________________ 174 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा वणस्सइकाइयाणं अकाइयाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ! गोयमा! सबत्योवा तसकाइया, तेउकाइया असंखिजगुणा, पुढविकाइया विसेसाहिया, आउकाइया विसेसाहिया, वाउकाइया विसेसाहिया, अकाइया अणंतगुणा, वणस्सइकाइया अणंतगुणा / (प्रज्ञा० पद 3 पत्र 122-2) अन्यत्राप्युक्तम् थोवा य तसा तत्तो, तेउ असंखा तो विसेसहिया / ___ कमसो भूदगवाऊ, अकायहरिया अणंतगुणा // (जीवस० गा० 276) "अकाय" ति सिद्धाः / तेभ्यो वायुकायिकेभ्यः “वणणंत" ति वनस्पतिकायिका अन्तगुणाः, अनन्तलोकाकाशप्रदेशप्रमाणत्वाद् वनस्पतिकायिकानामिति // 38 // सम्प्रति योगेषु वेदेषु अल्पबहुत्वं प्रचिकटयिषुराह मणवयणकायजोगी, थोवा अस्संखगुण अणंतगुणा / पुरिसा थोवा इत्थी, संखगुणाऽणंतगुण कीवा // 39 // . . . * मनोयोगिनः स्तोकाः, संज्ञिपञ्चेन्द्रियाणामेव मनोयोगित्वात्। तेभ्यो वाग्योगिनोऽसङ्ख्यातगुणाः, द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियाणां वाम्योगिनां मनोयोगिभ्योऽसश्यातगुणानां तत्र प्रक्षेपात् / वाग्योगिभ्योऽपि काययोगिनोऽनन्तगुणाः, वनस्पतिकायिकानामप्यनन्तानां तत्र प्रक्षेपादिति / आह च ऐएसि णं भंते ! जीवाणं सजोगीणं मणजोगीणं वइजोगीणं कायजोगीणं अजोगीण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सबत्योवा मणजोगी, वइजोगी असंखेजगुणा, अजोगी अणंतगुणा, कायजोगी अणंतगुणा, सजोगी विसेसाहिया / __ (प्रज्ञा० पद 3 पत्र 134-1) तथा ख्यादिभ्यः पुरुषाः स्तोकाः / तेभ्यः स्त्रियः सङ्ख्यातगुणाः / उक्तं च तिगुणा तिरूवअहिया, तिरियाणं इत्थिया मुणेयथा / सत्तावीसगुणा पुण, मणुयाणं तदहिया चेव // बत्तीसगुणा बत्तीसरूवअहिया उ तह य देवाणं / देवीओ पन्नता, जिणेहिं जियरागदोसेहिं // (प्रवच० गा० 883-884) __ स्त्रीभ्यश्च 'क्लीबाः' नपुंसका अनन्तगुणाः, अनन्तगुणता च वनस्पत्यपेक्षया द्रष्टव्या। उक्तं च 1 स्तोकाच प्रसास्ततस्तेजस्कायिका असङ्ख्येयगुणास्ततः विशेषाधिकाः / क्रमशो भूदकवायवोऽकायवनस्पतिकायिका अनन्तगुणाः॥ 2 एतेषां भदन्त ! जीवानां सयोगिनां मनोयोगिनां वाग्योगिनां काययोगिनामयोगिनां च कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा? गौतम! सर्वखोका मनोयोगिनः, वाग्योगिनोऽसङ्ख्येयगुणाः, अयोगिनोऽनन्तगुणाः, काययोगिनोऽनन्तगुणाः, सयोगिनो विशेषा. धिकाः॥ 3 त्रिगुणास्त्रिरूपाधिकास्तिरश्चां स्त्रियो ज्ञातव्याः / सप्तविंशतिगुणाः पुनर्मनुजानां तदधिका एवं 'सप्तविंशत्यधिका एवेत्यर्थः // द्वात्रिंशद्गुणा द्वात्रिंशद्रपाधिकास्तु तथा च देवेभ्यः / देव्यः प्रज्ञप्ता जिनैर्जितरागदोषैः॥