________________ 170 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा प्रदेशपरिमाणोऽप्यसत्कल्पनया षट्पञ्चाशदधिकशतद्वयपरिमाणः करप्यते 256; अत्र प्रथम वर्गमूलं षोडश 16, द्वितीयं वर्गमूलं चत्वारि 4, तृतीयं वर्गमूलं द्वे 2; तत्र प्रथमवर्गमूलं षोडशलक्षणं तृतीयवर्गमूलेन गुणितं जाता द्वात्रिंशत् 32, एवमेते नमःप्रदेशाः सद्भावतोऽसज्येया अप्यसत्कल्पनया द्वात्रिंशत्सङ्ख्याः परिग्राह्याः। ततः श्रेणेमध्याद् यथोक्तप्रमाणं द्वात्रिंशत्यदेशप्रमाणमित्यर्थः क्षेत्रखण्डं यद्येकैकं मनुष्यरूपं क्रमेण प्रतिसमयमपहरति तदाऽसद्धयेयोत्सर्पिण्यवसर्पिणीभिः सर्वाऽपि श्रेणिरपहियते यद्येकं मनुष्यरूपं स्यात् , तच्च नास्ति, सर्वोत्कृष्टानामपि समुदितगर्भजसम्मूर्छजमनुष्याणामेतावतामेव भावात् / इदमुक्तं भवति–उत्कृष्टपदवर्तिभिरपि सर्वतः सप्तरज्जुप्रमाणस्य घनीकृतस्य लोकस्यैकैकप्रदेशपतिरूपं श्रेणिमात्रमपि अङ्गुलमानक्षेत्रप्रदेशराशिसम्बन्धितृतीयवर्गमूलगुणितप्रथमवर्गमूलप्रदेशप्रमाणैरसत्कल्पनया षट्पञ्चाशदधिकशतद्वयप्रमाणाङ्गुलमानक्षेत्रप्रदेशराशिसम्बन्धिद्विकलक्षणतृतीयवर्गमूलगुणितषोडशकलक्षणप्रथमवर्गमूललन्धद्वात्रिंशत्प्रदेशप्रमाणैराकाशखण्डैर्मनुष्यरूपस्थानीयैरपह्रियमाणमपि नापह्रियते, एकरूपहीनत्वात् ; यदि पुनरेकं रूपमन्यत् स्यात् ततः सकलाऽपि श्रेणिरपहियेत / कालतश्च प्रतिसमयमेतावत्प्रमाणैरप्याकाशखण्डैरपह्रियमाणा श्रेणिरसङ्ख्याताभिरुत्सर्पिण्यवसर्पिणीमिनिःशेषतोऽपह्रियते, कालतः सकाशात् क्षेत्रस्यात्यन्तसूक्ष्मत्वात् / उक्तं च उकोसपए जे मणुस्सा हवंति तेसु इक्वम्मि मसरूवे पक्खित्ते समाणे तेहिं मणुस्सेहिं सेढी अवहीरइ / तीसे य सेढीए कालखिचेहिं अवहारो मग्गिज्जइ-कालओ ताव असंखिज्जाहिँ उस्सप्पिणीओसप्पिणीहिं, खित्तओ अंगुलपढमवग्गमूलं तइयवग्गमूलपडुप्पन्नं / किं भणियं होइ !तीसे सेढीए अंगुलायए खंडे जो पएसरासी तस्स जं पढेमवग्गमूलपएसरासिमाणं तं तइयवग्गमूलपएसरासिपडुप्पाइए समाणे जो पएसरासी हवइ एवइएहिं खंडेहिं अवहीरमाणी अवहीरमाणी जाव निहाइ ताव मणुस्सा वि अवहीरमाणा अवहीरमाणा निटंति / आह कहमेगा सेढी एद्दहमितेहिं खण्डेहिं अवहीरमाणी अवहीरमाणी असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरइ ! आयरिओ आह-खेत्तस्स सुहुमत्तणओ / सुते वि जं भणियं सेहुमो य होइ कालो, तत्तो सुहुमयरयं हवइ खितं / अंगुलसेढीमिते, ओसप्पिणीओ असंखिजा // ( अनु० चू० पत्र 72) इति / 1 उत्कृष्टपदे ये मनुष्या भवन्ति तेष्वेकस्मिन् मनुष्यरूपे प्रक्षिप्ते सति तैर्मनुष्यैः श्रेणिरपहियते / तस्याथ श्रेणेः कालक्षेत्राभ्यां अपहारो मृग्यते-कालतस्तावदसङ्खयेयाभिरुत्सर्पिण्यवसर्पिणीभिः,क्षेत्रतोऽङ्गुलप्रथमवर्गमूलं तृतीयवर्गमूलगुणितम् / किं भणितं भवति?-तस्याः श्रेणेरडलायते खण्डे यःप्रदेशराशिः तस्य यत् प्रथमवर्गमूलप्रदेशराशिमानं तत् तृतीयवर्गमूलप्रदेशराशिगुणिते सति यः प्रदेशराचिर्भवति एतावद्भिः खण्डैरपहिय- . माणाऽपहियमाणा यावनिस्तिष्ठति तावद् मनुष्या अपि अपहियमाणा अपहियमाणा निस्तिष्टन्ति / आह कथमेका श्रेणिरेतावन्मात्रैः खण्डैरपहियमाणा अपहियमाणा असङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियते? आचार्य आह-क्षेत्रस्य सूक्ष्मसात् / सत्रेऽपि यद्भणितं-सूक्ष्मश्च भवति कालखतः सूक्ष्मतरकं भवति क्षेत्रम् / अङ्गुलश्रेणिमात्रेऽवसर्पिण्योऽसङ्ख्येयाः॥२ जाव अनुयोगद्वारचूर्णौ // 3 डप्पाडितं अनुयोगद्वारचूणों // 4 °ढर्म वग्गमूलं तं तइयवग्गमूलपएसरासिणा पडुप्पाविज्बह, पडुप्पाडिते समाणे जो रासी हवा एवइएहि खण्डेहिं सा सेढी अव अनुयोगद्वारचूर्णौ // 5 गाथेयमावश्यकनिर्युक्तौ सप्तत्रिंशत्तमी /