________________ 2] कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः / सावद्ययोगान्ते विरतं विरतिर्यस्यासौ देशविरतः। सर्वसावद्यविरतिः पुनरस नास्ति, प्रत्याख्यानावरणकषायोदयात् , सर्वविरतिरूपं प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणाः / उक्तं च संम्मइंसणसहिओ, गिण्हंतो विरइमप्पसत्तीए / एगधयाइचरिमो, अणुमइमित्त ति देसजई / / देशविरतस्य गुणस्थानं देशविरतगुणस्थानम् 5 / ___ तथा संयच्छति स्म-सम्यग् उपरमति स्म संयतः, “गत्यर्थाऽकर्म०" (5-1-11) इति क्तः, प्रमाद्यति स्म-संयमयोगेषु सीदति स्म, प्राग्वत् कर्तरि क्तः प्रमत्तः, यद्वा प्रमदनं प्रमप्रमादः, स च मदिराविषयकषायनिद्राविकथानामन्यतमः सर्वे वा / प्रमत्तमस्यास्तीति प्रमत्तःप्रमादवान् / “अनादिभ्यः" (सि०७-२-४६) इति अप्रत्ययः, प्रमत्तश्चासौ संयतश्च प्रमत्तसंयतः, तस्य गुणस्थानं प्रमत्तसंयतगुणस्थानम् , विशुद्ध्यविशुद्धिप्रकर्षाऽपकर्षकृतः खरूपभेदः / तथाहि-देशविरतिगुणापेक्षया एतद्गुणानां विशुद्धिप्रकर्षोऽविशुद्यपकर्षश्च, अप्रमत्त. संयतापेक्षया तु विपर्ययः / एवमन्येष्वपि गुणस्थानेषु पूर्वोत्तरापेक्षया विशुधविशुद्धिप्रकर्षाऽपकर्षयोजना द्रष्टव्या 6 / / ___ न प्रमत्तोऽप्रमत्तः / यद्वा नास्ति प्रमत्तमस्यासावप्रमत्तः, स चासौ संयतश्च, तस्य गुणस्थानम् अप्रमत्तसंयतगुणस्थानम् 7 / - अपूर्वम्-अभिनवं प्रथममित्यर्थः करणं-स्थितिघातरसघातगुणश्रेणिगुणसक्रमस्थितिबन्धानां पञ्चानामर्थानां निर्वर्तनं यस्यासावपूर्वकरणः / तथाहि—बृहत्प्रमाणाया ज्ञानावरणीयादिकर्मस्थितेरपवर्तनाकरणेन खण्डनम्-अल्पीकरणं स्थितिघात उच्यते / रसस्यापि प्रचुरीभूतस्य सतोऽपवर्तनाकरणेन खण्डनम्-अल्पीकरणं रसघात उच्यते / एतौ द्वावपि पूर्वगुणस्थानेषु विशुद्धेरल्पत्वादल्पावेव कृतवान् , अत्र पुनर्विशुद्धेः प्रकृष्टत्वाद् बृहत्प्रमाणतया अपूर्वाविमौ करोति / तथा उपरितनस्थितेर्विशुद्धिवशादपवर्तनाकरणेनाऽवतारितस्य दलिकस्यान्तर्मुर्तप्रमाणमुदयक्षणादुपरि क्षिप्रतरक्षपणाय प्रतिक्षणमसङ्ख्येयगुणवृद्ध्या विरचनं गुणश्रेणिः / स्थापना पकिर / एतां च पूर्वगुणस्थानेष्वविशुद्धत्वात् कालतो द्राघीयसी दलिकरचनामाश्रित्याप्रथीर्यसीमल्पदलिकस्यापवर्तनाद् विरचितवान् इह तु तामेव विशुद्धत्वादपूर्वा कालतो इखतरां दलिकरचनामाश्रित्य पुनः पृथुतरां बहुतरदलिकस्यापवर्तनाद् विरचयतीति / तथा बध्यमानशुभप्रकृतिष्वबध्यमानाशुभप्रकृतिदलिकस्य प्रतिक्षणमसङ्ख्येयगुणवृद्ध्या विशुद्धिवशाद् नयनं गुणसङ्कमः, तमप्यसाविहापूर्व करोति / तथा स्थितिं कर्मणामशुद्धत्वात् प्राग् द्राधीयसीं बद्धवान्, इह तु तामपूर्वो विशुद्धत्वादेव हूसीयसीं बध्नातीति [स्थितिबन्धः] / ___ अयं चापूर्वकरणो द्विधा-क्षपक उपशमकश्च, क्षपणोपशमनार्हत्वात् चैवमुच्यते, राज्याईकुमारराजवत्, न पुनरसौ क्षपयत्युपशमयति वा, तस्य गुणस्थानम् अपूर्वकरणगुणस्थानम् / / एतच्च गुणस्थानं प्रपन्नानां कालत्रयवर्तिनो नानाजीवानपेक्ष्य सामान्यतोऽसख्येयलोकाकाश१ सम्यग्दर्शनसहितः गृह्णन् विरतिमात्मशक्त्या / एकव्रतादिचरिमः अनुमतिमात्रं इति देशयतिः // 2 °यसी दलिकस्याल्पस्याप ख०॥