________________ 956 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः - [गाथा कोना भवन्ति / आहारकद्विकं पुनरेतेष्वज्ञानत्वादेव दूरापास्तम् / तथा औपशमिकसम्यक्त्वे आहारकद्विकोनास्त्रयोदश योगाः, आहारकं त्वत्रापि न घटामियति, यत औपशमिकसम्यक्त्वं प्रथमसम्यक्त्वोत्पादकाले उपशमश्रेण्यारोहे वा भवति / न च प्रथमसम्यक्त्वोत्पादकाले चतुर्दशपूर्वाधिगमसम्भवः, तदभावाच कथमाहारकद्विकभावः प्रादुर्भावपदवीमियति / उपशमश्रेण्यारूढस्त्वाहारकं नारभत एव, तस्याऽप्रमत्चत्वात् , आहारकारम्भकस्य तु लब्ध्युपजीवनेन औत्सुक्यभावतः प्रमादबहुलत्वात् / उक्तं च आहारगं तु पमत्तो उप्पाएइ न अप्पमत्तो इति / आहारकस्थितश्चोपशमश्रेणिं नारभत एव, तथाखभावत्वादिति / तथा अभव्ये मिथ्यात्वे च चतुर्दशपूर्वाधिगमाभावादेव आहारकद्विकवर्जास्त्रयोदश योगाः / त एव पूर्वोक्तास्त्रयोदश योगा औदारिकद्विकेन-औदारिकौदारिकमिश्रलक्षगेन ऊनाः-हीना एकादश योगाः 'सुरे' सुरगतौ 'नरके' नरकगतौ भवन्ति / तथाहि-मनोवाग्योगचतुष्टयवैक्रियवैक्रियमिश्रकार्मणलक्षणा एकादश योगाः सुरेषु नारकेषु च घटन्ते / तत्र कार्मणमपान्तरालगतावुत्पत्तिप्रथमसमय एव, वैक्रियमिश्रमपर्याप्तावस्थायाम् , पर्याप्तावस्थायां तु वैक्रियं मनोवाग्योगचतुष्टयं च / यत् पुनरौदारिकद्विकं तद् भवप्रत्ययादेव देवनारकाणां न सम्भवति / आहारकद्विकं तु सुरनारकाणां भवखभावतया विरत्यभावेन सर्वविरतिप्रत्ययचतुर्दशपूर्वाधिगमासम्भवादेव दूरापास्तमिति // 26 // कम्मुरलदुर्ग थावरि, ते सविउव्विदुग पंच इगि पवणे। छ असन्नि चरमवइजुय, ते विउविदुगूण चउ विगले // 27 // कार्मणम् 'औदारिकद्विकम्' औदारिकौदारिकमिश्रलक्षणमिति त्रयो योगाः / क ? इत्याह"थावरि" ति स्थावरकाये-पृथिव्यप्तेजोवनस्पतिकायरूपे, वायुकायिकस्य पृथग् भणिष्यमाणत्वात् / अयमत्र भावः-स्थावरचतुष्के कार्मणौदारिकद्विकरूपास्त्रयो योगा भवन्ति / तत्र कार्मणमपान्तरालगतावुत्पत्तिप्रथमसमये वा, औदारिकमिश्रं तु अपर्याप्तावस्थायाम् , पर्याप्तावस्थायां पुनरौदारिकमिति / 'ते' पूर्वोक्तास्त्रयो योगाः 'सवैक्रियद्विकाः' सह वैक्रियद्विकेन-वैक्रियवैक्रियमिश्रलक्षणेन वर्तन्त इति सवैक्रियद्विकाः सन्तः पञ्च भवन्ति / क ? इत्याह-"इगि" ति सामान्यत एकेन्द्रिये 'पवने' वायुकाये च / तत्र कार्मणौदारिकद्विकलक्षणयोंगत्रयभावना प्राग्वत् / वैक्रियद्विकभावना त्वेवम्-इह किल चतुर्विधा वायवो वान्ति / तद्यथा-सूक्ष्मा अपर्याप्ताः 1 सूक्ष्माः पर्याप्ताः 2 बादरा अपर्याप्ताः 3 बादराः पर्याप्ताश्च 4 / तत्र बादरपर्यातानां केषाञ्चिद् वैक्रियलब्धिसम्भवोऽस्ति तानधिकृत्य वैक्रियमिश्रं वैक्रियं च लभ्यते / __ ननु कथमुच्यते केषाश्चिद् वैक्रियलब्धिसम्भवोऽस्ति ? यावता सर्वेऽपि बादरपर्याप्तवायवः सवैक्रिया एव, अवैक्रियाणां चेष्टाया एवाप्रवृत्तेः / उक्तं च. केई भणंति-सवे वेउविया वाया वायंति, अवेउधियाणं चिट्ठा चेव न पवतइ / (अनु० चू० पत्र 67, अनु० हा० टी० पत्र 92 ) इति / 1 आहारकं तु प्रमत्त उत्पादयति नाप्रमत्तः // 2 केचिद् भणन्ति-सर्वे वैकुर्विका वाता वान्ति, अवैक्रियाणां चेष्टैव न प्रवर्तते ॥३याणं वाणं चे अ