________________ कर्मविपाकनामा प्रथमः कर्मग्रन्थः / / .. तथा न प्रतिपाति अप्रेतिपाति, यत् किलाऽलोकल प्रदेशमेकमपि पश्यति तद् अप्रतिपातीति भावः 6 / हीयमानकप्रतिपातिनोः कः प्रतिविशेषः / इति चेद् उच्यते-हीयमानकं पूर्वावस्थातोऽधोऽधो हासमुपगच्छदभिधीयते, यत् पुनः प्रदीप इव निर्मूलमेककालमपगच्छति तत् प्रतिपातीति। यद्वाऽनन्तद्रव्यभावविषयत्वात् तत्तारतम्यविवक्षयाऽनन्तभेदम् , असयक्षेत्रकालविषयत्वात्तु तत्तारतम्यविवक्षयाऽसङ्ख्येय मैदमवधिज्ञानम् / यद्वा चतुर्विधमवधिज्ञानं द्रव्यक्षेत्रकालभावात् / तथा चाह 'तं समासओ चउविहं पन्नतं, तं जहा-दवओ खेतो कालओ भावओ / दबओ णं ओहिनाणी जहन्नेणं अणंताई रूविदवाई जाणइ पासइ, उक्कोसेणं सवरूविदवाई जाणइ पासइ / खित्तओ णं ओहिनाणी जहन्नेणं अंगुलस्स असंखेजहभागं, उक्कोसेणं असंखेजाई अलोए लोयप्पमाणमित्ताई खंडाइं जाणइ पासह / कालओ णं ओहिनाणी जहन्नेणं आवलियाए असंखिजइभाग, उक्कोसेणं असंखिज्जाओ उस्सप्पिणीओसप्पिणीओ तीयं च अणागयं च कालं जाणइ पासइ / भावओ णं ओहिनाणी जहन्नण वि अणंते भावे जाणइ पासइ, उक्कोसेण वि अणते भावे जाणइ पासइ सबभावाणं अणंतभागं / (नन्दी पत्र 97-1) इति / / उक्तमवधिज्ञानम् / इदानीं मनःपर्यवज्ञानं व्याख्यानयन्नाह-"रिउमइ विउलमई मणनाणं"ति। मनोज्ञानं' मनःपर्यायज्ञानमित्यर्थः, ऋजुमतिविपुलमतिमैदाविविधम् / तत्र ऋज्वीसामान्यप्राहिणी मतिः ऋजुमतिः, घटोऽनेन चिन्तित इत्यध्यवसायनिबन्धना मनोद्रव्यपरिच्छितिरित्यर्थः / यदाह रिउ सामन्नं तम्मत्तगाहिणी रिउमई मणोनाणं / पायं विसेसविमुहं, घडमित्तं चिंतियं मुणइ // (विशे० गा० 784) ... तथा विपुला-विशेषग्राहिणी मतिर्विपुलमतिः, घटोऽनेन चिन्तितः स च सौवर्णः पाटलिपुत्रकोऽद्यतनो महानित्याद्यध्यवसायहेतुभूता मनोद्रव्यविज्ञप्तिरिति भावार्थः, अस्यां व्युत्पत्ती खतनं ज्ञानमेव गृह्यत इति / अथवा ऋज्वी-सामान्यग्राहिणी मतिरस्यासौ ऋजुमतिः / विपुलाविशेषग्राहिणी मतिरस्य स विपुलमतिः, अस्यां व्युत्पत्तौ तद्वान् गृह्यते / यद्वा मनःपर्यायज्ञानं चतुर्विधम्-द्रव्यक्षेत्रकालभाव भेदात् / उक्तं च तं समासओ चउबिहं पन्नतं, तं जहा–दवओ खित्तओ कालओ भावओ / दवओ णं १तत् समासतश्चतुर्विधं प्रज्ञप्तम् , तद्यथा-व्यतः क्षेत्रतः कालतो भावतः / द्रव्यतोऽवधिज्ञानी जघन्येनामम्तानि सपिदव्याणि जानाति पश्यति, उत्कर्षेण सर्वकपिद्रव्याणि जानाति पश्यति / क्षेत्रतोऽवधिज्ञानी जघन्येमाहुलस्थासङ्ग्येयभागम् , उत्कर्षेणाऽसहययानि अलोके लोकप्रमाणमात्राणि खण्डानि जानाति पश्यति / कालतो. बधिज्ञानी जघन्येनाऽऽवलिकाया असलयेयभागम् , उत्कर्षेणाऽसोया उत्सर्पिण्यवसर्पिणीः अतीतं चानागतं च कालं जानाति पश्यति / भावतोऽवधिज्ञानी जघन्येनाप्यनन्तान् भावान् जानाति पश्यति, उत्कर्षेणापि अनम्तान् भावान् जानाति पश्यति सर्वभावानामनम्तभागम् // 2 ऋजु सामान्य तन्मात्रप्राहिणी ऋजुमतिर्मनोज्ञानम् / प्रायो विशेषविमुखं, घटमात्र चिन्तितं जानाति // 3 तत् समासतश्चतुर्विधं प्रज्ञप्तम् , तद्यथा-द्रव्यतः क्षेत्रत: कालतो भाक्तः। द्रव्यत ऋजुमतिरनन्ताननन्तप्रदेशिकान् स्कन्धान जानाति पश्यति / तानेव विपुलमतिरभ्य. धिकतरान् विमलतरान् जानाति पश्यति //