________________ 266 देवेन्द्रसरिविरचितखोपज्ञटीकोपेतः [गाथा केवलदुगे नियदुर्ग, नव तिअनाण विणु खइय अहखाए / दसणनाणतिगं देसि मीसि अन्नाणमीसं तं // 33 // 'केवलद्रिके केवलज्ञानकेवलदर्शनलक्षणे 'निजद्विकं' केवलज्ञानकेवलदर्शनरूपमुपयोगद्विकं भवति, न शेषा दश, ज्ञानदर्शनव्यवच्छेदेनैव केवलयुगलस्य सद्भावात्, "नट्ठम्मि उ छाउमथिए नाणे / " (आ० नि० गा० 539) इति वचनात् / तथा क्षायिके सम्यक्त्वे यथाख्याते च संयमे नवोपयोगा भवन्ति / के ते ! इत्याह-'अज्ञानत्रिकं' मतिश्रुताज्ञानविभाग ज्ञानलक्षणं विना, यतः क्षायिकयथाख्यातयोरज्ञानत्रिकं न भवत्येव, तस्य मिथ्यात्वनिबन्धनत्वात् , निर्मूलतो मिथ्यात्वक्षयेणोपशमेन च क्षायिकसम्यक्त्वयथाख्यातोत्पादात् , अत एतयोर्नवैवोपयोगा भवन्तीति / तथा 'देशे' देशविरते षडुपयोगा भवन्ति / कथम् ! इत्याह—'दर्शनज्ञानत्रिकं' त्रिकशब्दस्य प्रत्येक सम्बन्धः, दर्शनत्रिकं-चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनरूपम् , ज्ञानत्रिकंमतिभुतावधिज्ञानरूपमिति, न शेषाः, मिथ्यात्वसर्वविरत्यभावात् / मिश्रे तदेव दर्शनज्ञानत्रिकमज्ञानमिभं द्रष्टव्यम् , मतिज्ञानं मत्यज्ञानमिश्रं 1 श्रुतज्ञानं श्रुताज्ञानमिदं 2 अवधिज्ञानं विभङ्गज्ञानमिनं 3 दर्शनत्रिकं 3 चेति मिश्रेऽपि षडुपयोगाः सिद्धा भवन्ति / इह चावधिदर्शनमागमाभिप्रायेण उच्यते, अन्यथा एतेष्वेव मार्गणास्थानकेषु गुणस्थानकमार्गणायां "अजयाइ नव महसुओहिदुगे" (गा० 21) इत्युक्तमिति // 33 // मणनाणचक्खुवना, अणहारे तिनि दंस चउ नाणा। पउनाणसंजमोवसम वेयगे ओहिदंसे य // 34 // मनःपर्यायज्ञानचक्षुर्दर्शनवर्जाः शेषा दशोपयोगा अनाहारके भवन्ति / यत्तु मनःपर्यवज्ञानं चक्षुर्दर्शनं तच्चानाहारके न सम्भवति, यतोऽनाहारको विग्रहगतौ केवलिसमुद्धातावस्थायां च, न च तदानीं मनःपर्यायज्ञानचक्षुर्दर्शनसम्भव इति / तथा 'त्रीणि दर्शनानि' चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनरूपाणि 'चत्वारि ज्ञानानि' मतिश्रुतावधिमनःपर्यायलक्षणानीत्येवं सप्तोपयोगा भवन्ति का इत्याह-चतुःशब्दस्य प्रत्येकं सम्बन्धात् चतुषु ज्ञानेषु-मतिज्ञानश्रुतज्ञानावधिज्ञानमनःपर्यायज्ञानेषु, तथा चतुर्यु संयमेषु-सामायिकच्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसम्परायेषु, औपशमिके सम्यक्त्वे 'वेदके क्षायोपशमिकापरपर्याये, अवधिदर्शने 'चः' समुच्चये, न शेषाः, तत्सद्भावे मत्यज्ञानादीनामसम्भवात् / इहाप्यवधिदर्शने मत्यज्ञानाद्युपयोगप्रतिषेधो बहुश्रुताचार्यामिपायापेक्षया द्रष्टव्यः, अन्यथा हि मत्यज्ञानादिमतामपि सूत्रे साक्षाद् अवधिदर्शनं प्रतिपादितमेव, अज्ञप्तिसूत्रं च प्रागेवोक्तमिति // 34 // उक्ता मार्गणास्थानेषु उपयोगाः / अथ योगेषु जीवगुणस्थानकयोगोपयोगान् अधिकृत्य मतान्तरमाह दो तेर तेर बारस, मणे कमा अहदु चउ चउ वयणे। चउ पण तिनि काए, जियगुणजोगोवओगऽने // 35 // भन्ये स्वाचार्याः "मणि" ति मनोयोगे द्वे जीवस्थानके, त्रयोदश गुणस्थानकानि, त्रयोदश 1, भवषिद्रिके भवधिज्ञानावधिदर्शनरूपे यः क० ख० ग००० मुक्तिपुस्तकादशे च //