________________ जगत्कर्तृकेश्वरविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 311 प्रकारेण भवति, बालकाले कौमाराभावेन कौमारेऽबालभावेन, यज्ञदत्ताद्यन्याभावेन खरविषाणायत्यन्ताभावेन च / सर्वः सर्वदा सर्वत्र सर्वथा च भवति / स एव देवदत्तस्तत्तदात्मकस्तथा सर्वद्रव्यभवनमिति भूत्वा न भवत्यभूत्वा च भवतीति मृत् पिण्डकाले न न भवति, घटस्तदव्यतिरेकात्मकत्वात् , देवदत्त-बाल-कुमारादिवत् / कपालकाले न न भवति घटस्तदव्यतिरिक्तात्मकत्वात् देवदत्तबाल-कुमारादिवत् / कस्मात् ? अन्यथाभावत्वा(स्या)पत्तेरसत्त्वापत्तेः / यद्येवं नेष्यते त्वया प्रागभावादिनापि भवत्येवेति / ततस्तस्य देवदत्तादेर्वस्तुनो बाल-कुमारादि-सर्वावस्थात्मपरित्यागे किं तद् देवदत्ताख्यं वस्तु, कास्ताः तद्व्यतिरिक्ता बालाद्यवस्थाः? इत्यभाव आपद्यते / न सन्त्यवस्थाः परस्परसम्बन्धाभावाद् वन्ध्यापुत्रवत् / नास्यावस्थावदवस्थाव्यतिरेकेणानवधारणाद् वन्ध्यापुत्रवत् / / ___ अत्राह- न चेतनोऽचेतन इति नञा प्रतिषेधवाचिना सम्बन्धादचेतनरूपेण चेतनस्य भावाभाव इति / अत्र ब्रूमः- अचेतन इति च चेतनादन्य आत्मैवोक्तः पयुदासवाचित्वाद् नञः, नात्यन्ताभाववाचित्वात् / स कोऽन्यश्चेतनादन्यः? आत्मैवेति चेदुच्यते- स्पर्शास्पर्शादिधर्मा(म)णस्तस्यैवोपयोगाद्यस्पर्शरूपादन्येन रूपेण स एव स्पर्शादिमान् ज्ञानावरणादिकर्मरूप आत्मा तेन चेतनादन्येनाचेतन इति चेतन एवोक्तः। ननु भवन्मतात्यन्तचेतनाभावरूपेण प्रसज्य-प्रतिषेधाख्यस्य विकल्पान्तरस्थाभावान्नोच्यते चेतनो न भवत्यचेतन इति, तथा चेतना न भवत्यचेतनेति नोच्यते ज्ञानादि ज्ञानदर्शन-वीर्यादि न भवतीति / किं तर्हि ? चेतनाया अन्याऽचेतना का सा स्पर्शादीति / तथा ज्ञानादि न भवतीत्यज्ञानादि नोच्यते / किं तर्हि ? ज्ञानादेरन्यदज्ञानादि स्पर्शायेवाचेतनाज्ञानयोभूय उदाहरणम् / चेतनात्मनो द्रव्यस्य निर्देशेनापरितुष्टस्य परस्य तदभिप्रेतपर्यायनिर्देशेन प्रतिपादनार्थमज्ञानादिर्वेति कियती वोदाहरणमाला क्रियते ? / योऽप्यज्ञान-संशय-विपर्ययज्ञानादिर्ज्ञानाद् भिन्न इत्यभिमतो धर्मकलापः, सोऽपि ज्ञानाज्ञानात्मात्मरूपादेभिन्न एवेति / तत्रापि ननु ज्ञानादिर्न भवत्यज्ञानादिरित्युच्यते, किं तर्हि ? ज्ञानादेरन्य एवाज्ञानादिरित्यात्मैवाज्ञानादिरूपेणोच्यत इति / यद्येष न्यायो नेष्यतेऽन्यः स प्रसज्यप्रतिषेध इष्यते / चेतनो न भवत्यचेतन इत्यादिरिष्यते त्वया, तत एव सति तथा तेन प्रकारेण सर्वतो व्यावृत्तिः / घटः पटो न भवतीति, पटोऽपि घटो न भवतीति परस्परव्यावृत्तिवत् सर्वभावव्यावृत्तेश्चेतनाचेतनयोर्ध्यावृत्तिस्ततश्च सर्वतो व्यावृत्तेरयुक्तः प्रसज्यप्रतिषेधो निर्विशेषव्यावृत्यर्थत्वान्नज इति / स्थान्मतम्- स्वतस्त्वव्यावृत्तिर्भविष्यति घटवदिति चेदुच्यते- खतोऽपि व्यावृत्तेः, खतोऽपि तर्हि व्यावृत्तं तत् परपरिकल्पितं वस्तु प्रामोति सर्वतो