________________ प्रस्तावना इति श्रुत्वाऽकुपद् बालस्तथागतभटान् प्रति / प्रतिज्ञां च चकारोच्चैः, प्रावृडम्भोधरध्वनिः॥ नोन्मूलयामि चेद् बौद्धान् , नदीरय इव दुमान् / तदा भवामि सर्वज्ञ-ध्वंसपातकभाजनम् // इत्युक्त्वाऽम्बां समापृच्छय, बालः कालानलद्युतिः। मल्लनामा गिरिं गत्वा, तेपे तीव्रतरं तपः॥ आसन्नग्रामभक्षेण, पारणं च चकार सः। दिनैः कतिपयैस्तच्च, जज्ञौ शासनदेवता // 37 // भूत्वा व्योमनि साऽवादीत् , 'के मिष्टाः ?' सोऽपि बालकः / .. . तच्छ्रुत्वाऽऽख्यत् सानुभवं, 'वल्लाः' इति खदत्तदृक् // 38 // षण्मास्यन्ते पुनः सोचे, खस्था 'केन सहे'त्यथ। बालर्षिरप्यभाषिष्ट, 'समं घृत-गुडैः शुभैः॥ अवधारणशक्त्या तं, योग्यं शासनदेवता / प्रत्यक्षा न्यगदद् 'वत्स! भूयाः पर-मतापहः' // नयचक्रस्य तर्कस्य, पुस्तकं लाहि मानद ! / वाणी सेत्स्यति ते सम्यक्, कुतर्कोरंग-जाङ्गुली। भूमौ मुमोच तं तर्कपुस्तकं बालको मुनिः / प्रमादः सुलभस्तत्र, वयोलीलाविशेषतः // 12 // रुष्टा शासनदेव्यूचे, विहिताऽऽशातना त्वया / सान्निध्यं ते विधाताऽस्मि, प्रत्यक्षीभविता न तु // 43 // तं लब्ध्वा पुस्तकं मल्लवादी देदीप्यते स्म सः / शस्त्रं पाशुपतमिव, मध्यमः पाण्डुनन्दनः॥ आगत्य वलभीद्रङ्गं, सुराष्ट्राराष्ट्रभूषणम् / शिलादित्यं युगप्रान्तादित्यातिरुवाच सः // 45 // बौद्धैर्मुधा जगजग्धं, प्रतिमल्लोऽहमुत्थितः / अप्रमादी मल्लवादी, त्वदीयो भगिनीसुतः // शिलादित्यनृपोपान्ते, बौद्धाचार्येण वाग्मिना / वादिवृन्दारकश्चके तर्कबर्करमुल्बणम् 47 मल्लवादिनि जल्पाके, नयचक्रबलोल्यणे / हृदये हारयामास, षण्मासान्ते स शाक्यराट् / षण्मासान्तनिशायां स, स्वं निशान्तमुपेयिवान् / तर्कपुस्तकमाकृष्य कोशात् किश्चिदवाचयत् // चिन्ताचक्रहते चित्ते, नार्थांस्तान् धर्तुभीश्वरः। बौद्धः स चिन्तयामास, प्रातस्तेजोवधो मम // . श्वेताम्बरस्फुलिङ्गस्य, किञ्चिदन्यदहो ! महः। ... .निर्वासयिष्यन्तेऽमी हा !, बौद्धाः साम्राज्यशालिनः // 51 // 'धन्यास्ते ये न पश्यन्ति, देश-भङ्गं कुल-क्षयम् / / पर-हस्तगतां भार्यां, मित्रं चापदि संस्थितम् // 52 // ' इति दुःखौघ-संघट्टाद्, विदद्रे तस्य हृत् क्षणात् / नृपाहानं समायातं, प्रातस्तस्य द्रुतं द्रुतम् // नोद्धाटयन्ति तच्छिष्या, गृहद्वारं वराककाः / मन्दो गुरुर्नाद्य भूप-सभामेतेति भाषिणः // तद् गत्वा तत्र तैरुक्तं, श्रुत्वा तन्मल्ल उल्लसन् / अवोचच्च शिलादित्य, मृतोऽसौ शाक्यराट् शुचा // 55 // . स्वयं गत्वा शिलादित्यस्तं तथास्थमलोकत / . बौद्धान् प्रावासयद् देशाद्, धिक् प्रतिष्ठाच्युतं नरम् // 56 // मल्लवादिनमाचार्य, कृत्वा वागीश्वरं गुरुम् / विदेशेभ्यो जैनमुनीन् , सर्वानाजूहवन्नृपः // शत्रुझये जिनाधीशं, भवपञ्जरभञ्जनम् / कृत्वा श्वेताम्बरायत्तं, यात्रां प्रावर्तयन्नृपः // 58 //