________________ देवेन्द्रसूरिविरचितसोपज्ञटीकोफ्तः [गाथा यावत् / प्रतिपतंश्च तावत् प्रतिपतति यावत् प्रमत्तगुणस्थानम् / कश्चित्तु ततोऽप्यघस्तनं गुणस्थानकद्विकं याति, कोऽपि सासादनभावमपि / यः पुनर्भवक्षयेण प्रतिपतति स प्रथमसमय एव सर्वाण्यपि बन्धनादीनि करणानि प्रवर्तयतीति विशेषः / उत्कर्षतश्चैकस्मिन् भवे द्वौ वारावुपशमआणि प्रतिपद्यते / यश्च द्वौ वारावुपशमश्रेणि प्रतिपद्यते तस्य नियमात् तस्मिन् भवे क्षपकश्रेण्यभावः / यः पुनरेकं वारं प्रतिपद्यते तस्य क्षपकश्रेणिर्भवेदपीति / उक्तं च सप्ततिकाचूरें जो दुवे वारे उवसमसेटिं पडिवज्जइ तस्स नियमा तम्मि भवे खवगसेदी नत्थि, जो इकसिं उक्समसेढी पडिवज्जइ तस्स खवगसेढी चि हुज ति // ___ एष कार्मग्रन्थिकाभिप्रायः / आगमाभिप्रायेण त्वेकस्मिन् भव एकामेव श्रेणि प्रतिपद्यते, पदुकं कल्पमाष्ये एवं अप्परिवडिए, सम्मत्ते देवमणुयजम्मेसु / भन्नयरसेढिवजं, एगभवेणं च सवाई // (गा० 107) सर्वाणि देशविरत्यादीनि / अन्यत्राप्युक्तम् मोहोपशम एकस्मिन् , भवे द्विः स्यादसन्ततम् / यस्मिन् भवे तूपशमः, क्षयो मोहस्य तत्र न // इति / तथा क्षीणाः-अभावमापन्नः कषाया यस्य स क्षीणकषायः / तत्रानन्तानुबन्धिकषायान् प्रथममविरतसम्यग्दृष्ट्याचप्रमत्तान्तेषु गुणस्थानेषु क्षपयितुमारभते, ततो मिथ्यात्वं मिश्रं सम्यक्त्वम्, ततोऽप्रत्याख्यानावरणान् प्रत्याख्यानावरणान् कषायानष्टौ क्षपयितुमारभते, तेषु चार्षक्षपितेष्वेवातिविशुद्धिवशादन्तराल एव स्त्यानदित्रिकं नरकद्विकं तिर्यग्द्विकम् एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातयः आतपम् उद्योतं स्थावरं सूक्ष्मं साधारणमिति प्रकृतिषोडशकं क्षपयति / तसिंश्च क्षीणे कषायाष्टकस्य क्षपितशेष क्षपयति / ततो नपुंसकवेदं स्त्रीवेदं हास्यादिषट्कं पुंवेदं संज्वलनं क्रोषं मानं मायां क्षपयति, एताश्च प्रकृतीरनिवृत्तिवादरसम्परायगुणस्थाने शफ्यति, संज्वलनलोभ सूक्ष्मसम्परायगुणस्थान इति क्षपकश्रेणिः / स्थापना चेयम् / विस्तरसस्तु क्षपकश्रेणिखरूपं खोपज्ञशतकटीकायां निरूपितं तत एव परिभावनीयम् / सदेवमन्येष्वपि गुणस्थानेषु क्षीणकामव्यपदेशः सम्भवति, कापि कियतामपि कषायांणां क्षीणस्वात् , अतस्तव्यवच्छेदार्थ वीतरामग्रहणम् / क्षीणकषायवीतरागत्वं च केवलिनोऽप्यस्ति इति तयवच्छेदार्थ छद्मस्थग्रहणम् / छद्मस्थग्रहणे च कृते सरामव्यवच्छेदार्थ वीतरागग्रहणम् / वीतरागश्चासौ छद्मस्थश्च वीतरागच्छद्मस्थः / स चोपशान्तकषायोऽप्यस्ति इति तद्यवच्छेदार्थ क्षीणकपायग्रहणम् / क्षीणकषायश्चासौ वीतरागच्छद्मस्थश्च क्षीणकनायवीतरागच्छद्मस्थः, तस्य गुणस्थानं क्षीणकषायवीतरागच्छद्मस्थगुणस्थानम् 12 इति / योतीबारौ उपशमणि प्रतिपद्यते तस्य नियमात्तस्मिन् भवे क्षपकश्रेणिर्नास्ति, य एकवार उपशम. श्रेणिं प्रतिपद्यते तस्य 'क्षपकश्रेणिपि भवेदिति // 2 एवमप्रतिपतिते सम्यक्त्वे देवमनुजजन्मसु / अन्यतरश्रेणिवर्जम् एपभवेन च सर्वाणि-॥ ३°ततःक० ख० ग० घ००। ४°णाः क्षयमा ख०॥ ५°सान्तगु° ख० ग०6०॥ स्थापनाऽमेतनपृष्ठे न्यस्ताऽस्ति /