________________ 314 नयचक्रम् / [विधिनियमारः रहितः शब्दार्थो भवितुमर्हतीति चेत्, को ब्रूतेऽन्वय-व्यतिरेक-रहित इति ? / यसादत्रानुवृत्ति-व्यावृत्ती अनन्तरोक्तपृथिव्यादिधातुविकल्पज्ञानसत्यत्वानुप्रबन्धसामोपहितरूपे पृथिव्यादिधातूनामचेतनाभिमतानां विकल्पसत्यानां चेतनकर्मात्म-नोकर्माभिमतानां च ज्ञानसत्यस्वरूपपुरुषत्वेन चान्वित-व्यतिरिक्तानामोमिति / कमात्मैक्यापत्त्या तत्सत्यत्वानुप्रबन्धेन शक्त्युपधानं नित्यमेवेत्यन्वयव्यतिरेकवानेवायं शब्दार्थ इति ते चानुवृत्ति-व्यावृत्ती यो यो भागो यथाभाग, प्रसिद्धिमभिधानाभिधेयव्यवहारात्मिका कर्मेति पुरुष इति कर्म-पुरुषकार इति एक एवेति वा प्रसिद्धिं गच्छत इति / स च शब्दार्थोऽनाद्यप्रवन्धसामोपहितानुप्रवृत्तित्वान्नित्यः / अत्रोत्पाद-विनाशशब्दावपि तत्स्थितरूपावेव नासदुद्भवात्यन्तविनाशरूपाविति तद्व्याचष्टे-अप्रवदनमित्यादि गतार्थम् / यथासङ्ख्यमाविर्भावतिरोभावस्वरूपयोरपि भावाभिधायित्वात् अवस्थित एवार्थ उत्पद्यते, विनश्यतीति चोच्यते तथा तथा परिणममानः / अनित्यघटादिशब्दा अपीति / अनित्यः प्रध्वस्त इत्यादयो घटः पट इत्यादयश्च शब्दाः पृथिव्यादिलक्षणा अपि नात्यन्तमुत्पन्नमभूतं चा(वाऽ)थ ब्रुवते / किं तर्हि ? स्वतत्त्वबीजं द्रव्यमेवाविच्छिन्नमाहुः / स्वतत्त्वं यदभूत्वा भवति, भूत्वा च न भवति, तदनित्यं समानकर्तृकयोः पूर्वकाले क्त्वाप्रत्ययविधानात् स एव तु दृश्य-परिणामाभ्यां भवति, न भवतीति स्वतत्त्वस्यानित्यत्वस्य बीजं द्रव्यमेवार्थः घटादि तावत् तदनित्यत्वं तस्य बीजमवस्थितं द्रव्यं सामान्यमेवाङ्कुरादे/हिवत् तदेवावच्छिन्नं महापृथिवीवदनुत्पादव्यययोग्यवृद्धमविचालि कूटस्थं ध्रुवं नान्यदिति पदार्थः वाक्यार्थोऽपि च पृथक् सर्व पदं प्रत्येकं पदं वाक्यं देवदत्त ! गामभ्याज शुक्लामित्यत्र देवदत्त एवेतरपदार्थपरिसमाप्तेः कर्म, विभक्त्यन्ते गोशब्दे च तथापरिसमाप्तेरितरपदार्थानां तच्च सर्वसर्वात्मकत्वादुक्तन्यायादुपपन्नम् / न चैताः स्वमनीषिका उच्यन्ते, किन्तु निबन्धनमप्यस्य दर्शनस्यार्षमस्ति; यतोऽस्य दर्शनस्य विनिर्गम इति तद् दर्शयति -'जे एकणामे [से] बहुणामे' ( आचा० अध्य० 3, उद्दे० 4, सू. 123 ) यदेकस्य भावास्तत् सर्वस्यापि, यत् सर्वस्य तदेकस्यापीति // चतुर्थोऽरो नयचक्रस्य समाप्तः। // प्रथमश्च मार्गो नेमिरित्यर्थः / अर्द्धमेकमेकपुस्तकं समाप्तम् // नयचक्रस्य प्रथमो भागः समाप्तः / * य एकं नामयति, स बहून् नामयति / य एकनामः, स बहुनामः /