________________ 310 नयचक्रम् / [विधिनियमारः यैश्चेत्थं विकल्पितं तान् प्रति सर्वगतेतराभिमतद्रव्यस्वरूपमुत्क्षेपणादि / आदिग्रहणाद् रूप-रसादिगुणगणः सामान्य-विशेष-समवायाश्च / तच्च सर्वगतासर्वगतद्रव्यं परस्परतोऽन्योऽन्यान्यतरस्वरूपमात्रमिति प्रतिज्ञाऽर्थः / तदव्यतिरिक्तत्वादिति हेतुरनन्तरोक्तविधिना च तदव्यतिरिक्तत्वं सिद्धम् / तत्स्वरूपमात्रं तदव्यतिरिक्तम् / अनयोः कोऽर्थभेदः ? इति चेत् , न कश्चिदेतन्नयदर्शनेन / अपरस्तु शब्दवुद्ध्यादिभेदमिच्छतीति तन्मतापेक्षयैतदुक्तम् / दृष्टान्तो घट-घटभवनवत् यथा घट एव घटभवनं न ततोऽन्यत् ततस्तदव्यतिरिक्तं यद्यन्यत् स्यात् घटो न भवेद् भवनादन्यत्वात् , भवनव्यतिरिक्तत्वात् , खपुष्पवत् / भवनं वा तस्य न स्यात् , ततोऽन्यत्वात् पटभवनवदिति / अतो घटमात्रं घटभवनं तदव्यतिरिक्तं च / एवं सर्वगतेतरद्रव्यमात्रमुत्क्षेपणादीति / / एवं पचिक्रियाऽपीत्यादि / काष्ठादि-पृथिव्यादि-स्वतत्त्वेऽप्रतिनियता पचिक्रियाया वृत्तिः पूर्वोक्तसर्वपरिणत्यावृत्तिरूपत्वादन्योन्यस्वरूपापत्तेश्च तेषामैक्यापत्तिचेति / अनतिक्रान्तं द्रव्यस्य स्वरूपं देशे काले वा यया पचिक्रियया सा क्वचिदप्यनतिक्रान्तद्रव्यस्वरूपा सा चोत्क्षेपणादिवदेव, पृथिव्यादि-काष्टादिद्रव्यमानं भवनमेव / भवनं भावोऽस्तितेति पर्यायशब्दाः। तच भवनं यदसौ भवति, स च स्वभावोन ततोऽन्यः, स्वभावसम्बन्धार्थस्तु षष्ठीव्यपदेशः 'क्रशयत्यचेतसः' इति वचनात् स्वार्थाभिधायिन्येवाभेदे कलक्षणा षष्ठी / द्रव्यस्य भवनं, द्रव्यमेव भवतीति / स च भावः पुरुषादिनियमचेतनाचेतनविकल्पद्वैतविशेषण-विनिर्मुक्तः पुरुष एवेदं नियतिरेव काल एवेत्यादि चेतनमचेतनं भवतीत्यनेन विकल्पेन द्वैतमिदं मनुष्यादि, घटादि चेति विशिष्यते / यत् पुरुषादिवादे जाग्रत्-सुप्ताद्यवस्थाभेदेन क्रम-योगपद्यादिभेदेन वा तेन विशेषणेन विनिमुक्तः स भावो निर्विशेषण एव सर्वात्मकः घटादिः पटो भवति / व्रीहिरुदकं मनुष्यो नासौ धर्माधर्मादि पटोऽपि घटो व्रीयुदकादि इत्यविशेषेण सर्वं भवत्येवैकैकमिति तदेव हि भवनम् / यत् सर्वात्मकमसद्व्यावृत्त्यर्थ न ह्यसन्नाम किंचिदस्ति / किं कारणम् ? यस्मादनेन प्रवर्तयितृत्वात् सर्वप्रभदेन व्रीयुदकाकाशाङ्कुरादिना भूयते / न न भूयतेऽपीति द्विःप्रतिषेधाद् भवनमेव अभाव-व्यावृत्त्या नियम्यते भवत्येव, न न भवतीति / केन पुनर्न भवति ? अभावेन प्रागभावादिना / अस्मिन् हि नये न केनचित् प्रकारेण किञ्चिन्न भवतीति प्राग्प्रध्वंसान्योन्यात्यन्ताभावा न सन्त्येव / कुतः ? तदात्मानतिरिक्तत्वात् , स स आत्मा तदात्मा,तस्यात्मा तदात्मा,ततोऽनतिरिक्तत्वात् / यद् यद् यदात्मानतिरिक्तं, तस्य तस्य प्रागभावाद्यभावस्तेनाप्यात्मना भवत्येवेत्यर्थः / किमिव ? बाल-कुमारादिवत् / यथा बालः कुमारो युवा मध्यमः स्थविरो वेति देवदत्त एव तेन तेन