________________ 33-37] षडशीतिनामा चतुर्थः कर्मग्रन्थः / 167 योगाः, द्वादशोपयोगा इतीच्छन्ति 'क्रमात्' क्रमेण यथासायमित्यर्थः / अत्रायममिप्रायःप्राग् योगान्तरसहितोऽसहितो वा खरूपमात्रेणैव काययोगादिविवक्षितस्तेन तत्र यथोकगुणस्सानकादिवक्तव्यता सर्वाऽप्युपपद्यते, इह तु काययोगादियोगान्तरविरहित एव विवक्ष्यते / यथामनोयोगवाम्योगविरहितः काययोगः, मनोयोगविरहितो वाग्योगः / ततो मनोयोगे द्वे अन्तिमे जीवस्थानके, अयोगिकेवलिवर्जितानि त्रयोदश गुणस्थानानि, कार्मणौदारिकमिश्रवर्जितात्रयोदश योगाः, कार्मणौदारिकमिश्रौ हि काययोगौ अपर्याप्तावस्थायां केवलिसमुद्धातावस्थायां वा / न च तदानीं मनोयोगः, अपर्याप्तावस्थायां मनस एवाभावात् , केवलिसमुद्धातावस्थायां तु प्रयोजनाभावात् / उक्तं च मनोवचसी तु तदा सर्वथा न व्यापारयति, प्रयोजनाभावात् / (धर्मसारमूल्टीकायाम् ) तथा 'वचने' मनोयोगविरहिते वाग्योगे क्रमाद् अष्टौ जीवस्थानानि-पर्याप्तापर्याप्तद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियरूपाणि, द्वे गुणस्थाने-मिथ्यात्वसासादनलक्षणे, चत्वारो योगाःकार्मणौदारिकमिश्रौदारिकासत्यामृषावाग्योगरूपाः, चत्वार उपयोगाः-मत्यज्ञानश्रुताज्ञानचक्षुर्दर्शनाचक्षुर्दर्शनलक्षणाः / वाग्योगो हि मनोयोगविरहितखमावो द्वीन्द्रियादिष्वेवाऽसंज्ञिपञ्चेन्द्रियपर्यन्तेषु सम्भवति नान्येषु / ततो यथोक्तान्येव जीवस्थानकादीनि तत्र सम्भवन्ति नोनाधिकानि / तथा केवलकाययोगे चत्वारि पर्याप्तापर्याप्तसूक्ष्मवादरैकेन्द्रियलक्षणानि जीवस्थानकानि, द्वे आये गुणस्थानके-मिथ्यादृष्टिसासादनलक्षणे, पञ्च योगाः-वैक्रियद्विकौदारिकद्विककार्मणरूपाः, त्रय उपयोगाः-मत्यज्ञानश्रुताज्ञानाचक्षुर्दर्शनखरूपाः / केवलकाययोगो हि एकेन्द्रियेष्वेवावाप्यते, तत्र जीवस्थानकादीनि यथोक्तान्येव घटन्त इति // 35 // अभिहितं योगेष्वेकीयमतम् / साम्प्रतं मार्गणास्थानेषु लेश्या अभिधित्सुराह... छसु लेसासु सठाणं, एगिदि असन्नि भूदगवणेसु। पढमा चउरो तिन्नि उ, नारय विगलग्गि.पवणेसु // 36 // षड्लेश्यासु खस्थानं खा खा लेश्या भवति, यथा कृष्णलेश्यायां कृष्णलेश्या इत्यादि / सामान्यत एकेन्द्रियेषु 'असंज्ञि(नि'मनोविज्ञानरहिते) 'भूदकवनेषु' पृथिव्यम्बुवनस्पतिषु प्रथमाःकृष्णनीलकापोततेजोलेश्याश्चतस्रो भवन्ति, भवनपतिव्यन्तरज्योतिप्कसौधर्मेशानदेवा हि खखभवच्युता एतेषु मध्ये समुत्पद्यन्ते ते च तेजोलेश्यावन्तः, जीवश्च यल्लेश्य एव प्रियते अग्रेऽपि तल्लेश्य एवोपपद्यते, “जल्लेसे मरइ तल्लेसे उववज्जइ" इति वचनात् / तत एतेषामपर्याप्तावस्थायां कियत्कालं तेजोलेश्या भवति / नारकेषु 'विकलेषु' द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियेषु अमिषु' तेजस्कायेषु 'पवनेषु' वायुकायिकेषु प्रथमास्तिस्रः-कृष्णनीलकापोतलेश्या भवन्ति नाऽन्याः, प्रायोऽमीषामप्रशस्ताध्यवसायस्थानोपेतत्वात् // 36 // अहखाय सुहुम केवलदुगि सुक्का छावि सेसठाणेसु। नरनिरयदेवतिरिया, थोवा दु असंखऽणंतगुणा // 37 // यथाख्यातसंयमे सूक्ष्मसम्परायसंयमे च 'केवलद्विके' केवलज्ञानकेवलदर्शनरूपे शुक्ललेश्यैव न शेषलेश्याः, यथाख्यातसंयमादौ एकान्तविशुद्धपरिणामभावात् तस्य च शुक्कलेश्याऽविनामू