________________ जगत्कर्तृकेश्वरविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 313 पुरुष-काल-नियति-स्वभावनयानां विरोधिनोरीश्वरनयस्य प्रधाननयस्य चाधिष्ठातप्रधानाख्ययोर्विपक्षो द्रव्यप्रकृतिनयो विधिनियमभङ्गो द्रष्टव्यः / स च सङ्ग्रहैकदेशत्वाद् द्रव्यार्थः नियमात्मकत्वात् पर्यायांशम(सं)स्पर्शित्वेऽपि सङ्ग्रहैकदेशत्वाद् द्रव्यार्थ एवायमिति / द्रव्यशब्दोऽपि करीसाधनो द्रव्यमिति द्रवतीत्यादिपर्यायै[शब्दै]स्तदर्थ व्याचष्टे / द्रवति याति न विच्छेद्यते भिन्नरूपमुपव्याप्त्या भिन्नानि रूपाणि चेतनानि व्रीहि-पृथिव्यादीनि देव-मनुष्यादीनि च साकल्येन व्यामोत्येव, न किञ्चिदपि त्यजतीति / चोदक आह- ननु कर्मणि कर्मसाधनत्वमुदितं कर्म-कारणव्याख्यानेऽयं द्रव्यशब्दः कर्मसाधन एवोक्तो द्रूयत इति द्रव्यमिति, कर्मवादश्च विधिनियमभङ्ग इत्युक्तम् , तत् कथमधुनाऽवधार्य द्रवतीति द्रव्यं कर्तृसाधनमुच्यते ? इति / __ अत्र विधिन(नि)यम[न]यो ब्रूते पूर्वोक्तमेव सारयन् ननु कर्मसाधनव्याख्यानेन तेन कर्तृसाधनत्वमेव व्यवस्थापितमिति / तत् कथम् ? इति चेदुच्यते-द्रव्येणैव द्रव्यं क्रियते, बीहिवदिति कर्तरि तृतीया द्रव्येणेति तया कर्तृसाधनत्वाभ्युपगमात् प्रागस्माभिः पुरुष-कर्म-पृथिवी-त्रीह्यादीनामात्मनैवात्मनः कर्तुः कर्मत्वस्य च विस्तरेण वर्णितव(त्वात , सत्यां कर्मतायामपि कर्तृत्वं द्रव्यत्वादिति सामान्यार्थस्याविच्छेदात् स्वातत्र्यात् / एतस्मिंश्च नये द्रव्यमेव शब्दार्थो, न पर्यायार्थः पदार्थ इत्यर्थः / स च नित्यो विच्छेदाभावात् अवस्थितत्वाद् वा सर्वात्मकैकस्य सर्वार्थरूपानुस्यूतत्वात् / अन्वाह चेति ज्ञापकमाह- एतमेव नयमनुवर्तमानो[ऽन्योऽप्याह-पृथिवीधातावित्यादि, यावत् तद्ब्रह्म इति / पृथिव्येव पृथिवी / धातुधृत्यादिधर्मधारणात् / तत्र किं सत्यं विकल्प इति स्वयमेव (पृ)ष्ट्वा व्याचष्टेन कदाचिदप्यत्रं पृथिवी नामास्त्यश्म-सिकता-मृत् लोष्ट-वज्रादीन् विमुच्य; त एव हि विकल्पाः पृथिवी न पृथिव्येव ते विकल्पे किं सत्यं ? ज्ञानम् / तेऽपि च विकल्पा ज्ञानादन्ये न सन्ति, ज्ञानमेवात्मकर्मलक्षणं चैतन्यं तथा तथा विजृम्भि(म्भ)ते चैतन्यस्यैव व्यवहारमार्गपातित्वात् / ज्ञाने किं सत्यम् ? उमा(ओम् ) अवति रक्षति पाति प्रीयते तृप्यति चेतनाचेतनभेदे सत्यप्येवमादिधात्वर्थात्मना विपरिणममानं कर्मात्मतयैकं भवति, येन यथा परिकल्प्यते तत् तथाऽनुवर्तत इत्योम् तदेतद् ब्रह्म, स एष परमार्थस्तदेतत् तत्त्वं परमं ब्रह्म बृहदिति तस्यार्थ कथयति / एतदुक्तं भवत्यतः परं शब्दार्थव्यवहारो निवर्तते, निर्विकल्पत्वादितीयं शब्दार्थव्यवहारगतिर्यावनिर्विकल्पं ज्ञानमेवैतदिति / अतः परं ब्रह्मेति यत् परं तत्त्वं तत्वज्ञानमपि निर्विकल्पं सन्न क्रमते तद्दर्शयति-व्यवहारातीतोऽयमर्थः / अयमिति व्याख्यातमधिगमोपायोपक्रममात्रं दर्शयति / कथम् ? ओम् इत्येषोऽन्वय-व्यतिरेक न.च०४०