽसहोयगुणः 13 // 53 // . असमत्ततसुकोसो, पन्ज जहन्नियरु एव ठिइठाणा। अपजेयर संखगुणा, परमपजबिए असंखगुणा // 54 // असमाप्ताः-अपर्याप्तास्ते च ते त्रसाश्च द्वीन्द्रियादयोऽसमाप्तत्रसाः-अपर्याप्तद्वि-त्रि-चतुरिन्द्रिया-ऽसंज्ञि-संज्ञिपञ्चेन्द्रियास्तेषामुत्कृष्टोऽसमाप्तत्रसोत्कृष्टोऽसङ्ख्येयगुणो वाच्यः / अयमर्थःपर्याप्तबादरैकेन्द्रियोत्कृष्टयोगाद् द्वीन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसङ्ख्येयगुणः 14 -- 1 °न्धविशेष सति भव' इति कर्मप्रकृतिवृत्तौ //