SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ 28] षडशीतिनामा चतुर्थः कर्मग्रन्थः / 173 ऊर्ध्वाधआयता एकप्रादेशिक्यः श्रेणयोऽसङ्ख्यातयोजनकोटीकोटीप्रमाणाकाशप्रदेशसूचिगतप्रदेशराशिप्रमाणास्तासां यावान् प्रदेशराशिस्तावत्प्रमाणा द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियतिर्यग्योनिपञ्चेन्द्रिया अविशेषेण सूत्रे निर्दिष्टाः, तथा चोक्तं तत्र यथोक्तरूपद्वीन्द्रियपरिमाणाभिधानानन्तरम्-- जह बेइंदियाणं तहा तेइंदियाणं चउरिंदियाण वि भाणियवं पंचिंदियतिरिक्खजोणियाण वि। ( अनुयो० पत्र 204-1) इति / ___ तथापि सूचिपरिमाणहेतुयोजनगतासङ्ख्यातरूपसङ्ख्याया बहुभेदत्वान्न यथोक्तविशेषाधिकत्वाभिधानव्याघातः / अत एव च हेतोस्तिर्यग्योनिपञ्चेन्द्रियेषु द्वीन्द्रियादितुल्यतया सूत्रेऽभिहितेष्वपि तत्रापि नरनिरयदेवप्रक्षेपेऽपि पञ्चेन्द्रियाश्चतुरिन्द्रियादिभ्यः स्तोका एव द्रष्टव्याः / यदभ्यधायि . 'पंचिंदिया य थोवा, विवजएण वियला विसेसहिया / (जीवस० गा० 275) द्वीन्द्रियेभ्योऽपि चैकेन्द्रिया अनन्तगुणाः, वनस्पतिकायजीवराशेरनन्तानन्तत्वात् / यदुक्तमा एएसि णं भंते ! एगिदियबेंदियतेइंदियचउरिंदियपंचिंदियाण य कयरे कयरेहिंतो अप्पा वा बहुआ वा विसेसाहिया वा ? गोयमा ! सवत्थोवा पंचिंदिया, चरिंदिया विसेसाहिया, तेंदिया विसेसाहिया, बेइंदिया विसेसाहिया, एगिदिया अणंतगुणा / (प्रज्ञापनापद 3 पत्र 120-2) "तस थोव" इत्यादि / 'त्रसाः' द्वीन्द्रियादयः पूर्वनिर्दिष्ट सङ्ख्यास्तेजस्कायिकादिभ्यः स्तोकाः / तेभ्यस्त्रसेभ्योऽसङ्ख्यातगुणाः “अग्गि" ति अनिकायिकाः, तेषां सूक्ष्मबादरभेदभिन्नानामसङ्येयलोकाकाशप्रदेशराशिप्रमाणत्वात् / तेभ्यः "भू" ति पृथिवीकायिका विशेषाधिकाः / तेभ्यः "जल" ति अप्कायिका विशेषाधिकाः / तेभ्यः "अनिल" ति वायुकायिका विशेषाधिकाः / यद्यपि च एतेषामपि पृथिवीकायिकादीनामसङ्ख्येयलोकाकाशप्रदेशराशिप्रमाणतया सूत्रे अविशेषेण निर्देशः कृतः, तथा चोक्तम् ___ जैहा पुढविकाइयाणं एवं आउकाइयाणं पि / (अनु० पत्र 202-1) इत्यादि / तथापि लोकानामसङ्ख्यातत्वस्याऽनेकभेदभिन्नत्वादिहैवं विशेषाधिकत्वाभिधानेऽपि न कश्चिदोषः / उक्तं च श्रीप्रज्ञापनायाम्"ऐएसि णं भंते ! तसकाइयाणं पुढविकाइयाणं आउकाइयाणं तेउकाइयाणं वाउकाइयाणं यथा द्वीन्द्रियाणां तथा त्रीन्द्रियाणां चतुरिन्द्रियाणामपि भणितव्यं पञ्चेन्द्रियत्तिर्यग्योनिकानामपि // 2 पञ्चेन्द्रियाश्च स्तोका विपर्ययेण विकला विशेषाधिकाः॥ 3 एतेषां भदन्त। एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपश्चन्द्रियाणां च कतरे कतरेभ्योऽल्पा वा बहुका वा विशेषाधिका वा! गौतम ! सर्वस्वोकाः पश्चेन्द्रियाः, चतुरिन्द्रिया विशेषाधिकाः, त्रीन्द्रिया विशेषाधिकाः, द्वीन्द्रिया विशेषाधिकाः, एकेन्द्रिया अनन्तगुणाः॥ 4 यथा पृथ्वीकायिकानामेवमप्कायिकानामपि // 5 एतेषां भदन्त! सकायिकानां पृथ्वीकायिकानामप्कायिकानां तेजस्कायिकानां वायुकायिकानां वनस्पतिकायिकानामकायिकानां च कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा? गौतम। सर्वस्वोकास्त्रसकायिकाः, तेजस्कायिका असल्येयगुणाः. पृथ्वीकायिका विशेषाधिकाः, अप्कायिका विशेषाधिकाः, वायुकायिका विशेषाधिकाः, अकायिका अनन्तगुणाः. वनस्पतिकायिका अनन्तगुणाः॥
SR No.004334
Book TitleChatvar Karmgranth
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherJain Atmanand Sabha
Publication Year1997
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy