________________ 27-28] पडशीतिनामा चतुर्थः कर्मग्रन्थः / तद् अयुक्तम् , सम्यक् सिद्धान्तापरिज्ञानात् , अवैक्रियाणामपि तेषां खभावत एव चेष्टोपपत्तेः / यदाह भगवान् श्रीहरिभद्रसूरिरनुयोगद्वारटीकायाम् घोउक्काइया चउन्विहा-सुहुमा पजत्ता अपज्जत्ता, बादरा वि य पज्जता अपज्जत्ता / तत्थ तिमि रासी पत्तेयं असंखेज्जलोगप्पमाणप्पएसरासिपमाणमित्ता, जे पुण बादरा पज्जता ते पयरासंखेज्जइभागमित्ता / तत्थ ताव तिण्हं रासीणं वेउधियलद्धी चेव नत्थि / बायरपज्जचाणं पि असंखिज्जइभागमित्ताणं लद्धी अस्थि / जेसि पि लद्धी अस्थि ते वि पलिओवमासंखिजभागसमयमित्ता संपयं पुच्छासमए वेउधियवत्तिणो। तथा जेण सबेसु चेवे उडुलोगाइसु चला वायवो विजंति तम्हा अवेउबिया वि वाया वायंति त्ति वित्तवं / सभावो तेसिं वाइयवं / (पत्र 92, अनु० चू० पत्र 67) इति / वानाद्वायुरिति कृत्वा “तिण्हं रासीणं" ति त्रयाणां राशीनां पर्याप्तापर्याप्तसूक्ष्मापर्याप्तबादरवायुकायिकानाम् / तथा त एव पूर्वोक्ताः पञ्च कार्मणौदारिकद्विकवैक्रियद्विकलक्षणयोगाः चरमाचतुर्थी असत्यामृषरूपा वाग्-वचनयोगश्चरमवाक् तया युक्ताः षड् योगा भवन्ति / क ? इत्याह'असंज्ञिनि' संज्ञिव्यतिरिक्ते जीवे / तत्र कार्मणमपान्तरालगतावुत्पत्तिप्रथमसमये च, औदारिकमिश्रमपर्याप्तावस्थायाम् , पर्याप्तावस्थायामौदारिकम् / बादरपर्याप्तवायुकायिकानां वैक्रियद्विकम् , चरमभाषा शङ्खादिद्वीन्द्रियादीनामिति / त एव पूर्वोक्ताः षड् योगा वैक्रियद्विकेन-वैक्रियवैक्रियमिश्रलक्षणेन ऊनाः-हीनाश्चत्वारो भवन्ति / क ? इत्याह–'विकलेषु' द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियेषु / कोऽर्थः ? तत्र कार्मणौदारिकद्विकभावना प्राग्वत् / चरमभाषा च असत्यामृषरूपा शङ्खादीनां भवति, शेषास्तु भाषा न भवन्त्येव “विगैलेसु असच्चमोसे वा" इति वचनादिति // 27 // ... कम्मुरलमीस विणु मण, वइ समइय छेय चक्खु मणनाणे / उरलदुग कम्म पढमंतिम मणवइ केवलदुगम्मि // 28 // कार्मणमौदारिकमिश्रं विना शेषास्त्रयोदश योगा भवन्ति / क ? इत्याह-मनोयोगे वाग्योगे सामायिकसंयमे छेदोपस्थापनसंयमे चक्षुर्दर्शने मनःपर्यायज्ञाने / भावना सुकरैव / यौ तु कार्मणौदारिकमिश्रौ तौ तेषु सर्वथा न सम्भवत एव, तयोरपर्याप्तावस्थायां भावात् , मनोयोगवाग्योगसामायिकच्छेदोपस्थापनचक्षुर्दर्शनमनःपर्यायज्ञानानां च तस्यामवस्थायामसम्भवात् / तथा “उरलदुग" ति औदारिकद्विकमौदोरिकौदारिकमिश्रकार्मणकाययोगौ [मिश्रकाययोगौ] सयोग्यवस्थायामेव समुद्धातगतस्य वेदितव्यौ [ “कम्म" ति कार्मणकाययोगः] 1. वायुकायिकाश्चतुर्विधाः-सूक्ष्माः पर्याप्ताः 1 अपर्याप्ताः 2, बादरा अपि च पर्याप्ताः 3 अपर्याप्ताः / / तत्र त्रयो राशयः प्रत्येकं असङ्ख्येयलोकप्रमाणप्रदेशराशिप्रमाणमात्राः, ये पुनर्बादराः पर्याप्तास्ते प्रतरासङ्ख्यातभागमात्राः / तत्र तावत् त्रयाणां राशीनां वैक्रियलब्धिरेव नास्ति / बादरपर्याप्तानामपि असङ्ख्यातभागमात्राणां लब्धिरस्ति / येषामपि लन्धिरस्ति तेऽपि पल्योपमासयेयभागसमयमात्राः साम्प्रतं पृच्छासमये वैकुर्विकवर्तिनः / तथा येन सर्वेष्वेव ऊर्ध्वलोकादिषु चला वायवो विद्यन्ते तस्मादवैकुर्विका अपि वाता वान्तीति ग्रहीतव्यम् / खभावस्तेषां वातव्यम् / 2 °व लोगा. स्व० अनुयोगद्वारलघुटीकायाम् / व लोगागासाइ अनुयोगद्वारचूर्णी // 3 विकलेषु असत्यामृषा वा // 4 इत ऊर्द्धम्-"केवलद्विके' केवलज्ञानकेवलदर्शनरूपे सप्त योगाः / के ते? इत्याह- इत्येवंरूपः पाठो यदि स्यात्तदा सङ्गतिमेति // ५°दारिकमिश्रकार्मक०ख०ग०५० 0 //